पूर्वम्: ३।१।३०
अनन्तरम्: ३।१।३२
 
सूत्रम्
आयादय आर्धद्धातुके वा॥ ३।१।३१
काशिका-वृत्तिः
आयादय आर्धधातुके वा ३।१।३१

आर्धधातुकविषये आर्धधातुकविवक्षायाम् आयादयः प्रत्यया वा भवन्ति। गोप्ता, गोपायिता। अर्तिता, ऋतीयिता। कमिता, कामयिता। नित्यं प्रत्ययप्रसङ्गे तदुत्पत्तिरार्धधातुकविषये विकल्प्यते, तत्र यथायथं प्रत्यया भवन्ति। गुप्तिः। गोपाया।
लघु-सिद्धान्त-कौमुदी
आयादय आर्धधातुके वा ४७१, ३।१।३१

आर्धधातुकविवक्षायामायादयो वा स्युः। (कास्यनेकाच आम् वक्तव्यः)। लिटि आस्कासोराम्विधानान्मस्य नेत्त्वम्॥
न्यासः
आयादय आर्धधातुके वा। , ३।१।३१

"आर्धधातुकविषये" इत्येतेनार्धधातुक इत्यस्य विषयसप्तमीत्वं दर्शयति। आर्धधातुकविषयत्वं तु तद्विवक्षायां सत्यां बुद्धिस्थे तस्मिन् सम्भवति,नान्यथेत्याह-- "आर्धधातुकविवक्षायाम्" इति। केन पुनरभिसन्धिना विषयसप्तमीत्वमाश्रीयत इति? एवं मन्यते-- परसप्तम्यामुत्पत्तिर्वा विकल्प्यते? निवृत्तिर्वा? यद्युत्पत्तिस्तदा गुपेः स्त्रियां क्तिनि विहिते तत्र यदायप्रत्ययो नोत्पद्यते तदा कामं गुप्तरितीष्टं सिध्यति। यदा तूत्पद्यते, तदातो लोपे ६।४।४८ वलि लोपे ६।१।६४ इत्यकारे कृते तत्र परतो यदा निवृत्तिर्न भवति तदा कामं गोपायेतीष्टं सिध्यति। यदा तु भवति तदा गोपेत्यनिष्टं प्राप्नोति। गुप्तिरिति सत्यामसत्यां वा निवृत्ताविष्टं न सिध्यति; विषयसप्तम्यां तूत्पतौ विकल्पितायामुत्पत्स्यते। अर्धधातुकमिति आर्धधातुकविवक्षायामादावेव विकल्पः। तत्रानुत्पत्तिपक्षे स्त्रियां क्तिनि विहिते गुप्तिरिति सिध्यति, उत्पत्तिपक्षे गोपायेति। न च गोपातिरित्यनिष्टमपि; आयप्रत्ययान्तात् क्तिनोऽभावात्। नापि गोपेत्यनिष्टमापद्यते, आयप्रत्ययस्यानुत्पत्तेः। "नित्यप्रत्ययप्रसङ्गे" इति। पूर्वकैस्त्रिभिः सूत्रेर्नित्यमायादिषु प्राप्तेष्वित्यर्थः। "तदुतप्त्तौ" इत्यादि। तेषामायादीनामार्धधातुकविषय उत्पत्तिर्विकल्प्यते, न तूत्पन्नानां निवृत्तिः। यदि हि निवृत्तिर्विकल्प्येत तदार्धधातुके विषयभूते सत्यायप्रत्यये निवृत्ते प्रत्ययलक्षणेन "अ प्रत्ययात्" ३।३।१०२ इत्यकारप्रत्यये विहिते विषयसप्तम्यामपि गोपेत्यनिष्टं स्यादित्यभिप्रायः। "यथायथम्" इति। यो यतः प्राप्नोति स पश्चादुत्पत्तिविकल्पादुत्तरकालं ततो भवतीत्यर्थः॥
बाल-मनोरमा
आयादय आद्र्धधातुके वा १४८, ३।१।३१

आयादयः। आय आदिर्येषां ते आयादयः। "आय ईयङ्णिङ् चेति त्रय आयादयो मताः"। गुपूधूपविच्छिपणिपनिभ्य आयः, ऋतेरीयङ्, कमेर्णिङित्युत्तरमस्य सूत्रस्य पाठात्। विवक्षायामिति। "आद्र्धधातुके" इति विषयसप्तमीति भावः। परसप्तमीत्वे तु गोपायितेत्यत्र अतो लोपो न स्यात्, आद्र्धधातुकोपदेशकालेऽदन्तत्वाऽभावादिति भावः।

तत्त्व-बोधिनी
आयादय आद्र्धधातुके वा १२१, ३।१।३१

आयादयः। आयेयङ्()णिङ इत्यर्थः। विवक्षायामिति। परसप्तम्यां तु आद्र्धधातुकोपदेशकाले यददन्तमित्यनुपदं वक्ष्यमाणं न सङ्गच्छेतेति भावः। अन्ये तु "गुपू रक्षणे" इत्यस्मात् क्तिनि पश्चादाय्()प्रत्यये गोपायतिरित्यनिष्टप्रसज्येत। विवक्षायामित्युक्ते तु आय्()प्रत्यये कृते क्तिनं बाधित्वा "अप्रत्यया" दित्यकारप्रत्यये टापि च "गोपाया" "धूपाये"ति सिद्ध्यतीत्याहुः।