पूर्वम्: ३।१।२८
अनन्तरम्: ३।१।३०
 
सूत्रम्
ऋतेरीयङ्॥ ३।१।२९
काशिका-वृत्तिः
ऋतेरीयङ् ३।१।२९

ऋतिः सौत्रो धतुः धृणायां वर्तते, ततः ईयङ् प्रत्ययो भवति। ङकार आत्मनेपदार्थः। ऋतीयते, ऋतीयेते, ऋतियन्ते। ईयङ्वचनं ज्ञापनार्थं, धातुविहितानां प्रत्ययानाम् आयनादयो न भवन्ति इति।
न्यासः
ऋतेरीयङ्। , ३।१।२९

"सौत्रः" इति। सूत्रे परिपठितत्वात्। सूत्रे भवः सौत्रः। "घृणायां वत्र्तते" इति। घृणा = जुगुप्सा। तस्यामयं स्वभावत एव वत्र्तते। अथ कस्मादीयङुच्यते, न च्छङित्येवोच्येत, तस्येयादेशे ऋतीयत इति सिध्यति? न सिध्यति; परत्वादिडागमे कृते सत्यप्रत्ययादित्वादीयादेशो न स्यात्। ननु चान्तरङ्गत्वादीयादेश एव भविष्यति, अन्तरङ्गत्वन्तु तस्यायन्नादिषु "उपदेशिवद्वचनमिष्टस्वरसिद्ध्यर्थम्" (७।१।२।वा।१) इति वचनात्; एवं तह्र्रेतज्ज्ञापयति-- "धातुप्रत्ययानामायन्नादयो न भवन्ति" इति। तेन शमेर्ढप्रत्यये कृते शण्ढः इत्येवमादयः सिद्धा भवन्ति। अथ वा-- स्वरविधावुपदेशिवद्भावः स्वरसिध्यर्थमिति वचनात्। तेन नास्त्यन्तरङ्गतेति परत्वादिडागमः स्यात्, तस्मादीयङ् विधीयते॥
बाल-मनोरमा
ऋतेरीयङ् २५३, ३।१।२९

ऋतेरीयङ्। ऋतेर्धातुपाठेऽदर्शनादाह-- ऋतिः सौत्र इति। स्वार्थे इति। अर्थविशेषस्याऽनिर्देशादिति भावः। तकारान्तो धातुरयमिका निर्दिष्टो न त्विकारान्तः। इदन्तत्व हि सवर्णदीर्घेणैव सिद्धे ईयङिति ईकारोच्चारणवैयथ्र्यात्। नच इदन्तत्वे सति "एरनेकाचः" इति यण् स्यादिति वाच्यम्, एवमपि "ऋतेर्ङ्यः" इति ङ्यप्रत्यये कृते "अकृत्सार्वधातुकयोर्दीर्घः" इति दीर्घेणैव सिद्धे इयङ्विधिवैयथ्र्यात्। एके इति। अन्ये इत्यर्थः। ऋतीयते इति। ईयङोऽदन्तत्वाच्छपि पररूपम्। ऋतीयांचक्रे इति। "कास्प्रत्यया"दित्याम्। ऋतीयिता। ऋतीयिष्यते। ऋतीयताम्। आर्तीयत। ऋतीयेत। ऋतीयिषीष्ट। आर्तीयिष्ट। आर्तीयिष्यत। आनर्तेति। ऋत् इति तकारान्ताल्लिटि णलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे "अत आदे"रित्यभ्यासस्य दीर्घे "तस्माननुड्()द्विहलः" इति नुट्, "नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्रते" इत्युक्तेरिति भावः। आनृततुः आनृतुः। अनिट्सु अस्याऽपाठात् थलि नित्यमिट्। आनर्तिथ आनृतथुः आनृत। आनर्त। आनृतिव आनृतिम। अर्तिता। अर्तिष्यति। ऋत्यात्। आर्तीदिति। "इट ईटि" इति सिज्लोपः। आडागमः। आर्तिष्यत्। अथ लुगविकरणान् धातून्निरूपयितुमुपक्रमते-- अद भक्षणे इति। अनिडयम्।

तत्त्व-बोधिनी
ऋतेरीयङ् २२४, ३।१।२९

ऋतेरीयङ्। तान्तोऽयं धातुरिका निर्दिष्टो न त्विकारान्तः, "वञ्चिलुञ्च्यृतश्चे"ति निर्देशात्। केचित्तु ईयङिति दीर्घोच्चारणात्तान्तोऽयमिति ज्ञायते। इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धेरियङमेव कुर्यादित्याहुस्तञ्चन्त्यम्। इदन्तत्वे तु "एरनेकाच" इति यणा सवर्णदीर्घस्य बाधात्। न च ऋतेर्यङ्विधावकृत्सार्वेति दीर्घोपपत्तेरीयङ्विधानं तान्तत्वेलिङ्गं भवत्येवेति वाच्यं, यङ्विधौ "सन्यङो"रिति द्वित्वापत्तेः। कृपायां चेति। "अर्तनं च ऋतीया च ह्यिणीया च घृणार्थकाः" इति, "जुगुप्सा करुणा घृणे"ति चाऽमरः।