पूर्वम्: ३।१।१२१
अनन्तरम्: ३।१।१२३
 
सूत्रम्
अमावस्यदन्यतरस्याम्॥ ३।१।१२२
काशिका-वृत्तिः
अमावस्यदन्यतरस्याम् ३।१।१२२

अमाशब्दः सहार्थे वर्तते। तस्मिन्नुपपदे वसेर् धातोः काले ऽधिकरणे ण्यत् प्रत्ययो भवति, तत्र अन्यतरस्यां वृद्ध्यभावो निपात्यते। सह वसतो ऽस्मिन् काले सूर्याचन्द्रमसौ इति अमावास्य, अमावस्या। एकदेशविकृतस्य अनन्यत्वादमावास्याया वा ४।३।३० इत्यत्र अमावस्याशब्दस्य अपि ग्रहणं भवति। अमावसोरहं ण्यतोर् निपातयाम्यवृद्धिताम्। तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति।
न्यासः
अमावस्यदन्तरस्याम्। , ३।१।१२२

"अमावस्यत्" इति। ण्यत्प्रत्ययान्तमेतन्निपातनम्, न क्यप्प्रत्ययान्तमिति ज्ञापनार्थं तकारानुबन्धोच्चारणम्; अन्यथा क्यपः प्रकृतत्वात् क्यप्प्रत्ययान्तमेतदिति सम्भाव्येत। स चापि तित्प्रत्ययो ण्यदिहाभिप्रेतः, न यत्; अन्यथा हि निपातनमर्थकं स्यात्। यत्प्रकरणे "अमावसेरन्यतरस्याम्" इत्येव ब्राऊयात्। दोषवत्त्वाच्च यत्प्रत्ययान्तनिपातस्य। दोषस्तूत्तरत्राविष्करिष्यते। यश्च यत्प्रत्ययान्तनिपातने दोषः स क्यबन्तेऽपि सम्प्रसारणाभावश्च निपातयितव्यतामापद्येत; तस्माण्ण्यत्प्रत्ययान्तमेतन्निपातनमिति मत्वाह-- "कालेऽधिकरणे ण्यत्प्रत्ययो भवति" इति। एकदेशविकृतत्वादिना ण्यत्प्रत्ययान्तनिपातनस्य गुणं दर्शयति। वृद्ध्यभावो हि ण्यति निपातितोऽमावस्याशब्द एव। अमावस्याशब्दो नात्रोपतिष्ठते वृद्ध्यभावपक्षे। ततश्च "एकदेशविकृतमनन्यवद्भवति" (व्या।प।१६) इत्यमावस्याशब्दे गृह्रमाणेऽमावास्याशब्दस्यापि ग्रहणं भवति। तेन "पू()रवाह्णापराह्णाद्र्रामूलप्रदोषावस्काराद्()वुन्" ४।३।२८ इत्यनुवत्र्तमाने "अमावास्याया वा" ४।३।३० इत्यमावास्याशब्दे वुन्नणौ विधायमानावमावस्याशब्दस्यापि सिध्यत #ः। "अमावसेः" इत्यादि। एकस्या अपि प्रकृतेर्वृद्धिभाक्त्वावृद्धिभाक्त्वधर्मभेदेन भेदस्य विवक्षितत्वाद्द्विवचने निर्देशः। अहमित्यात्मानं व्यपदेशयन्नपरेऽन्यथा कुर्वन्तीति सूचयति। "ण्यतोः" इति। ण्यत्प्रत्ययान्तयोरित्यर्थः। "निपातयाम्यवृद्धिताम्" इति। अन्यतरस्यामिति शेषः। तेन किं सिध्यीत्याह-- "तथैकवृत्तिता तयोः" इति। प्रसिद्ध्यतीति वक्ष्यमाणेन सम्बन्धः। क्वचित् "तथैकवृत्तिताम्िति पाठः। तत्र निपातयामीति प्रकृतेन सम्बन्धः। निपातयामीत्यस्य च साधयामीत्येषोऽर्थः। "तयोः" इति। अमावास्याऽमावस्ययोः प्रत्यवमर्शः। वृत्तिः पुनर्वुन्नणोः प्रत्यययोरुत्पत्तिः। एका तुल्या ययोर्वृत्तिस्तावेकवृत्ती,तद्भाव एकवृत्तिता। सा ण्यत्प्रत्ययमुत्पाद्य तत्र वृद्ध्यभावनिपातनेन सिध्यतीति;एकदेशविकृतस्यानन्यत्वात्। "स्वरश्च मे प्रसिध्यति" इति। "तित् स्वरितम्" ६।१।१७९ इति। अन्तस्वरितत्वचेष्टम्। "सिध्यति" इति। ये त्वमापूर्वस्य वसेर्यतं निपातयन्ति, अन्यतरस्यांग्रहणाच्च पक्षे ण्यतमिच्छन्ति,तेषां यद्यप्यमावस्येति रूपं सिध्यति तथापि यत्प्रत्ययपक्षे स्वरो न सिध्यति; "यतोऽनावः" ६।१।२०७ इति स्वरितत्वापवाद आद्युदात्तत्वं वस्याशब्दस्य प्राप्नोति। अमाशब्देनापि समासे कृते "गतिकारकोपपदात् कृत्" ६।२।१३८ इतिकृदन्तस्योत्तरपदस्य प्रकृतिस्वरे कृते वस्याशब्द एवाद्युदात्तः स्यात्। अन्तस्वरितस्चेष्यते। एकवृत्तितापि पूर्वोक्ता न सिध्यति;शब्दान्तरत्वात्। एको हि यत्प्रत्ययान्तः अपरश्च ण्यत्प्रत्ययान्त इति ण्यति वृद्ध्यभावो निपात्यते॥
बाल-मनोरमा
अमावस्यदन्ततरस्याम् ६९४, ३।१।१२२

अमावस्यद। अधिकरणे इति। निपातनलभ्यमिदम्। "अमे"त्यस्य विवरणम् -- सहेति। "ऋहलोण्य"दित्यनुपदमेव प्राक् प्रसङ्गाद्व्याख्यातमपि सूत्रक्रमात्पुनरुपात्तम्। कुत्वमिति। पचेण्र्यति "चजो"रिति कुत्वमिति भावः। ननु "पाणौ सृजेण्र्य"दिति व्यर्थम्, "ऋहलो"रित्येव सिद्धेरित्यत आह-- ऋदुपधलक्षणस्येति। "ऋदुपदाच्चाऽक्लृपिचृतेः" इति ण्यदपवादस्य क्यपो बाधनाथमतित्यर्थः। पाणिसग्र्या रज्जुरिति। ण्यति "चजो"रिति कुत्त्वम्। समवपूर्वाच्चेति। वार्तिकमिदम्। "सृजेण्र्य"दिति शेषः।

तत्त्व-बोधिनी
अमावस्यदन्यतरस्याम् ५७५, ३।१।१२२

वृद्धौ सत्यामिति। तेन "अमावास्याया वे"ति विहितस्तद्धितो ह्यस्वपक्षेऽपि सिध्यति, एकदेशविकृतरयाऽनन्यत्वात्। यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्तेऽधिकरणे ण्यदेव तावद्दुर्लभः। अथापि बाहुलकाल्लभ्येत, एवमपि ण्यदन्तमनूद्य विहितस्तद्धितो यदन्तान्न स्यादिति दिक्। ऋहलोः। पञ्चम्यर्थे षष्ठी। "ऋ" इति ऋधातोर्न ग्रहमं किंतु ऋवर्णस्य, हला साहचर्यात्, परं कार्यमिति निर्देशात्, "ईडवन्दे" इत्यादिलिङ्गाच्च। "ऋहलो"रित्येतदनुवर्तमानस्य धातोर्विशेषणं। विशेषणेन तदन्तविधिस्तदेतदाह--- ऋवर्णान्तादिति। अत्रेदमवधेयं-- मूलपुस्तकेषु सर्वत्र "विभाषा कृवृषो"रित्यत्र पक्षे ण्यद्भवतीति वक्तुं "ऋहलोण्र्य"दिति सूत्रं पठित्वा पश्चात् "युग्यं च पत्रे", "अमावस्यदन्यतस्या"मिति पठितम्। मनोरमायां तु सूत्रपाठक्रमेण "युग्यं च पत्रे", "अमावस्यदन्यतरस्या"मिति व्याख्याय "ऋहलोण्र्य"दितिसूत्रं व्याख्यातं तथैवात्रापि व्याख्यातमिति।