पूर्वम्: ३।१।४०
अनन्तरम्: ३।१।४२
 
सूत्रम्
विदाङ्कुर्वन्त्वित्यन्यतरस्याम्॥ ३।१।४१
काशिका-वृत्तिः
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ३।१।४१

विदाङ्कुर्वन्तु इत्येतदन्यतरस्यां निपात्यते। किं पुनरिह निपात्यते? विदेर् लोटि आम् प्रत्ययः, गुणाभावः, लोटो लुक्, कृञश्च लोट्परस्य अनुप्रयोगः। अत्र भवन्तो विदाङ्कुर्वन्तु, विदन्तु। इतिकरणः प्रदर्शनार्थः, न केवलं प्रथमपुरुषबहुवचनं, किं तर्हि सर्वाण्येव लोड्वचनान्यनुप्रयुज्यन्ते, विदाङ् करोतु, विदाङ् कुरुतात्, विदाङ् कुरुताम्, विदाङ् कुरु, विदाङ् कुरुतम् इत्यादि।
लघु-सिद्धान्त-कौमुदी
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ५७३, ३।१।४१

वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते पुरुषवचने न विवक्षिते॥
न्यासः
विदाङ्कुर्वन्त्वित्यन्यतरस्याम्। , ३।१।४१

"विदेर्लोट()आम्प्रत्ययः" इति। विदेर्लिट()आम् विहितो लोटि न प्राप्नोतीत्यतोऽपि निपात्यते। अममाश्रित्य लघूपधगुणः प्राप्नोतीति तदभावश्च। "आमः" २।४।८१ इति लेर्लुग्विधीयमानो लोटो न सिध्यतीत्यतो लोटो लुक्। लिट्परस्य कृञोऽनुप्रयोग उक्तो लोट्परस्य न प्राप्नोति, सोऽपि निपात्यत इति सर्वत्र सम्बन्धनीयम्। "कुर्वन्तु" इति। बहुवचनम्, झेरन्तादेशः, "एरुः" ३।४।८६, विकरणमश्रित्य धातोर्गुणः, " अत उत् सार्वधातुके" ६।४।११० इत्युत्त्वम्, विकरणस्य यणादेशः। "इतिकरणः" इत्यादि। लोड्वचनानामुपलक्षणार्थत्वे सतीतिकरणस्य यदिष्टं तद्दर्शयितुमाह-- "न केवलम्" इत्यादि। "कुरुताम्" इति। "तस्थस्" ३।४।१०१ इत्यादिना तसस्ताम्। "कुरु" इति। "सेह्र्रपिच्च" ३।४।८७ इति हिः, "उतश्च प्रत्ययात्" ६।४।१०६ इत्यादिना हेर्लुक्। "कुरुतम्" इति। तसस्तम्॥
बाल-मनोरमा
विदाङ्कुर्वन्त्वत्यन्यतरस्याम् २९६, ३।१।४१

विदाङ्कुवन्त्वित्यन्तयतरस्याम्। "कृञ् चानुप्रयुज्यते लिटी"त्युत्तरमिदं सूत्रम्। इतिशब्दः प्रकारे। एवंजातीयकं वैकल्प्येन प्रत्येतवयमित्यर्थः। वेत्तेरिति। लुगविकरणाद्विदधातोः लोटिपरे आम्प्रत्ययो निपात्यते इत्यर्थः। लोडन्तेति। आम्न्ताद्विदेर्लोडनतकृञ्धातोनुप्रयोगश्च निपात्यतैत्यर्थः। ननु "विदाङ्कुर्वन्तु"ति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात्कतं लोडन्तसामान्यानुप्रयोग इत्यत आह-- पुरुषेति। कुर्वन्त्विति प्रथमपुरुषो बहुवचनं च न विवक्षितमित्यर्थः। तयोस्तु नान्तरीयकमुच्चारणमिति भावः। इति शब्दादिति। तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः।

तत्त्व-बोधिनी
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् २५६, ३।१।४१

लोटो लुगिति। "आमः" इति सूत्रे "मन्त्रे घसे"त्यतो लेरित्यनुवर्त्त्य आमः परस्य लेर्लुगितिव्याकुर्वतां मतेनेदमुक्तम्। निष्कर्षे तु तेनैव लुगिति बोध्यम्। पुरुषवचने इति। प्रथमपुरुषो, बहुवचनं चेत्यर्थः। "परस्मैपदमप्यविवक्षितमेवे"ति केषांचिन्मते कर्मव्यतिहारे तङि-- व्यतिविदाङ्कुरुताम्। व्यतिविदाङ्कुर्वातामित्यादि ज्ञेयम्।