पूर्वम्: ३।१।१४३
अनन्तरम्: ३।१।१४५
 
सूत्रम्
गेहे कः॥ ३।१।१४४
काशिका-वृत्तिः
गेहे कः ३।१।१४४

ग्रहेर् धातोः कप्रत्ययो भवति गेहे कर्तरि। गृहं वेश्म। तात्स्थ्यात् दाराश्च। गृह्णन्ति इति गृहाः दाराः। गृहाणि वेश्मानि।
लघु-सिद्धान्त-कौमुदी
गेहे कः ७९२, ३।१।१४४

गेहे कर्तरि ग्रहेः कः स्यात्। गृहम्॥
न्यासः
गेहे कः। , ३।१।१४४

"गेहे कत्र्तरि" इति। एतेन "गेहे" इति प्रत्ययार्थस्य कर्त्तुरुपाधिरयम्, न तूपपदमिति दर्शयति। एतच्चा()आपत्यादौ गृहपतिशब्दपाठाद्विज्ञायते। "तात्स्थ्याद्दाराश्च" इति। गेहमिति प्रकृतेन सम्बन्धः। एतेन गौणेऽपि गेहे प्रत्ययो भवतीत्याचष्टे। एतच्च तन्त्रेण गेहशब्दस्य द्वितीयस्योच्चारणाल्लभ्यते। "गृहम्िति। ग्रह्रादिना ६।१।१६ सम्प्रसारणम्॥
बाल-मनोरमा
गेहे कः ७२३, ३।१।१४४

गेहे कः। "विभाषा ग्रहः" इत्यस्यापवादः। गृहमिति। "ग्रहिज्ये"ति संप्रसारणं, पूर्वरूपं च॥ ननु "गृहा दारा" इति कथम्, गेहे कर्तर्येव वाच्ये कप्रत्ययविधानादित्यत आह-- तात्स्थ्यादिति। गृहशब्दो गेहस्थे लाक्षणिक इति भावः। गृहा दारा इति। "दारेष्वपि गृहाः" इत्यमरः।

तत्त्व-बोधिनी
गेहे कः ६०३, ३।१।१४४

गेहे कः। गेह इति प्त्ययार्थस्य कर्तुर्विशेषणं, नोपपदम्, "गृहपतिना संयुक्ते ञ्यः" इति निर्देशादित्यभिप्रेत्याह--- गेहे कर्तरीति। एतत्सूत्रं तु शक्यम कर्तुम्। गृहू ग्रहणे इति भ्वादेरिगुपधलक्षमे कप्रत्यये कृते गृहशब्दस्य सिद्धेः। तात्स्थ्यादिति। भवति हि तात्स्थ्यात्ताच्छब्द्यम्। "मञ्चाः क्रोशन्ती" त्यादौ मञ्चशब्देन पुरुषा अपि व्यपदिश्यन्ते। एवं च गृहशब्दो वेश्मनि मुख्यो, दारेषु त्वौपचारिक इत्यर्थः। अत्रेदमवधेयम्-- गृहशब्दोऽयमद्र्धर्चादित्वादुभयलिङ्गः। तत्र नपुंसकलिङ्गोऽभिधेयवचनः पुँल्लिङ्गस्तु बहुवचनान्त एव। "गृहाः पुंसि च भूस्त्र्येवे"त्यमरोक्तेरिति।