पूर्वम्: ३।१।४
अनन्तरम्: ३।१।६
 
सूत्रम्
गुप्तिज्किद्भ्यः सन्॥ ३।१।५
काशिका-वृत्तिः
गुप्तिज्किद्भ्यः सन् ३।१।५

गुप गोपने, तिज निशाने, कित निवासे एतेभ्यो धातुभ्यः सन् प्रत्ययो भवति। प्रत्ययसंज्ञा च अधिकृतैव। जुगुप्सते। तितिक्षते। चिकित्सति। निन्दाक्षमाव्याधिप्रतीकारेषु सन्निषते ऽन्यत्र यथा प्राप्तं प्रत्यया भवन्ति। योपयति। तेजयति। सङ्केतयति। गुपादिष्वनुबन्धकरणम् आत्मनेपदार्थम्।
न्यासः
गुप्तिज्किद्भ्यः सन्। , ३।१।५

"प्रत्ययसंज्ञा चाधिकृतैव" इति। विस्पष्टार्थमेतत्। प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते; "आ पञ्चमाध्यायपरिसमाप्तेः" (का।३।१।१) इत्यतो वचनादेव प्रतिपाद्यस्यावगतत्वात्। ननु च सत्यपि प्रत्ययसंज्ञाया इहोपस्थाने नैव तया सनो भवितव्यम्; यतः प्रत्यय इत्यन्वर्थसंज्ञेयम्-- प्रतियन्त्यनेनार्थानिति प्रत्ययः, न च सना कञ्चनार्थं प्रतियन्ति; तस्यानर्थकत्वात्, न हीह सनः कश्चनार्थो निर्दिश्यते। न च "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भविष्यति" (पु।प।पा।९०) इतिस्वार्थ एव सन् भविष्यतीति युक्तं परिकल्पयितुम्; गोपनादेः स्वार्थस्य सन्नन्तादप्रतीतेः। अथानर्थकस्यापि प्रत्ययाधिकारे विधानसामथ्र्यात् संज्ञा भविष्यतीति चेत्? न; एवञ्च "हनस्त च" ३।१।१०८ "त्रपुजतुनोः षुक्" ४।३।१३६ इति विकारागमयोरपि स्यात्। नैष दोषः; अस्त्येव सनोऽर्थः, कः पुनरसो? निन्दादिः। यदाह-- "निन्दाक्षमाव्याधिप्रतीकारेषु सनिष्यते" (वा। १७८) इति। कुतः पुनरेतदवसितम्-- सनोऽर्था निन्दादय इति? अन्वयव्यतिरेकाभ्याम्। सति हि सनि जुगुप्सत इत्यादौ तेऽर्थाः प्रतीयन्ते, असति तु सनि सत्स्वपि गुपादिषु गोपयतीत्यादौ ते न प्रतीयन्ते। तस्मादर्थवानेव सन्निति भवत्येव प्रत्ययसंज्ञा। "जुगुप्सते" इत्यार्धधातुकत्वाभावादिण् न भवति। आर्धधातुकत्वाभावस्तु सनो धातोरित्यविधानात्। "कुहोश्चु" ७।४।६२ इति चुत्वम्-- जकारः। "तितिक्षते" इति। जकारस्य "चोः कुः" ८।२।३० कुत्वम्-- गकारः। तस्य "खरि च" ८।४।५४ इति चत्र्वम्-- ककारः। "निन्दाक्षमा" इत्यादि। कथं पुनर्निन्दादिष्विष्यमाणो लभ्यते? वक्ष्यमाणं वाग्रहणं सर्वस्य शेषो विज्ञायते, सा च व्यवस्थितविभाषा। तेन निन्दादिषु नित्यं सन् भवति, अन्यत्र न भवति। प्रायिकञ्चैतत् व्याधिप्रतीकारस्यार्थमन्यथा व्याख्यास्यति। अथ वा-- क्षेत्रियाणि च तृणानि शस्यार्थे क्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि। अथ वा-- क्षेत्रियः पारदारिकः। परदाराः परक्षेत्रम्,तत्र चिकित्स्यो निग्रहीतव्य इत्यर्थः। संशयेऽपि दृश्यते-- "विचिकित्सति मे मनः" इति। यद्यप्यत्रोपसर्गसम्बन्धात् संशयः प्रतीयते, तथापि धातोरेव वाच्य इष्यते, उपसर्गस्य तु द्योत्यः। तस्मात् प्रायिकं व्याधिप्रतीकारग्रहणम्। प्रायेण हि लोके व्याधिप्रतीकारे चिकित्सतीति प्रयुज्यते। "अन्यत्र" इति। गोपनादौ। "गोपयति" इति। हेतुमण्णिच्। तेजयति, "सङ्केतयति"इति। हेतुमण्णिच्, चुरादिण्ज्वाः; भ्वादौ चुरादौ चानयोः पाठात्। अथ जुगुप्सत इत्यादौ कथमात्मनेपदं सन्नन्ताद्विधीयते, न च गुपादिभ्य प्राक् सन आत्मनेपदं पश्यामः? इत्याह-- "गुपादिष्वनुबन्धकरणम्" इत्यादि। आत्मनेपदं यथा स्यादिति। गुपादिष्वनुबन्धोऽनुदात्तार्थः कृतः तस्मात् "अनुदात्तङितः" १।३।१२ इत्यात्मनेपदं भवतीति भावः। ननु च कृतेऽप्यनुबन्धे न भवितव्यमेव तेभ्य आत्मनेपदेन; सना व्यवहितत्वात्? नैतदस्ति; अनुबन्धकरणसामथ्र्याद्भविष्यति। अथ वा-- "अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति" (है।ग।प।१०७) इति जुगुप्सादय एव समुदाया अनुदात्तेतः, तेनावयवधानेनैव तेभ्य आत्मनेपदं भविष्यति। एवं स्थिते यदत्र द्वेष्यमापद्यते तत् "पूर्ववत्सनः" १।३।६२ इत्यत्रोपन्यस्तमपास्तञ्च। अथ किमर्थं सनोऽकार उपदिश्यते, यावता तस्यार्धधातुके "अतो लोपः" ६।४।४८ इति लोपेन भवितव्यम्, सार्वधातुकेऽपि शपा सहैकादेशेन, तत्र सत्यसति वाऽकारोपदेशे नास्ति कश्चिद्विशेषः? नैतदस्ति; इह प्रतीषिषतीति प्रपूर्वादिणः सनि विहिते यद्यकारोपदेशो न स्यात् "अजादेर्द्वितीयस्य" ६।१।२ इति द्वितीयस्यैकाचो द्वर्वचनं विधीयमानं स इत्यस्य न स्यात्, अनच्कत्वात् सनः। अकारोपदेशे सति स इत्यस्य द्वितीयस्यैकाचो भवति। तदर्थोऽपकारोपदेशः॥
बाल-मनोरमा
गुप्तिडज्किद्भ्यः सन् २२९, ३।१।५

गुप्तिज्किद्भ्यः।