पूर्वम्: ३।१।१३२
अनन्तरम्: ३।१।१३४
 
प्रथमावृत्तिः

सूत्रम्॥ ण्वुल्तृचौ॥ ३।१।१३३

पदच्छेदः॥ ण्वुल्तृचौ १।२ धातोः ? प्रत्ययः ? परश्च ?

समासः॥

ण्वुल् च तृच्च ण्वुल्तृचौ, इतरेतरद्वन्द्वः

अर्थः॥

धातोः ण्वुल्-तृचौ प्रत्ययौ भवतः

उदाहरणम्॥

कारकः, हारकः, पाठकः, कर्ता, हर्ता, पठिता
काशिका-वृत्तिः
ण्वुल्तृचौ ३।१।१३३

धातोः इति वर्तते। सर्वधातुभ्यो ण्वुल्तृचौ प्रत्ययौ भवतः। कारकः। कर्ता। हारकः। हर्ता। चकारः सामान्यग्रहणाविधातार्थः, तुश् छन्दसि ५।३।५९, तुरिष्ठैइमेयस्सु ६।४।१५४ इति।
लघु-सिद्धान्त-कौमुदी
ण्वुल्तृचौ ७८७, ३।१।१३३

धातोरेतौ स्तः। कर्तरि कृदिति कर्त्रर्थे॥
न्यासः
ण्वुल्?तृचौ। , ३।१।१३३

"चकारः सामान्यग्रहणार्थः" इत्यादि। तृज्तृनोः सामान्यग्रहणं यथा स्यादिति। असति तु तस्मिन् "निरनुबन्धकरणे न सानुबन्धकस्य" (व्या।प।५३) इति तृनो ग्रहणं न स्यात्। अथान्तोदात्तार्थः कस्मान्न भवति? तस्य प्रत्ययस्वरेणैव सिद्धत्वात्॥
बाल-मनोरमा
ण्वुल्तृचौ ७१२, ३।१।१३३

अथ कृदन्तप्रकरणं। ण्वुल्तृचौ। अनयोर्वर्तमानकालादन्यत्र न प्रयोग इति भाष्यम्। वोढुमर्ह इति। "अर्हे कृत्यतृचश्चे"त्युक्तेरिति भावः। वोढेति। वहेस्तृच्यनुदात्तत्वादिडभावे ढत्वधत्वष्टुत्वढलोपेषु "सहिवहो"रित्योत्त्वम्। कुटितेत्यत्र लघूपधगुणमाशङ्क्याह-- गाङिति। तर्हि ण्वुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह-- अञ्णिदित्युक्तेरिति। विजितेत्यत्र लघूपधगुणमाशङ्क्याह-- विज इडिति। "इति ङित्त्व"मिति शेषः। विजितेति। ङित्त्वान्न गुणः अनिट्स्त्विति। तस्यानुदात्तोपदेशत्वादिति भावः। "जनक" इत्यत्रोपधावृद्धिमाशङ्क्य वृद्धिनिषेधं स्मारयत-- जनिवध्योश्चेति। वध हिंसायामिति,- धात्वन्तरं भौवादिकं,भ्वादेराकृतिगणत्वात्। नत्वयं हन्तेर्वधादेशः। तथा सति "जनिवध्योश्चे"ति वृद्धिनिषेधसूत्रे वधिग्रहणवैयथ्र्यात्, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव वृद्ध्यभावसिद्धेः। वधक इति। "जनिवध्योश्चे"ति वृद्धिनिषेधः। रन्धकः जम्भक इत्यत्र इदित्त्वाऽभावादप्राप्ते नुमि तद्विधिं स्मारयति-- रधिजभोरचीति। रधितेत्यत्र "रधिजभो"रिति नुममाशङ्क्याह-- नेट()लिटीति। रधिता रद्धेति। "रधादिभ्यश्चे"ति वेट्। मस्()ज्? तृ इति स्थिते आह-- मस्जिनशोरिति। नुम्विधिरयम्। मङ्क्तेति। मस्()ज्? तृ इति स्थिते "मस्जेरन्त्यात् पूर्वो नुम् वाच्यः" इतिसकारादुपरि जकारात् प्राङ्()नुम्। मस्()न्?ज्? तृ इति स्थिते "स्को"रिति सलोपः, जस्य कुत्वेन गः, तस्य चर्त्वेन कः, अनुस्वारः, परसवर्णेन ङ इति भावः। नंष्टा नशितेति। रधादित्वाद्वेट्। इडभावपक्षे "मस्जिनशो"रिति नुमि, नन्()श्? तृ इति स्थिते "व्रश्चे"ति शस्य षः। नस्याऽनुस्वारः। ष्टुत्वम्। रमेरशब्लिटोरिति नुम्विधिरयम्। लब्धेति। "झषस्तथो"रिति तस्य धः, जश्त्वेन भस्य बः। तीषसहेति। इड्विकल्पोऽयम्। सोढेति। ढत्वधत्वष्टुत्वढलोपाः। "सहिवहो"रित्योत्त्वम्। दरिद्रातेरालोप इति। "दरिद्रातेरालोपो वक्तव्यः" इत्यनेनेति भावः। ण्वुलि नेति। दरिद्रातेर्ण्वुलि आलोपो नेत्यर्थः। "न दरिद्रायके लोपः" इति वार्तिकादिति भावः। दरिद्रायक इति। "अतो यु"गिति युगिति भावः। पादाभ्यां ह्यियते पादहारक इत्यत्र कर्मणि ण्वुलं साधयितुमाह-- कृत्यल्युट इत्येवेति। "कृत्यल्युटः" त्येतावतैव पुनर्वचबालद्येष्वर्थेषु ते कृत्यल्युटो विहितास्ततोऽन्यष्वप्यर्थेषु भवन्तीत्यर्थलाभाद्बहुलग्रहणं योगविभागार्थं-- "कृत्प्रत्यया येष्वर्थेषु विहितास्ततोऽन्यत्रापि क्वचिद्भवन्ती"ति। एवं च कर्मण्यपि ण्वुल् सिध्यतीत्यर्थः। "कृतो बहुल"मिति वार्तिकं तु एतद्योगविभागसिद्धकथनपरमिति भावः। क्रमेरिति। आत्मनेपदविषयात्क्रमेः परस्य कर्तरि कृतो नेडित्यर्थः। "स्नुक्रमो"रिति सूत्रस्थमिदं वार्तिकम्। प्रक्रन्तेति। "प्रोपाभ्यां समर्थाभ्या"मित्यात्मनेपदविषयोऽयम्। नन्वेवं सति क्रमितेत्यत्र कथमिडित्यत आह-- अनन्यभावे विषयशब्द इति। "वर्तते" इति शेषः। आत्मनेपदाऽविनाभाव इति यावत्। "क्रमेः कर्तर्यात्मनेपदिन" इत्येतावतैव सिद्धे विषयपदोपादानादयमर्थो लभ्यते इति भावः। तथा च नित्यमात्मनेपदिन इति फलितम्। तेनेति। "क्रमिते"त्यत्र क्रमेः "अनुपसर्गाद्वे" त्यात्मनेपदविकल्पविधानान्नित्यमात्मनेपदित्वाऽभावादिण्निषेधो नेत्यर्थः। मतान्तरमाह-- तदर्हत्वमेवेति। आत्मनेपदार्हत्वमेवात्मनेपदविषयत्वम्। ततश्च आत्मनेपदपक्षे इण्निषेधे सति कर्न्तेति रूपम्, आत्मनेपदाऽभावपक्षे तु क्रमं इटि क्रमितेति रूपमिति केचिदाहुरित्यर्थः। अत्र पक्षे विषयपदस्य न प्रयोजनमित्यस्वरसः। ननु संजिगमिषितेत्यत्र सनः कथमिट्, कगमेरनिट्सु पाठात्, सनः परस्मैपदपरत्वाऽभावेन "गमेरिट् परस्मैपदेषु" इत्यस्याऽप्रवृत्तेरित्यत आह-- गमेरिडित्यत्रेति। एवमिति। "न वृद्ध्यश्चतुभ्र्यः" इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तङानयोरभावं लक्षयतीत्यर्थः। विवृत्सितेति। वृतेः सनि रूपम्। "हलन्ताच्चे"ति कित्त्वान्न गुणः। यङन्तादिति। पचिधातोर्यङन्तात् पापच्येत्यस्माण्ण्वुलित्यर्थः। तस्य अकादेशे "यस्य हलः" इति यकारलोपे अतो लोपे पापच् अक इति स्थिते उपधावृद्धिमाशङ्क्याह-- स्थानिवत्त्वान्न वृद्धिरिति। यङ्लुगन्तात्त्विति। यङः सङ्घातस्य लुकोऽजादेशत्वाऽभावेन स्थानिवत्त्वाऽसंभवादुपधावृद्धिर्निर्बाधा। "न धातुलोपे" इति निषेधस्तु न, यङ्लुकोऽनैमित्तिकत्वादुपधावृद्धेरिग्लक्षणत्वाऽभावाच्च।

तत्त्व-बोधिनी
ण्वुल्तृचौ ५९३, ३।१।१३३

णकारो वृद्ध्यर्थः। लकारो "लिती"ति स्वरार्थः। तृचश्चकारस्तु "तुरिष्ठेमेयस्सु", "तुश्छन्दसि" इत्यादौ सामान्यग्रहणाऽविघातार्थः। "चितः" इत्यन्तोदात्तार्थस्तु न भवति, "आद्युदात्तश्चे"त्येनेनैव सिद्धेः। एवं च "अप्तृन्" इति सूत्रे तृन्तृचो पृथग्ग्रहणं विहाय "अप्तृस्वसृ" इत्येव सुवचमित्येके। अन्ये तु "सामान्यग्रहणेऽपि क्वचिद्विशेषस्यैव ग्रहणं भवती"ति ज्ञापनार्थम् "अप्तृन्नि"ति सूत्रे तृन्()तृचोरुभयोग्र्रहणम्। तेन "कोपधग्रहणे तद्धितवुग्रहण"मित्येतत्सिद्धमित्याहुः। वोढेति। "अर्हे कृत्यतृचश्चे"ति तृच्, ढत्वादयस्तु वोढव्य इत्यत्रेवात्राऽप्यूह्राः। रधितेति। "रधादिभ्यश्चे"ति वेट्। रद्धेति। इह "नेट()लिटी"ति निषेधाऽप्रवृत्तावपि "रधी"त्यनेन अच्परत्वाऽभावान्नुम्न। मङ्क्तेति। "टुमस्जो शुद्धौ" अस्मात्तृच्। "मस्जीट ति नुम्न्त्यात्पूर्वः। "स्को"रिति सलोपः। जस्य कुत्वे चत्र्वम्। अनुस्वारपरसवर्णौ। "बहूनां समवाये द्वयोद्र्वयोः संयोगः" इति पक्षे तु नुमागमस्याऽच्परत्वेऽपि "स्को"रिति सलोपो भवत्येवेति ज्ञेयम्। नंष्टेति। रधादित्वादिडभावपक्षे नुम्।लब्धेति। "झषस्तथो"रिति धः भकारस्य जश्त्वम्। "लभेश्चे"ति नुम् तु न भवति, अचीत्यनुवर्तनात्। ण्वुलि ल्युटि च ने"ति वचनात्। योगविभागेनेति। "कृत्यकल्युटो बहुल"मिति सूत्रे "कृतो बहुल"मित्येवाकरे स्थितम्। तथा च योगविभागं विनैव सर्वेष्टसिद्धिरित्याहुः।

* क्रमेः कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्चः। प्रक्रन्तेति। "प्रोपाभ्यां समर्थाभ्या"मिति क्रमेरत्मनेपदविषयता। अनन्यभावे विषयशब्द इति। तदन्याऽविषयत्वे सति तद्विषयत्वमनन्यभावः। तथा च विकल्पार्हस्य क्रमेः परस्मैपदात्मनेपदोभयप्राप्तिविषयत्वान्निषेधो नेति भावः। संजिगमिषितेति। संपूर्वाद्गमेः सन्। "सन्यङो"रिति द्वित्वे हलादिः शेषे "सन्यतः" इत्यभ्यासस्येत्वम्। "आद्र्धधातुकस्ये"ति सन इट्, षत्वं, सन्नन्तात्तृच्। पुनरिट्। अल्लोपस्येति। प्राचां तु "न धातुलोपे" इति सूत्रे "इक" इत्यनुवृत्तेर्वृद्धेरनिषेधः--- "पापाचक" इत्युक्तं, तन्न, यङन्ते अल्लोपस्य स्थानिवत्त्वेन वृद्धिः प्राप्त्यभावात्। ननु यङ्लुगन्तपापाचकरूपाभिप्रायेण तथोक्तम्, तत्र हि अकारविशिष्टस्यैव यङो लुगिति सर्वसंमतत्वेन स्थानिवत्त्वाऽभावादिति चेत्। मैवम्। एवंतर्हि आद्र्धधातुकस्य धात्ववयवलोपनिमित्तत्वाऽभावेन यङ्लुगन्ते "न धातुलोपे" इति निषेधस्य प्रसक्तेरभावात्।