पूर्वम्: ३।१।१३
अनन्तरम्: ३।१।१५
 
सूत्रम्
कष्टाय क्रमणे॥ ३।१।१४
काशिका-वृत्तिः
कष्टाय क्रमणे ३।१।१४

क्यङनुवर्तते, न क्यष्। कष्टशब्दाच् चतुर्थीसमर्थात् क्रमणे ऽर्थे ऽनार्जवे क्यङ् प्रत्ययो भवति। कष्टाय कर्मणे क्रामति कष्तायते। अत्यल्पम् इदम् उच्यते। स्त्रकष्टकक्षकृच्छ्रगहनेभ्यः कण्वचिकीर्षायाम् इति वक्तव्यम्। कन्वचिकीर्षा पापचिकीर्षा, तस्यामेतेभ्यः क्यङ् प्रत्ययो भवति। स्त्रायते। कष्तायते। कक्षायते। कृच्छ्रायते। गहनायते। कण्वचिकीर्षायाम् इति किम्? अजः कष्टम् क्रामति।
न्यासः
कष्टाय क्रमणे। , ३।१।१४

"क्यङनुवत्र्तते, न क्यष्" इति। क्यङ एव स्वरितत्वात्। "चतुर्थी समर्थात्" इति कष्टायेति निर्देशादेव चतुर्थी समर्थविभक्तिर्लभ्यते, अतस्तत्समथ्र्यात् प्रत्ययो विज्ञायते। क्रमणशब्दोऽयमस्ति पादविहरणे, असति चानार्जवे; तत्र क्रमण इत्यविशेषाभिधाने पादविहरणे प्रत्ययो मा विज्ञायीति विशेषणमुपात्तम्। जिहृम्, पापम्, अनार्जवमित्यनर्थान्तरम्। ततोऽनार्जव इत्यनेन क्रमेण विशेषिते सत्यानार्जवलक्षणं यत्क्रमणं तत्रैव प्रत्ययो विज्ञायते, न क्रमणमात्रे। एतच्च "धातोः कर्मणः" ३।१।७ इत्यादेः सूत्राद्वाग्रहणस्यानुवत्र्तमानस्य व्यवस्थितविभाषात्वाल्लभ्यते। "कष्टाय क्रमणे" इति तादर्थ्ये चतुर्थी। "कष्टायते" इति। कष्टाय क्रमणमनार्जवं करोतीत्यर्थः। "अत्यल्पमिदमुच्यते" इति। सर्वलक्ष्यासंग्रहात्। कथं तर्हि वक्तव्यमित्याह- "{सत्त्रकक्ष" इति मुद्रितः पाठः} सत्रकष्ट" इत्यादि। अस्मिन् न्यसान्तरे यद्यपि समर्थविभक्तिनिर्दशो नास्ति, तथापि सुबधिकारात् तत्समर्थयोग्या विभक्तिरध्याहत्र्तव्या। सत्रं चिकीर्षतीति सत्त्रायते, पापं कर्त्तुमिच्छीत्यर्थः। "अजः कष्टं क्रामति" इति। क्रमिरत्र पादविहरणे। कष्टमिति कर्मपदमेतत्। कष्टं देशं गहनं क्रामतीत्यर्थः। अथ वा-- कष्टमिति क्रियाविशेषणमेतत्। अजः कष्टं यथा भवति तथा सञ्चरतीत्यर्थः। क्रियाविशेषमपक्षेऽपि कष्टमिति द्वितीयान्तमेतत्। प्रसिपादितं हि "करणे च स्तोकाल्प" २।३।३३ इत्यादौ सूत्रे-- क्रिया विशेषाणानां कर्मतेति। तेनात्र सूत्रे प्रत्युदाहरणे द्वितीयान्तस्य कष्टशब्दस्य निर्देशः। मूलोदाहरणेष्वपि द्वितीया समर्थविभक्तिरध्याहत्र्तव्येति विज्ञायते॥
बाल-मनोरमा
कष्टाय क्रमणे ४९५, ३।१।१४

कष्टाय क्रमणे। "क्रमण"शब्दं विवृणोति उत्साहे इति। अस्वरितत्वात् क्यषिति नानुवर्तते इति भावः। "क्रियार्थोपपदस्ये"ति चतुर्तीति मत्वा आह-- पापं कर्तुमिति। क्रमते इत्यत्र "वृत्तिसर्गतायनेषु क्रमः" इति तङ्। "कण्वचिकीर्षाया"मित्यत्र कण्वपदं व्याचष्टे-- कण्वं पापमिति। सत्रादिशब्दान्विवृणोति-- सत्रादय इति। द्वितीयान्तेभ्य इति। चिकीर्षायां द्वितीयान्तस्यैवाऽन्वययोग्यत्वादिति भावः। कण्वशब्दस्तु सत्रादिशब्दानां कण्वपरत्वे तात्पर्यग्राहकः। केचित्तु "कण्वे"त्यविभक्तिकम्। कण्वर्तिभ्य इति व्याचक्षते। अस्वपदविग्रह इति। वृत्तावेव सत्रादिशब्दानां पापवाचित्वादिति भावः। इदं कष्टं शब्दाद्नयत्रैव। "कष्टाय क्रमते" इति तु स्वपदविग्रहोऽस्त्येव। भाष्ये एवं विग्रहं प्रदश्र्य सत्रादिषु विग्रहाऽप्रदर्शनादित्याहः।

तत्त्व-बोधिनी
कष्टाय क्रमणे ४२४, ३।१।१४

कष्टाय क्रमणे। क्यङेवानुवर्तते, स्वरितत्वात्, न तु क्यष्। कष्टायेति निर्देशादेव चतुथ्र्यनतं लभ्यते। क्रमणमुत्साहः। "वृत्तिसर्गतायनेषु" इति कर्मेरात्मनेपदविदायकसूत्रे "सर्ग उत्साह" इति सर्वैव्र्याख्यातत्वात्।

* सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्। कण्वं। कष्टं--- कृच्छ्रम्। "कृच्छ्रगहनेयोः कषः" इति इडभावः। न च दुःखं कर्तुमुत्साहः संभवतीति तत्साधनं पापमिह गृह्रत इत्याह---- पापं कर्तुमिति। द्वितीयान्तेभ्य इति। चिकीर्षायां द्वितीयान्तस्यैवान्वययोग्यत्वादेवमुक्तम्।