पूर्वम्: ३।१।१२०
अनन्तरम्: ३।१।१२२
 
सूत्रम्
युग्यं च पत्त्रे॥ ३।१।१२१
काशिका-वृत्तिः
युग्यं च पत्रे ३।१।१२१

युग्यम् इति निपात्यते पत्रं चेत् तद् भवति। पतत्यनेन इत् पत्रं वाहनम् उच्यते। युग्यो गौः। युग्यो ऽश्वः। युग्यो हस्ती। युजेः क्यप् कुत्वं च निपात्यते। पत्रे इति किम्? योग्यम् अन्यत्।
न्यासः
युग्यं च पत्त्रे। , ३।१।१२१

"पतन्त्यनेनेति पत्त्रम्" इति। "दाम्नीशस" ३।२।१८२ इत्यादिना ष्ट्रन्। " युग्यम्" इति। "युजिर् योगे" (धा।पा।१४४४)। योजनीर्ये --- युज्यते वाहनेन {गमनमिति इति मुद्रितः पाठः} गवादिकमिति युग्यम्॥
बाल-मनोरमा
युग्यं च पत्रे ६९३, ३।१।१२१

युग्यं च पत्रे। क्यबन्तं निपात्यते। ण्यतोऽपवादः। युग्यो गौरिति। शकटादिना योक्तव्य इत्यर्थः। क्यपि कुत्वं निपातनात्। पत्रं वाहनमिति। पतन्ति गच्छन्त्यनेनेत्यर्थे "दाम्नीशसे" त्यादिना करणे ष्ट्रन्। ण्यति तु योग्यमिति स्यात्।

तत्त्व-बोधिनी
युग्यं च पत्रे ५७४, ३।१।१२१

पत्रं वाहनमिति। पतन्त्यनेनेत्यर्थे "दाम्नीशसे"त्यादना करणे ष्ट्रन्। युग्यो गौरिति। यद्यपि "तद्वहति रथयुगप्रासङ्ग"मिति तद्धितयताऽपि इदं सिध्यति तथापि ण्यतं व्यावर्तयितुमिदं सूत्रम्। अन्यथा हि योग्यो गौरिति स्यात्। अन्ये त्वाहुः-- युग्यो हस्तीति हि वृत्तावुदाह्मतं,तत्तु तद्धितेन न सिध्यति। न हि हस्तीयुगं वहति। कृता तु सिध्यति। युज्यते संबध्ते ह्रसौ कुथादिनेति। ततश्चात्र वैयथ्र्यशङ्कैव नास्तीति दिक्।