पूर्वम्: ३।१।४४
अनन्तरम्: ३।१।४६
 
सूत्रम्
शल इगुपधादनिटः क्सः॥ ३।१।४५
काशिका-वृत्तिः
शल इगुपधादनिटः क्षः ३।१।४५

शलन्तो यो धातुरिगुपधस् तस्मात् परस्य च्लेः अनिटः क्ष आदेशो भवति। दुह अधुक्षत्। लिह अलिक्षत्। शलः इति किम्? अभैत्सीत्। अच्छैत्सीत्। इगुपधातिति किम्? अधाक्षीत्। अनिटः इति किम्? अकोषीत्। अमोषीत्।
लघु-सिद्धान्त-कौमुदी
शल इगुपधादनिटः क्सः ५९३, ३।१।४५

इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात्। अधुक्षत्॥
न्यासः
शल इगुपधादनिटः क्सः। , ३।१।४५

"अघुक्षत्" इति। "दुह प्रपूरणे" (धा।पा।१०१४), "दादेर्धातोर्घः" ८।२।३२, "एकाचो बशो भष्" ८।२।३७ इत्यनेन दकारस्य भष्भावेन धकारः, धकारस्य "खरि च" ८।४।५४ इति चत्र्वम्-- ककारः। "अलिक्षत्" इति। "लिह आस्वादने" (धा।पा।१०१६), "हो ढः" ८।२।३१ इति ढत्वम्, पूर्ववत् षत्वकत्वे। "अधाक्षीत्" इति।" दह भस्मीकरणे" (धा।पा।९९१), पूर्ववत् ढत्वकत्वषत्वभष्भावचत्र्वानि। "अकोषीत्" इति। "कुष निष्कर्षे" (धा।पा। १५१८) लघूपधगुणः॥
बाल-मनोरमा
शल इगुपधादनिटः क्सः १७५, ३।१।४५

शल इगुपधा। शलन्त इति। "धातोरेकाचः" इत्यतोऽनुवृत्तधातुविशे,णत्वात्तदन्तविधिरिति भावः। सिचोऽपवादः। क्सादेशोऽदन्तः। ककार इत्। अघृक्षतेति। च्लेः क्सः। तस्य कित्त्वादृकारस्य न गुणः। हस्य ढः, भष्भावः, ढस्य कः, षत्वमिति भावः।

तत्त्व-बोधिनी
शल इगुपधादनिटः क्सः १४९, ३।१।४५

शल इगुपधा। "शल" इति धातोर्विशेषणात्तदन्तलाभः। शल इति किम्?। अतिप्त। इगिति किम्?। अगाढ। अनिटः किम्। औहिष्ट। क्सस्याचि। अजादाविति। अङ्गाक्षिप्तप्रत्ययोऽत्र विशेष्यः। "तङी"ति तु केषांचित्प्रक्षेपस्तस्य काशिकादावनुक्तत्वादित्याहुः। अन्ये तु "लुग्वा दुहे"त्यत्र आत्मनेपदे इत्यपकर्षणात्तङीति लभ्यते। तेन "दृशे क्सः" इति वार्तिकोक्तक्सप्रत्ययस्य लोपो न भवति, सदृक्षा अन्यादृक्षा इत्यत्रेत्याहुः।