पूर्वम्: ३।१।४३
अनन्तरम्: ३।१।४५
 
प्रथमावृत्तिः

सूत्रम्॥ च्लेः सिच्॥ ३।१।४४

पदच्छेदः॥ च्लेः ६।१ ६६ सिच् १।१ लुङि ७।१ ४३

अर्थः॥

च्लेः स्थाने सिच् आदेशः भवति, लुङि परतः

उदाहरणम्॥

अकार्षीत्, अहार्षीत्।
काशिका-वृत्तिः
च्लेः सिच् ३।१।४४

च्लेः सिजादेशो भवति। इकार उच्चारणार्थः, चकारः स्वरार्थः। अकार्षीत्। अहार्षीत्। आगमानुदात्तत्वं हि प्रत्ययस्वरम् इव चित्स्वरम् अपि बधेत इति स्थानिन्यादेशे च द्विश्चकारो ऽनुबध्यते। स्पृशमृशकृषतृपदृपां सिज्वा वक्तव्यः। अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत्। अम्राक्षीत्, अमार्क्षीत्, अमृक्षत्। अकार्षीत्, अक्राक्षीत्, अकृक्षत्। अत्राप्सीत्, आतार्प्सीत्, अतृपत्। अद्राप्सीत्, अदार्प्सीत्, अदृपत्।
लघु-सिद्धान्त-कौमुदी
च्लेः सिच् ४४०, ३।१।४४

इचावितौ॥
न्यासः
च्लेः सिच्। , ३।१।४४

"इकार उच्चारणार्थः" इति। एतेनेहोच्चारणादन्यप्रयोजनं नास्तीति दर्शयन्नित्संज्ञायां अभावमाह। ननु चासतीकारेऽनुबन्धे "अनिदिताम्" ६।४।२४ इत्यनेनामंस्तेत्यत्रानुनासिकलोपः प्राप्नोति, ततस्तत्प्रतिषेधार्थोऽयमित्संज्ञकः कस्मान्न भवति? एवं मन्यते-- असत्यपीकारेऽनुबन्धेनैव सिजन्तस्यानुनासिकलोपेन भवितव्यम्; "हन सिच्" १।२।१४ इति कित्करणाज्ज्ञापकात्। तथा हि हन्तेः कित्करणस्यैतत् प्रयोजनम्-- आहतेत्यत्रानुनासिकलोपो यथा स्यात्। यदि सिजन्तस्यानुनासिकलोपः स्यात् हन्ते सिचः कित्करणमनर्थकं स्यात्। "चकारः स्वरार्थः" इति। अन्तोदात्तार्थः। ननु च सिचोऽनच्कत्वाच्चकारस्य स्वरार्थता नोपपद्यते? इटि कृते साच्को भवतीत्यदोषः। नन्वेवमपि लुङ्यत्राडागमस्योदात्तत्वे सतिशिष्टस्वरेणाद्युदात्तत्वेन भवितव्यम्, किमर्थश्चकारः? यत्र तर्हि "न माङयोगे" ६।४।७४ इत्यडागमः प्रतिषिध्यते तत्र चकारस्य स्वरार्थता भविष्यति। ननु तत्रापि "तिङङतिङः" (८।१।२८) इति निघातेन भवितव्यम्? तर्हि यत्र "हि च" ८।१।३४ इति निघातः प्रतिषिध्यते-- मा हि लावीदित्यादौ , तत्र स्वरार्थो भविष्यति। ननु च च्लेस्तत्र स्थानिवद्भावादेव चित्सरो भविष्यत#ईतिकिमादेशे चकारोऽनुबध्यते? इत्याह-- "आगमानुदात्तत्वं हि" इत्यादि। यासुट उदात्तवचनेनागमानुदात्तत्वं ज्ञापयिष्यते। तच्च नाप्राप्ते स्वरान्तरे विधीयते। तथा हि-- ये प्रकृतिभक्ता आगमा अडानुकप्रभृततयस्तेषां प्रकृतिस्वरः प्राप्नोति, ये च प्रत्ययभक्ता इडादयस्तेषां प्रत्ययस्वरः; तस्मादगमानुदात्तत्वं सर्वस्य स्वरान्तरस्य बाधकम्। ततश्चैव तद्यथा प्रत्ययस्वरं बाधते तथा चित्स्वरमपि स्थानिवद्भावकृतं बाधेत। तस्मादादेशेऽपि चकारोऽनुबध्यते। हि-शब्दोयस्मादर्थे,इतिशब्दस्तस्मादर्थे। यस्मादेवं चितस्वरमपि बाधेत तस्मात् स्थानिन्यादेशेऽपि द्विश्चकारोऽनुबध्यते। ननु च मा हि लावीत्यादावागमानुदात्तत्वं यदि स्यात् च्लेश्चित्करणमनर्थकं स्यात्, प्रयोजनाभावात्; तस्मात् च्लेश्चित्करणसामथ्र्यादागमानुदात्तत्वेन चित्स्वरो न बाधिष्यते-- इत्यपार्थकं सिचश्चित्करणम्? नापार्थकम्; पक्षे सार्थकत्वात्। कथम्? इह हि यथा व्यक्तिपदार्थपक्षमाश्रित्य "सरूपाणामेकशेषः" १।२।६४ इत्येतत्सूत्रमारब्धम्, तथा व्यक्तिपदमार्थक्षाश्रयत्पद्विश्चकारोऽनुबध्यते। व्यक्तौ हि पदार्थे यथा चित्स्वरलक्षमं प्रतिलक्ष्यं प्रवत्र्तते तथागानुदात्तत्वज्ञापकमपि यासुट उदात्तवचनम्। ततश्च मा हि लावीदित्यत्रागमानुदात्तत्वं तेन ज्ञापितमेव। तथा च-- यथेह चित्स्वरो भवति तथागमानुदात्तत्वेनापि भवितव्यम्; अन्यथा ह्रेतद्विषयस्य ज्ञापकस्य वैयथ्र्यं स्यात्। न च द्वयोरप्यनुदात्तयोर्यौगपद्यं सम्भवतीति पर्यायः स्यात्। तत्र पक्षे स्थानिनश्चकारस्य पक्षान्तर आगमानुदात्तत्वेन बाध्येत। द्विरनुबध्यमाने तु चकारे यद्यपि पक्षेऽनुदात्तोऽभिनिर्वत्र्तते, तथाप्यभिनिर्वृत्ते तस्मिन् द्विश्चकारा४नुबन्धकरणसामथ्र्यात् पुनश्चित्स्वरोऽभिनिर्वत्र्तते, अतो न दोषः। "स्पृशमृश" इत्यादि। स्पृशिमृशिकृषिभ्यः "शल इगुपधादनिटः क्सः" (३।१।४५) इति क्से प्राप्ते, तृपिदृपिभ्यां पुषादित्वादङि प्राप्ते सिज्वा वक्तव्यः = व्याख्येयः। तत्रेदं व्याख्यानम्--- क्सविधौ "विदांकुर्वन्त्वित्यन्यतस्याम्" ३।१।४१ इत्यतो मण्डूकप्लुतिन्यायेनान्यतरस्यांग्रहणमनुवर्तते, पुषादिसूत्रेऽपि "आत्मनेपदेषु" ३।१।५४ इत्यतः। सा च व्यवस्थित विभाषितोभयत एव विज्ञायते। तेन स्पृशिमृशिकृषिभ्यो विकल्पेन क्सो भविष्यति, अन्येभ्यस्तु नित्यम्। तृपिदृपिभ्यामन्यतरस्यामङ् च भविष्यति, अन्येभ्यस्तु पुषादिभ्यो नित्यमेव। तेन यस्मिन् पक्षे क्साङोरभावस्तस्मिन् पक्षे सामान्यविहितः सिजेव भवति। "अस्पृक्षत्" इति। "स्पृश संस्पर्शे" (धा।पा।१४२२), क्सः, व्रश्चादिना ८।२।३६ षत्वम्, "षढोः कः सि" ८।२।४१ इति कत्वम्, "आदेशप्रत्ययोः" ८।३।५९ इति षत्वम्। "अस्प्राक्षीत्" इति। "अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्" ६।१।५८ इत्यमागमः; "वदव्रज" ७।२।३ इत्यादिना वृद्धिः, ऋकारस्य यणादेशः। "अस्पाक्षीत्" इति। सिच्। यदाऽमागमो नास्ति तदा ऋकारस्यैव वृद्धिः।एवं "मृश आमर्शने" (धा।पा।१४२५), "कृष विलेखने" (धा।पा।१२८६) इत्येतयोरपि रूपद्वयं, वेदितव्यम्। "अतु पत्" इति। "तृप प्रीणने" (धा।पा।११९५)। "अत्राप्सीत्, अताप्सीत्" इति। पूर्ववत्। एवं "दुप हर्षणमोचनयोःट (धा।पा।११९६) इत्यस्यापि रूपत्रयं वेदितव्यम्॥
बाल-मनोरमा
च्लेः सिच् ७०, ३।१।४४

च्लेः सिच्। इचाविति। चित्स्वरश्चित्त्वस्य प्रयोजनम्। इदित्त्वस्यतु अमंस्तेत्यत्र "अनिदितां हल उपधाया" इत्युपधालोपस्याऽप्रवृत्तिः प्रयोजनम्।

तत्त्व-बोधिनी
च्लेः सिच् ५३, ३।१।४४

इचाविताविति। तत्रेदित्त्वे प्रयोजनममंस्तेत्यत्र "अनिदिता"मित्युपधालोऽभावः॥