पूर्वम्: ३।१।२१
अनन्तरम्: ३।१।२३
 
सूत्रम्
धातोरेकाचो हलादेः क्रियासमभिहारे यङ्॥ ३।१।२२
काशिका-वृत्तिः
धातोरेकाचो हलाऽदेः क्रियासमभिहारे यङ् ३।१।२२

एकाज् यो धातुर् हलादिः क्रियासमभिहारे वर्तते तस्माद् यङ् प्रत्ययो भवति। पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः। नः पुनः पचति पापच्यते। यायज्यते। भृशं ज्वलति जाज्वल्यते। देदीप्यते। धातोः इति किम्? सोपसर्गादुत्पत्तिर् मा भूत्, भृशं प्राटति। एकाचः इति किम्? भृशं जागर्ति। हलादेः इति किम्? भृशमीक्षते। सूचिसूत्रमूत्र्यट्यर्त्यशूर्णोतीनां ग्रहनं यङ्विधानवेकाजहलाद्यर्थम्। सोसूच्यते। सोसूत्र्यते। मोमूत्र्यते। अटाट्यते। अरार्यते। अशाश्यते। प्रोर्णोनूयते। भृशं शोभते, भृशं रोचते इत्यत्र नेष्यते, अनभिधानात्।
लघु-सिद्धान्त-कौमुदी
धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ७१४, ३।१।२२

पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात्॥
न्यासः
धातोरेकाचो हलादेः क्रियासमाभिहारे यङ्। , ३।१।२२

"एकाच्" इति। बहुव्रीहिरयं न तत्पुरुषः; "हलादेः" इति विशेषणात्। "क्रियासमभिहारे वत्र्तते" इति। एतेन क्रियासमभिहारस्य प्रकृतिविशेषणत्वं दर्शयति। "तस्माद्यङप्रत्ययो भवति" इति। क्व? "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति"(पु।प।पा।९०) इति तत्रैव क्रियासमभिहारे। विप्रकीर्णानामकेत्र राशीकरणं समुदायभावापत्तिर्मुख्यः समभिहारः। स च क्रियागामुत्पन्नापवर्गिणीनां सहानवस्थानादेकेन च धातुनाऽनकस्याः क्रियाया युगपदनभिधानान्न सम्भवतीति गौणं समभिहारं दर्शयतुमाह--"पौनः पुन्यम्" इत्यादि। उभयमपि ह्रेतत् समभिहारसादृश्यादुपचारेण समभिहारे व्यपदेशमासादयति। यथा द्रव्याणां समाह्मतानां द्रव्यान्तरैरव्यपेतानां समाहारो भवति, तथा क्रियाणामपि क्रियान्तरैरव्यपेतानामेतदुभयं भवतीति सादृश्यम्। क्रिया च द्विप्रकारा--- प्रधाना,अप्रधाना च। तत्र प्रधानक्रिया विक्लेदनादिः, गुणक्रिया चाधिश्रयणादिः। तत्र यः फलान्तं पाकमवसाय्य क्रियान्तरमनारभ्य पुनः पाकमेवारभते स प्रधानक्रियां समभिहरति, तासां पौनःपुन्यं समभिहारः। यस्त्वधिश्रयणादीरेव क्रियाः क्रियान्तरैरव्यपेताः साकल्येन करोति स गुणक्रियाः समभिहरति, तासां भृशार्थता समभिहारः। फलातिरेको वा भृशार्थता। तथा हि--- यो ज्वलनफलमवाप्य ज्वलति, दीप्यते वा, स जाज्वल्यते देदीप्यते इति चोच्यते। "पापच्यते" इति। "सन्यङोः" ६।१।९ इति द्विर्वचनम्, "दीघोऽकितः" ७।४।८३ इति दीर्घः। अत्र "क्रियासमभिहारे द्वे भवतः" (वा।८८६) इति द्वित्वं न भवति; क्रियासमभिहारे विधीयमानस्य यङः स्वयमेव तदभिव्यक्तौ सामथ्र्यात्। यस्तु "क्रियासमभिहारे लोड् लोटो हिस्वौ वा च तध्वमोः" ३।४।२ इति लोड् वक्ष्यते स क्रियासमभिहारव्यक्तौ स्वयमशक्त इत्यपेक्षते द्विर्वचनम्। न ह्रसौ क्रियासमभिहारे विधीयते, किं तर्हि? कर्मादिषु; "लः कर्मणि च भावे चाकर्मकेभ्यः" ३।४।६९ इति वचनात्। तेन तस्य प्रयोगे द्विर्वचनं भवत्येव-- "लुनीहि लुनीहीत्येवायं लुनाति। "देदीप्यते" इति। "गुणो यङ लुकोः" ७।४।८२ इति गुणः। "भृशं प्राटति" इति। असति धातुग्रहणे, एकाज् यः शब्दो हलादिः क्रियासमभिहारे वत्र्तते तस्माद्यङ प्रत्ययो भवतीत्ये। सूत्रार्थः स्यात्। ततश्च प्रपूर्वादटतेर्यङ प्रसज्येत; प्रपूर्वस्याटतेर्यः समुदायस्तस्य यथोक्तविशेषणविशिष्टत्वात्। धातुग्रहणे सत्येष प्रसङ्गो न भवति। न ह्रयं धातुः, किं तर्हि? धातूपसर्गसमुदायः। "जागर्ति" इति। आदादित्वाच्छपो लुक्। अथ क्रियाग्रहणं किमर्थम्, न समभिहार इत्येवोच्येत? नैवम्। साधनसमभिहारेऽपि स्यात्। नैतदस्ति, प्रकृतिविशेषणं ह्रेतत्। न च प्रकृतेः साधनसमभिहारे वृत्तिः सम्भवति। अपि च "करणे" ३।१।१७ इति वत्र्तते, तेन समभिहारो विशेषयिष्यते-- करणसम्बन्धी चेत् समभिहारः, तत् कुतः साधनसमभिहारे प्रसङ्गः? इदं तर्हि प्रयोजनम्--- क्रियामात्रसमभिहारे यथा स्यात्; अन्यथा प्रधाने कार्यसम्प्रत्ययात् प्रधानक्रियासमभिहार एव स्यात्, न गुणक्रियासमभिहारे। "सूचि" इत्यादि। "सूच पैशून्ये" (धा।पा।१८७३), "सूत्र {वेष्टने" धा।पा।} अवमोचने" (धा।पा।१९०८), "मूत्र प्ररुआवणे" (धा।पा।१९०९) "अट गतौ" (धा।पा।२९५), "ऋ गतौ" (धा।पा।१०९८), "अश भोजने" (धा।पा।१५२३) "ऊर्णूञ् आच्छादने" (धा।पा।१०३९),-- आसां प्रकृतीनां यङविधौ ग्रहणं कत्र्तव्यम्, तच्च पूर्वस्यैव चकारस्यानुक्तसमुच्चयार्थत्वाल्लभ्यते, किमर्थं पुनरासां प्रकृतीनां ग्रहणमित्याह--- "अनेकाजहलाद्यर्थम्" इति। अनेकाज् अहलादिरर्थः प्रयोजनं यस्य तत्तथोक्तम्। सूच्यदीनां तिसृणां चुरादिणिजन्तानामनेकार्थं ग्रहणम्, ऊर्णोतेस्त्वनेकाजर्थमहलाद्यर्थञ्च, शेषाणां तु अहलाद्यर्थमेव। "सोसूयते" इति। "णेरनिटि" ६।४।५१ इति णिलोपः, पूर्ववदभ्यासस्य गुणः। "अटाटयते" इति। "अजादेर्द्वितीयस्य" ६।१।२ इति ट()कारस्य द्विर्वचनम्, हलादिः शेषः, दीर्घश्च। "अरार्यते" इति। "यङि च" ७।४।३० इति गुणः। द्वितीयस्यैकाचो र्यशब्दस्य द्वर्वचनम्। "न न्द्राः संयोगादयः" ६।१।३ इति तु नास्ति, "यकारपरस्य रेफस्य प्रतिषेधः" (वा। ६५१) इति वचनात्। "अशाश्यते" इति। द्वितीयस्यैकाचः "श्य" इत्यस्य द्विर्वचनम्। "प्रोर्णुनूयते" इति। अत्रापि नुशब्दस्य द्विर्वचनम्। रेफस्तु न द्विरुच्यते, तथैव प्रतिषेधात्। "भृशं रोचते, भृशं शोभत इत्यत्र नेष्यते" इति। तदर्थं वेत्यनुवृत्तस्य व्यवस्थितविभाषात्वं व्याख्येयम्॥