पूर्वम्: ३।१।३६
अनन्तरम्: ३।१।३८
 
सूत्रम्
दयायासश्च॥ ३।१।३७
काशिका-वृत्तिः
दयायाऽसश् च ३।१।३७

दय दानगतिरक्षणेषु, अय गतौ, आस उपवेषने, एतेभ्यश्च लिटि परत आम् प्रत्ययो भवति। दयञ्चक्रे। पलायाञ् चक्रे। आसाञ् चक्रे।
लघु-सिद्धान्त-कौमुदी
दयायासश्च ५३८, ३।१।३७

दय् अय् आस् एभ्य आम् स्याल्लिटि। अयाञ्चक्रे। अयिता। अयिष्यते। अयताम्। आयत। अयेत। अयिषीष्ट। विभाषेटः। अयिषीढ्वम्, अयिषीध्वम्। आयिष्ट। आयिढ्वम्, आयिध्वम्। आयिष्यत॥ द्युत दीप्तौ॥ ४॥ द्योतते॥
न्यासः
दयायासश्च। , ३।१।३७

"पलायाञ्चक्रे" इति। परापूर्वस्यायतेः "उपसर्गास्यायतौ" ८।२।१९ इति लत्वम्।
बाल-मनोरमा
दयायासश्च १६४, ३।१।३७

दायायासश्च। दय अय आस् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम्। "कास्प्रत्यया"दित्यत आम् लिटीत्यनुर्तते। तदाह--एभ्य आम् स्याल्लिटीति।