अभ्युत्सादयाम् इत्येवम् आदयः छन्दसि विषये ऽन्यतरस्यां निपात्यन्ते। सदिजनिरमीणां ण्यन्तानां लुडि आम् प्रत्ययो निपात्यते। चिनोतेरपि तत्र एव आम्प्रत्ययो द्विर्वचनं कुत्वं च। अकरिति चतुर्भिरपि प्रत्येकम् अनुप्रयोगः सम्बध्यते। पावयाम् क्रियातिति पवतेः पुनातेर् वा ण्यन्तस्य लिङि आम् निपात्यते, गुणाभावश्च, अक्रनिति च अस्य अनुप्रयोगः। विदामक्रनिति विदेर् लुङि आम् निपात्यते, गुनभावश्च, अक्रनिति च अस्य अनुप्रयोगः। अभ्युत्सादयाम् अकः। अभ्युदसीषदतिति भाषायाम्। प्रजनयाम् अकः। प्राजीजनतिति भाषायाम्। चिकयाम् अकः। अचैषीतिति भाषायाम्। रमयाम् अकः। अरीरमतिति भाषायाम्। पावयाङ्क्रियात्। पाव्यातिति भाषायाम्। विदाम् अक्रन्। अवेदिषुः इति भाषायाम्।
"अभ्युत्सादयाम्" इति। "कुगतिप्रादयः"
२।२।१८ इति समासे कृत एकमेवेदं प्रथमान्तम्। एवं "प्रजनयाम्" इत्येतदपि। शेषाण्यप्यामन्तानि प्रथमान्तान्येव। "अकः" इति। करोतेर्लुङ। प्रथमपुरुषैकवचनान्तम्। "अक्रन" इति। प्रथमपुरुषबहुवचनान्तम्। "सदिजनिरमीणाम्" इति। "षद्लृ विशरणगत्यवसादनेषु" (धा।पा।१४२७), "जनी प्रादुर्भावे" (धा।पा।१४४९), "रमु क्रीडायाम्" (धा।पा।८५३)। "ण्यन्तानाम्िति। हेतुमण्णिजन्तानाम्। "पचतेः" इति। लिटि विहितत्वाल्लिङि न प्राप्नोति, ततो निपात्यते। "अस्य" इति। पुनातेः पवतेर्वा ण्यन्तस्य। "लृङ्याम् निपात्यते" इति। पूर्ववन्न प्राप्नोतीति कृत्वा। "विदेरपि गुणाभावश्च" इति। "पुगन्तलघूपधस्य"
७।३।८६इति गुणः प्राप्नोति, अत्सतदभावो निपात्यते। "अभ्युत्सादयाम्" इति। पूर्ववण्णेरयादेशः। लुङो लुक्। "अकः" इति। करोतेर्लुङ, अडागमः, तिप्, च्लिः, तस्य "मन्त्रे घसह्वर"
२।४।८० इति लुक्, गुणः, रपरत्वम्, "हल्ङ्याब्भ्यः"
६।१।६६ इति तिलोपः, रेफस्य विसर्जनीयः। "अभ्युदसीषदत्" इति। "णिश्रि"
३।१।४८ इत्यादिना चङ, "णौ चङ्युपधायाः"
७।४।१ इति ह्यस्वः, "चङि"
६।१।११ इति द्विर्वचनम्, हलादिशेषः, "सन्वल्लघुनि"
७।४।९३ इति सन्वद्भावे सतीत्त्वम्, "दीर्घो लघोः"
७।४।९४ इति दीर्घः। एषा प्रक्रिया यथायोगमुत्तरत्रापि वेदितव्या।
"प्रजनायाम्" इति। "जनीजृ()ष्()क्नसुरञ्जोऽमन्ताश्च" (धा।पा।८१७) इति मित्त्वात् ह्यस्वत्वम्। "चिकयाम्" इति। ककारोऽप्यत्र निपात्यते। गुणायादेशौ। "अचैषीत्" इति। "अस्तिसिचोऽपृक्ते"
७।३।९६ इतीट्, सिचि वृद्धिः। "रमयाम्" इति। "मितां ह्यस्वः"
६।४।९२। "पावयाम्" इति। "आमः"
२।४।८१ इति लिङो लुक्। "क्रियात्" इति। कृञ आशिषि लिङ, तिप्, "इतश्च"
३।४।१०० इतीकारलोपः, यासुट्, "रिङ शयग्लिङक्षु"
७।४।२८ इति रिङादेशः; "स्को संयोगाद्योरन्ते च"
८।२।२९ इति सलोपः। "पाव्यात्" इति। पूर्ववल्लिङ, "लिङाशिषि"
३।४।११६ इत्यार्धधातुकत्वाच्छपोऽभावः, "णेरनिटि"
६।४।५१ इति णिलोपः। "विदाम्" इति। विदेर्लुङ, आम्, गुणाभावः, लुङो लुक्। "अक्रन्" इति। कृञो लुङ, च्लिः, झेरन्तादेशः, "इतश्च"
३।४।१०० इतीकारलोपः, संयोगान्तलोपः, च्लेः "मन्त्रे घसह्वर"
२।४।८० इति लुक्, अट, यणादेशः। "अवेदिषुः" इति। सिच इट्, "सिजभ्यस्तविदिभ्यश्च"
३।४।१०९ इति झेर्जुस्। " इतिकरणः प्रयोगदर्शनार्थः" इति। अन्येऽप्येवंजातीयाश्छन्दसि वेदितव्या इत्यर्थः॥