पूर्वम्: ३।१।२२
अनन्तरम्: ३।१।२४
 
सूत्रम्
नित्यं कौटिल्ये गतौ॥ ३।१।२३
काशिका-वृत्तिः
नित्यं कौटिल्ये गतौ ३।१।२३

गतिवचनाद् धतोः कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति। कुटिलं क्रामति चङ्क्रम्यते। दन्द्रम्यते। नित्यग्रहणं विषयनियमार्थं, गतिवचनान् नित्यम् कौटिल्य एव भवति, न तु क्रियासमभिहारे। भृशं क्रामति।
लघु-सिद्धान्त-कौमुदी
नित्यं कौटिल्ये गतौ ७१६, ३।१।२३

गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे॥
न्यासः
नित्यं कौटित्ये गतौ। , ३।१।२३

धातोरित्येव। "गतौ" इति। प्रकृतिविशेषणमेतत्। गतौ वत्र्तमानाद्धातोरित्यर्थः। अमुमेवार्थं पर्यायान्तरेणाचष्टे--- "गतिवचनाद्धातोः" इति। "चंक्रकम्यते, दंद्रम्यते" इति। "क्रमु पादविक्षेपे" (धा।प।४७३), द्रम हम्म मीमृ गतौ (धा।पा।४६६, ४६७, ४६८) "नुगतोऽनुनासिकान्तस्य" ७।४।८५ इति नुमागमः। योऽल्पीयस्यध्वनि गतागतानि करोति स कुटिलां गतिं सम्पादयन् चंक्रभ्यते देद्रम्यत इति चोच्यते। अथ नित्यग्रहणं किमर्थम्, यावताऽनभिदानादेवात्र वाक्यं न भविष्यति? न हि चङक्रम्यत इति वृत्तेरर्थं कुटिलं क्रामतीति वाक्यं शक्नोति गमयितुम्। तथा हि कुटिलं क्रामतीति वाक्यात् संशयो भवति-- किं गतिकौटिल्यम्? उत मनः-- कौटिल्यमिति? चंक्रम्यत इति वृत्तौ त्वसंशयं गतिकौटिल्यमेव गम्यते, इत्याह-- "नित्यग्रहणम्" इत्यादि। गतिकौटिल्यं विषयः। तत्र यङो नियमोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। "गतिवचनात्" इत्यादिना नियमस्य प्रयोजनं दर्शयति। "न तु" इत्यादिना तद्व्यवच्छेद्यम्। नित्यम् = सर्वकालं गतिवचनात् कौटिल्य एव भवति, न तु कदाचित् क्रियासमभिहारे। तेन "भृशं क्रामति" इति क्रियासमभिहारे पूर्वेण प्राप्तो यङ् न भवति।
तत्त्व-बोधिनी
नित्यं कौटिल्ये गतौ ४०१, ३।१।२३

नित्यं कौटिल्ये। "नित्यं" शब्दोऽवधारणार्थक इत्याह-- कौटिल्य एवति। तक्रकौण्डिन्यन्यायेनैवेष्टे सिद्धे नित्यग्रहणं तस्य न्यायस्याऽनित्यत्वज्ञापनार्थम्। तेन "मतिबुद्धिपूजार्थेभ्यश्चे"ति वर्तमाने क्तेनाऽबाधनात्पूजार्थेभ्यो भूते क्तः सिध्यति। ततश्च "क्तस्य च वर्तमाने" इति षष्ठी न प्रवर्तत इति "पूजितो यः सुरासुरै"रिति तृतीया साधुरेव। इत्यादीति। जंजभ्यते। दंदह्रते। दंदश्यते। बंभज्यते। "पस"धातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति स्पश बाधनस्पर्सनयोरित्यत्र माधवः। पंपस्यते। काशिकायां तु तालव्यान्तः क्वचिद्दृश्यते। एवं जञ्()जभीति। दन्दहीतीत्यादि यङ्लुकि उदाहर्तव्यम्।