पूर्वम्: ३।१।१४६
अनन्तरम्: ३।१।१४८
 
सूत्रम्
ण्युट् च॥ ३।१।१४७
काशिका-वृत्तिः
ण्युट् च ३।१।१४७

चकारेण गः इत्यनुकृष्यते। गायतेः ण्युट् प्रत्ययो भवति शिल्पिनि कर्तरि। गायनः, गायनी। योगविभागः उत्तरार्थः।
न्यासः
ण्युट् च। , ३।१।१४७

"गायनः" इति। "आतो युक् चिण्कृतोः" ७।३।३३ इति युक्। "गायनी"। टित्त्वान्ङीप्। "योगविभाग उत्तरार्थः" इति। उत्तरत्र चकारेण ण्युट एवानुवृत्तिर्यथा स्यात्, थकनो मा भूदिति। "गो ण्युट्()थकनौ" इत्येकयोगे थकन्नप्यनुकृष्येत॥
बाल-मनोरमा
ण्युट् च ७२६, ३।१।१४७

ण्युट् च। चकार उक्तसमुच्चये। गायतेर्ण्युट्, थकन् च शिल्पिनि कर्तरि। गायन इति। आत्वे युक्। "आदेचः" इत्यात्वस्य अनैमित्तिकत्वेन वृद्ध्यपेक्षया अन्तरङ्गत्वात्। यद्यपि "गस्थकन्()- ण्युट् चे"त्येकमेव सूत्रमुचितम्, तथापि ण्युट एवोत्तरसूत्रे अनुवृत्त्यर्थो योगविभागः।

तत्त्व-बोधिनी
ण्युट् च ६०६, ३।१।१४७

ण्युट् च। योगविभाग उत्तरत्र अस्यैवाऽनुवृत्त्यर्थः। गायन इति। "आतो युक्"।