पूर्वम्: ३।१।१३६
अनन्तरम्: ३।१।१३८
 
सूत्रम्
पाघ्राध्माधेट्दृशः शः॥ ३।१।१३७
काशिका-वृत्तिः
पाघ्राध्माधेट्दृशः शः ३।१।१३७

पादिभ्यो धातुभ्यः उपसर्गे उपपदे शप्रत्ययो भवति। उत्पिबः। विपिबः। उज्जिघ्रः। विजिघ्रः। उद्धमः। विधमः। उद्धयः। विधयः। उत्पश्यः। विपश्यः। उपसर्गे इति केचिन् न अनुवर्तयन्ति। पश्यति इति पश्य। जिघ्रतेः संज्ञायां प्रतिषेधो वक्तव्यः। व्याघ्रः।
न्यासः
पाघ्राध्माधेट्दृशः शः। , ३।१।१३७

"पा पाने" (धा।पा।९२५), "घ्रा गन्धोपादाने" (धा।पा।९२६), "ष्मा शब्दाग्निसंयोगयोः" (धा।पा।९२७) "ध्ट् पाने" (धा।पा।९०२)- एषामाकारान्तलक्षणे के णे च प्राप्ते शो विधीयते। यद्युपसर्ग इत्यनुवत्र्तते तदा के; अथ निवृत्तम्-- के प्राप्त इत्यनुपसर्गेभ्यो णे। दृशेस्त्विगुपधलक्षणे के। "उत्पिब" इत्यादिषु प्रत्ययस्य शित्त्वात् सार्वधातुकसंज्ञायां "कत्र्तरि शप्" ३।१।६८। प्राघ्रादिना ७।३।७८ यथायोगं पिबादयः। "संज्ञायां प्रतिषेधः" इति। प्रकृतत्वाच्शप्रत्ययस्य। तस्य प्रतिषेधस्य "व्याघ्रादिभिः" २।१।५५ इति वचनं लिङ्गम्॥
बाल-मनोरमा
प्राघ्राध्माधेट्?दृशः शः ७१६, ३।१।१३७

प्राघ्रा। अत्र "लुग्विकरणाऽलुग्विकरणयोरलुगविकरणस्ये ग्रहण" मिति मत्वाऽ‌ऽह-- पिबतीति पिब इति। पाधातोः शप्रत्यये तस्य शित्त्वेन सार्वदातुकत्वात् "पाघ्राध्मे"ति पिबादेशः। स चाऽदन्त इत्युक्तम्। शप्। पररूपम्। जिघ्र इति। "प्राघ्रे"ति घ्राधातोर्जिघ्रादेशः। धम इति। ध्माधातोर्धमार्देशः। धय इति। धेटः शः, शप्, अयादेशः, पररूपमिति भावः। धया कन्येति। अत्र धेट्()धातुष्टित्। स अदन्तो न भवति, यस्त्वदन्तो धयशब्दः, स न टित्, अतोऽत्र "टिड्ढाण"ञिति न ङीबिति भावः। धेटष्टित्त्वादित्यारभ्य हरदत्तमतम्। स्तनन्धयीतीति। स्तनशब्दे उपपदे धेट्()धातोः "नासिकास्तनयो"रिति खशि कृते "खत्यनव्ययस्ये"ति मुमि स्तनन्धयशब्दः। तत्र खशि कृते धेटष्टित्त्वमाश्रित्य यथा "टिड्ढाम"ञिति ङीप्, तथा धया कन्येत्यत्रापि ङीप् प्राप्तः, स ङीप् खशोऽन्यत्र नेष्यते इति हरदत्त आहेत्यर्थः। वस्तुतस्तु "डिड्ढाण"ञिति सूत्रे टिदाद्यवयवाऽकारस्यैव ग्रहणमिति भाष्यविरोधादिदं चिन्त्यम्। नच टित्त्वसामथ्र्यादेव स्तनन्धयीशब्दान्ङीबिति वाच्यं, धया कन्येत्यत्रापि ङीप्प्रसङ्गात्, खशोऽन्यत्र नेष्यते इत्यत्र प्रमाणाऽभावात्। त्समात्स्तनन्धयीत्यप्रामाणिकमेव। तस्य प्रामाणिकत्वे गौरादित्वं कल्प्यम्, ङीप्यप्युदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाऽभावादिति शब्देन्दुशेखरे स्थितम्। दृश उदाहरति-- पश्य इति। "पाघ्रे"ति पश्यादेशः। घ्रः संज्ञायां नेति। घ्राधातोः संज्ञायां शो नेत्यर्थः। कुत इत्यत आह-- व्याघ्()रादिभिरिति। अन्यथा "व्याजिघ्रादिभि"रिति निर्दिशेदिति भावः।

तत्त्व-बोधिनी
पाघ्राध्माधेट्दृशः शः ५९६, ३।१।१३७

पाघ्राध्मा। पा पाने। पा रक्षणे इत्ययं तु न गृह्रते, लुग्विकरणत्वात्। इह सूत्रे उपसर्ग इति केचिदनुवर्तयन्ति, तद्बहूनामसंमतम्। तथा च श्रीहर्षः-- "फलानि धूमस्य धयानधोमुखा"निति। श्रूयते च-- "यदा पश्यः पश्यते रुक्मवर्ण"मिति