पूर्वम्: ३।१।१४५
अनन्तरम्: ३।१।१४७
 
सूत्रम्
गस्थकन्॥ ३।१।१४६
काशिका-वृत्तिः
गस्थकन् ३।१।१४६

गायतेः थकन् प्रत्ययो भवति शिल्पिनि कर्तरि। गाथकः, गाथिका।
न्यासः
गस्थकन्। , ३।१।१४६

"गः" इति। "आतो धातोः" ६।४।१४० इत्याकारलोपं कृत्वा "गै शब्दे" (धा।पा।९१७) इत्यस्यायं निर्देशः। अत एवाह-- "गायतेः"इति। ननु च "गामादाग्रहणेष्वविशेषणः" (व्या।प।१२४) इति "गाङ् गतौ" (धा।पा।९५०) इत्यास्यपि ग्रहणेन भवितव्यम्? नैतत्; यस्माद् गाथक इति थकन्प्रत्ययान्तेन गायत्यर्थविशेष एव शिल्पिनि कर्त्तृत्वं विज्ञायते; न तु गाङर्थविषये। थकनो नकार आद्युदात्तार्थः॥
बाल-मनोरमा
गस्थकन् ७२५, ३।१।१४६

गस्थकन्। "गः - थक्"न्निति च्छेदः। गैधातोः कृतात्वस्य "ग" इति पञ्चम्यन्तम्। तदाह--गायतेरिति।

तत्त्व-बोधिनी
गस्थकन् ६०५, ३।१।१४६

गस्थकन्। गामादागर्हणेष्वविशेषेऽपि गै शब्द इत्ययमेवेह गृह्रते न तु गाङ् गताविति, थकन् प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थं इत्याशयेनाह-- गायतेरिति।