पूर्वम्: ३।१।१३९
अनन्तरम्: ३।१।१४१
 
सूत्रम्
ज्वलितिकसन्तेभ्यो णः॥ ३।१।१४०
काशिका-वृत्तिः
ज्वलितिकसन्तेभ्यो णः ३।१।१४०

इतिशब्दः आद्यर्थः। ज्वल दीप्तौ इत्येवम् आदिभ्यो धातुभ्यः कस गतौ इत्येवम् अन्तेभ्यो विभाषा णप्रत्ययो भवति। अचो ऽपवादः। ज्वालः, ज्वलः। चालः, चलः। अनुपसर्गातित्येव, प्रज्वलः। तेनोतेर्णस्य उपसङ्ख्यानं कर्तव्यम्। अवतनोति इति अवतानः।
न्यासः
ज्वलितिकसन्तेभ्यो णः। , ३।१।१४०

"ज्वलिति" इति। ज्वल् इति = आदि येषामिति बहुव्रीहि। विभक्तेस्त्वश्रवणम्, "सुपां सुलुक्" ७।१।३९ इति लुप्तत्वात्। "कसन्तेभ्यः" इति। कसोऽन्ता इति तत्पुरुषः, अन्तशब्द समीपवाची। अथ वा -- कसोऽन्त एषामिति बहुव्रीहिः। अन्तशब्दः समीपवाची, मर्यादावाची वा। "ज्वल दीप्तौ" (धा।पा।८०४,८३१) इति द्विष्पठ()ते-- घटादिषु , परस्ताच्च। "तेभ्यः" इति। तत्रासत्यस्मिन् विशेषणे सन्देहः स्यात्केभ्यो ज्वलादिभ्य इति? अतस्तन्निरासार्थं ज्वलादयो विशिष्यन्ते-- कसन्ता ये ज्वलादय इति। न घटाद्यन्तर्गणः पर्युदस्तो भवति। कसेः परत्वाद्ये पठ()न्ते तन्निवृत्त्यर्थं कसग्रहणं न भवति, कसमधीत्य वृदिति पाठात्। ननु च घटादिषु ज्वलादीनां पाठो मित्संज्ञार्थः, तत्र विनापि कसन्तग्रहणं कसन्ता एव ग्रहीष्यन्ते,तदनर्थकमिदं विशेषणम्? नैतदस्ति; असति हि तस्मिन् पूर्वेषां ज्वलादीनामुभयार्थः पाठः स्यात्-- मित्त्वार्थः प्रत्ययार्थश्च। इतरेषां तु प्रत्ययार्थ एव। तस्मात् कसग्रहणं कत्र्तव्यम्। "अचोऽपवादः" इति। ज्वलादीनां पचाज्यन्तः पातित्वात्। "तनोतेर्णस्योपसंख्यानं कत्र्तव्यम्" इति। णे विधातव्ये तनोतेरपि णस्य प्रतिपादनं कत्र्तव्यम्। प्रतिपादनं तूत्तरत्र चकारस्यानुक्तसमुच्चयार्थत्वात् कत्र्तव्यम्॥
बाल-मनोरमा
ज्वलितिकसन्तेभ्यो णः ७१९, ३।१।१४०

ज्वलिति। आद्यर्थ इति। तथा च ज्वल् इति = आदिर्येषां ते ज्वलितयः, ते च ते कसन्ताश्चेति ज्वलितिकसन्ताःष तेभ्य इति विग्रहः। तदाह-- ज्वलादिभ्य इति। "ज्वल दीप्तौ इत्यारभ्य "कस गतौ" इत्येवमन्तेभ्य इत्यर्थः। वा णः स्यादिति।विभाषेत्यनुवर्तते इति भावः। पक्षेऽजिति। "इगुपधेभ्यः कः" इत्यपि बोध्यम्। उपसङ्ख्यानमिति। "णस्ये"ति शेषः। न संबध्यते इति। "अवतानः" इत्येव भाष्ये उदाहरणादिति भावः।

तत्त्व-बोधिनी
ज्वलितिकसन्तेभ्यो णः ५९९, ३।१।१४०

इतिशब्द आद्यर्थ इति। निपातानामनेकार्थत्वादिति भावः।