पूर्वम्: ३।१।१
अनन्तरम्: ३।१।३
 
प्रथमावृत्तिः

सूत्रम्॥ परश्च॥ ३।१।२

पदच्छेदः॥ परः १।१ ५।४।१५० प्रत्ययः १।१

अर्थः॥

यस्य प्रत्ययसंज्ञा विहिता सः प्रत्ययः परश्च भवति, इति अधिकारः वेदितव्यः, आपञ्चमाध्यायपरिसमाप्तेः

उदाहरणम्॥

कर्त्तव्यम्, तैत्तिरीयम्॥
काशिका-वृत्तिः
परश् च ३।१।२

अयम् अप्यधिकारो योगे योगे उपतिष्ठते, परिभाषा वा। परश्च स भवति धातोर् वा प्रातिपदिकाद् वा यः प्रत्ययसंज्ञः। कर्तव्यम्। तैत्तिरीयम्। चकारः पुनरस्यैव समुच्चयार्थः। तेन उणादिषु परत्वं न विकल्प्यते।
लघु-सिद्धान्त-कौमुदी
परश्च १२१, ३।१।२

इत्यधिकृत्य। ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः॥
न्यासः
परश्च। , ३।१।२

"अयमप्यधिकारः" इति। न केवलं प्रत्यय इत्यपिशब्दार्थः। "योगे योगे उपतिष्ठते" इति। परिभाषाया अधिकारस्य भेदं दर्शयति। परिभाषा ह्रेकदेशस्थैव सर्वत्र शास्त्रे व्याप्रियते, न तु प्रतियोगमुपतिष्ठते। "परिभाषा वा" इति। पक्षान्तरं दर्शयति। एकदेशस्यैव सर्वत्र शास्त्रे व्याप्रियत इत्येष परिभाषाधर्मो वृत्तौ न दर्शितः; अधिकारधर्मप्रदर्शनद्वारेणावगम्यमानत्वात्। यदि हि प्रयोगमुपतिष्ठमाना परिभाषा कार्यसिद्धौ व्याप्रियेत तदाऽधिकारपरिभाषयोर्भेदो न स्यात्, तथा च तयोरिह भेदेनोपन्यसो निष्फलः स्यात्। लिङ्गवती चेयं परिभाषा, लिङ्गञ्चास्याः प्रत्ययसंज्ञैव। धातोर्वेति क्रियावाचिन्या प्रकृतेरिदमुपलक्षणम्, तेन तिङन्तमपि गृह्रते। तदपि क्रियाप्रधानत्वात् क्रियावाचीति शक्यते व्यपदेष्टुम्। प्रधानेन हि व्यपदेशा भवन्ति, यथा--- राजधानीति। "प्रातिपदिकाद्वा" इति। अक्रियाभिधायिन्याः प्रकृतेरिदमुपक्षणम्, तेन ङ्यापावपि गृह्रेते। "तैत्तिरीयम्" इति। प्रोक्तार्थे "तित्तिरवरतन्तुखण्डिकोखाच्छण्" ४।३।१०२ इति छण्। तदन्तात् "तदधीते तद्वेद" २।४।५९ इत्यण्। तस्य "प्रोक्ताल्लुक्" ४।२।६३ इति लुक्। अथ चकारः किमर्थः; यावता नात्र किञ्चित् प्रकृतमस्ति यच्चकारेण समुच्चीयते? इत्याह-- "चकारः पुनः" इत्यादि। अन्यस्य समुच्चेतव्यस्याभावादस्यैव समुच्चयार्थश्चकारो विज्ञायते, तेन बहुलाधिकारेऽपि ये प्रत्यया विधीयन्ते तेष्वप्यृणादिषु परत्वं न विकल्प्यते। किमर्थं पुनरिदमुच्यते? परो यथा स्यात्, पूर्वो मा भूदिति। नैतदस्ति प्रयोजनम्, तथा हि-- यमिच्छति पूर्वं तमाह--- "अव्ययसर्वनाम्नामकच् प्राक्टेः" ५।३।७१ इति। य इदानीमतोऽन्यः प्रत्ययः सोऽन्तरेणापि वचनं पर एव भविष्यति? नैतदस्ति; येषामेव हि प्रत्ययानां देशो नियम्यते त एव नियतदेशाः स्युः। य इदानीमतोऽन्योऽनियतदेशः स कदाचित् परे, कदाचित् पूर्वे, कदाचिन्मध्ये स्यात्, तस्मात् परश्चेति वक्तव्यम्? न वक्तव्यम्; यस्मात् धातोः प्रतिपदिकादिति च दिग्योगलक्षमेयं पञ्चमी; अन्यस्यापादानादेः पञ्चमीनिमित्तस्याभावात् तस्मादेषैव परदिक्शब्दाध्याहारं करिष्यति? नैतदस्ति; पूर्वदिक्शब्दाध्याहारः स्यात्, तथा च पूर्वेऽपि कदाचित् सन्नादयः स्युः। "तस्मादित्युत्तरस्य" (१।१।६७) इत्यनया परिभाषया तर्हि व्यवस्था भविष्यति? नैतदस्ति; यत्र पञ्चमीनिर्दिष्टात् परस्य षष्ठीनिर्देशस्य कार्यं विधीयते सोऽस्य विषयः, न च सन्नादयः षष्ठ()आ निर्दिश्यन्ते, तनापि तेषां सम्बन्धिकार्यं विधीयते, तेषामेव भाव्यमानत्वात्। ननु च प्रत्ययसंज्ञाकार्यं विधीयते? नैवम्, कथं पुनरसतां तेषां शक्यं संज्ञाकार्यं विधातुम्? किञ्च येषां प्रत्ययसंज्ञैव न विधीयते-- "कणेष्ठः" (द।उ। ५।६) "शमेर्ढः" (५।११), इत्येवमादीनाम्, तत्र का गतिः स्यात्? न ह्रेषां प्रत्ययसंज्ञेष्यते, तथा हि-- कण्ठः, शण्ढ इत्यत्र प्रत्ययस्योच्यमानमिकादेशादिकार्यं न भवति। यद्येवम्, प्रत्ययस्योच्यमानं परत्वमपि न स्यात्? परश्चेत्यधिकारसामथ्र्याद्भविष्यति। असति ह्रेतस्मिन् वचने सत्यपि तस्याः परिभाषाया उपस्थाने बहुलाधिकारे विधीयमानत्वादुणादिषु परत्वं विकल्प्येत। तस्मात् कत्र्तव्यमेतत्॥
बाल-मनोरमा
परश्च १८०, ३।१।२

परश्च। तृतीयाध्यायस्य द्वितीयसूत्रमेतत्। अयमपि तथेति। अयमपि योग आ पञ्चमपरिसमाप्तेरधिकार इत्यर्थः। अवधिनियमे तु व्याख्यानमेव शरणम्।