पूर्वम्: ३।१।१४७
अनन्तरम्: ३।१।१४९
 
सूत्रम्
हश्च व्रीहिकालयोः॥ ३।१।१४८
काशिका-वृत्तिः
हश् च व्रीहिकालयोः ३।१।१४८

चकारेण गः इत्यनुकृस्यते। गायतेः ण्युट् प्रत्ययो भवति शिल्पिति कर्तरि। गायनः, गायनी। योगविभागः उत्तरार्थः।
न्यासः
हशच् व्रीहिकालयोः। , ३।१।१४८

"जहातेः" इति। ओहाक् त्यागे" (धा।पा।१०९०)। "जिहातेश्च" इति। "ओहाङ गतौ" (धा।पा।१०८९)। अस्यात्र ग्रहणमिष्यते। तयोः सामान्यग्रहणार्थ एव ककारो जहातेर्निर्दिश्यते। असति हि तस्मिन् यदीदमेकानुबन्धग्रहणम्(), तदुपादाने द्वयनुबन्धकस्य जिहातेर्न स्यात्। अथ द्वयनुबन्धकस्य जहातेर्न स्यात्। ककारे तु सति द्वयोरपि सानुबन्धकत्वात् सामान्येन ग्रहणमुपपद्यते। "व्रीहौ काले च कत्र्तरि" इति। एतेन व्रीहिकालयोः प्रत्यार्थविशेषणं दर्शयति। उपपदत्वं तु निरस्यति। एतच्च "दामहायनान्ताच्च" ४।१।२७ इति निर्देशाद्विज्ञायते। "हायनाः" इति। "आतो युक् चिण्कृतोः" ७।३।३३ इति युक्। "जहत्युदकमिति कृत्वा" इति। व्रीहिषु हायनशब्दस्य प्रवृत्तिनिमित्तं दर्शयति। "जिहीते भावान्" इति। "जिहीते भावान्" इति। एतेनापि संवत्सरे॥
बाल-मनोरमा
हश्च व्रीहिकालयोः ७२७, ३।१।१४८

हश्च। "ओ हाक् त्यागे" इत्यस्य "ओ हाङ् गतौ" इत्यस्य च "ह" इति पञ्चम्यन्तम्। तदाह-- हाको हाङश्चेति।

तत्त्व-बोधिनी
हश्च व्रीहिकालयोः ६०७, ३।१।१४८

जहात्युदकमिति। उदकाधिक[म्] वद्र्धनात्। भावानिति। भावाः पदार्थाः, तान् जिहीते इति। ओहाङ् गतौ। "भृञामि"दित्यभ्यासस्येत्वम्।