पूर्वम्: ३।१।१३५
अनन्तरम्: ३।१।१३७
 
सूत्रम्
आतश्चोपसर्गे॥ ३।१।१३६
काशिका-वृत्तिः
आतश् च उपसर्गे ३।१।१३६

आकारान्तेभ्यो धातुभ्यः उपसर्ग उपपदे कप्रत्ययो भवति। णस्यापवादः। प्रस्थः। सुग्लः। सुम्लः।
लघु-सिद्धान्त-कौमुदी
आतश्चोपसर्गे ७९१, ३।१।१३६

प्रज्ञः। सुग्लः॥
न्यासः
आतश्चोपसर्गे। , ३।१।१३६

"णप्रत्ययस्यापवादः" इति। "श्याद्व्यध" ३।१।१४१ इत्यादिना प्राप्तस्य। "सुग्लः" इति। "ग्लै म्लै हर्षक्षये" (धा।पा।९०३,९०४)॥
बाल-मनोरमा
आतश्चोपसर्गे ७१५, ३।१।१३६

आतश्चोपसर्गे। कः स्यादिति। शेषपूरणम्। उपसर्गे उपपदे आदन्ताद्धातोः कः स्यादिति फलति। णस्यापवाद इति। तस्य उपसर्गेऽनुपसर्गे च आदन्तसामान्यविहितत्वादिति भावः। सुग्ल इति। ग्लैधातोः "आदेचः" इत्यात्वे कृते कप्रत्यये आतो लोप इति भावः। प्रज्ञ इति। ज्ञाधातोरातो लोपः।