पूर्वम्: ३।१।५४
अनन्तरम्: ३।१।५६
 
सूत्रम्
पुषादिद्युताद्यॢदितः परस्मैपदेषु॥ ३।१।५५
काशिका-वृत्तिः
पुषादिद्युताद्य्ल्̥दितः प्रस्मैपदेषु ३।१।५५

द्युतादिभ्यश्च धातुभ्यः परस्य च्लेः परस्मैपदेषु परतः अङादेशो भवति। पुषादिर् दिवाद्यन्तर्गणो गृह्यते, न भ्वादिक्र्याद्यन्तर्गणः। पुष अपुषत्। द्युतादि अद्युतत्। अश्वितत्। ल्̥दिद्भ्यःगम्ल्̥ अगमत्। शक्ल्̥ अशकत्। परस्मैपदेसु इति किम्? व्यद्योतिष्ट। अलोटिष्ट।
लघु-सिद्धान्त-कौमुदी
पुषादिद्युताद्यॢदितः परस्मैपदेषु ५०९, ३।१।५५

श्यन्विकरणपुषादेर्द्युतादेरॢदितश्च च्लेरङ् परस्मैपदेषु। अगमत्। अगमिष्यत्॥इति परस्मैपदिनः।एध वृद्धौ॥ १॥
न्यासः
पुषादिद्युताद्य्?लृदितः परस्मैपदेषु। , ३।१।५५

लृकार इद्येषां ते लृदितः। पुषादिरस्त्येव भावाद्यन्तर्गणः-- पुष पुष्टौ" (धा।पा।७००) श्रिषु श्लिषु प्रुषु प्लुषु दाहे" (धा।पा।७०१-७०४) इत्येवमादिः, अस्ति च दिवाद्यन्तर्गणः--"पुष पुष्टौ" (धा।पा।११८२), "शुष शोषणे" (धा।पा।११८३) इत्येवमादिः, अस्ति च क्र्याद्यन्तर्गणः-- पुष पुष्टौ" (धा।पा।१५२९), "मुष स्तेये" (धा।पा।१५३०) इत्येवमादिः, तदिह कस्य ग्रहणमित्याह-- "पुषादिर्दिवाद्यन्तर्गणः" इत्यादि। यदि भ्वाद्यन्तर्गणो गृह्रते, पुषाद्यनन्तरं द्युतादीनां पाठात् पृथग्ग्रहणं न कुर्यात्; पुषादिग्रहणेनैव गृहीतत्वात्, तस्मात् स तावन्न गृह्रते। क्र्याद्यन्तर्गणोऽपि नैव गृह्रते, तत्र हि चत्वार एव पठ()न्ते धातवः-- पूर्वोक्तौ द्वौ "खच भूतप्रादुर्भावे" (धा।पा।१५३१), "ग्रह उपादाने" (धा।पा।१५३३) इत्येतौ, यदि चैते जिघृक्षिताः स्यर्लृदित यएवैतान् कुर्यात्, एवं पुषादिग्रहणं न कत्र्तव्यं भवति। तस्मात् पारिशेष्याद् दिवाद्यन्तर्गणानां पुषादीनां ग्रहणं विज्ञायते। अथ पुषादय लृदितः कस्मान्न कृताः? न; न हि ते लृदितः शक्यन्ते कर्त्तुम्। लृदित्वे हि तेषां उदित आदितश्च पठ ()यन्ते तेषाम् "उदितो वा" ७।२।५६ "आदितश्च" ७।२।१६ इत्येतयोः कार्ययोरभावः स्यात्। अथ द्युतादयः कस्मात् लृदितो न कृताः? यत एव हेतोः पुषादय लृदितो न कृतास्तत एव द्युतादयश्च। तेष्वपि हि केचिदुदित आदितश्च पठ()न्ते। तत्र पुषादय आदिवादि परिसमाप्तेः। यत्तु "ष्णिह प्रीतौ" (धा।पा।१२००) इत्यनन्तरं वृदिति वृत्करणं तद् रवादीनां परिसमाप्त्यर्थम्, न पुषादीनामित्याचार्याणां स्मृतिः। द्युतादयस्तु "कृपू सामर्थ्ये" (धा।पा।७६२) इत्येवंपर्यन्ताः, तदनन्तरं वृत्; "घट चेष्टायाम्" (धा।पा।७६३) इति वृत्करणात्। "अद्युतत्" इति। "द्युद्भ्यो लुङि" १।३।९१ इति पक्षे परस्मैपदम्। "अ()आतत्" इति। ()इआता वर्णे" (धा।पा॥७४२)। "अगमत्, अशकत्" इति। "गम्लृ गतौ" (धा।पा।९८२), "शक्लृ शक्तौ" (धा।पा।१२६१)। "व्यद्योतिष्ट" इति। अनुदात्तेत्त्वादात्मनेपदम्। "अलोटिष्ट" इति। "रुट लुट् प्रतीघाते" (धा।पा।७४७,७४८)॥
बाल-मनोरमा
पुषादिद्युताघ्?लृदितः परस्मैपदेषु १८२, ३।१।५५

लुङि च्लेः सिचि प्राप्ते--पुषादि। "च्लेः सि"जित्यतः च्लेरिति, "अस्यतिवक्तिख्यातिभ्यः" इत्यतोऽङिति चानुवर्तते। पुषादि द्युतादि लृदित् एषां समाहारद्वन्द्वत्पञ्चमी। तत्र पुषधातुस्तु भ्वादौ क्र्यादौ चुरादौ दिवादौ चास्ति। तत्र यदि भौवादिकः पुषादिगमो गृह्रेत तर्हि द्युतादिग्रहणमनर्थकं स्यात्, पुषादिगणोत्तरमेवात्र द्युतादिगणपाठात्। नापि क्र्याद्यन्तर्गणः। तत्र ह "मुष स्तेये" "खच भूतप्रादुर्भावे" "हेठ च " "ग्रह उपादाने" इति चत्वार एव पठ()न्ते। यदि त एवात्र पुषादयो विवक्षिताः स्युत्ततर्हि लाघवात् लृदित एव ते क्रियेरन्। नाप्यत्र चौरादिकः पुषादिर्गृह्रते, णिचा च्लेव्र्यवहितत्वात्। अतः परिशेषाद्दिवाय एव गृह्रन्ते। तदाह--श्यन्विकरमेति। जर्ज चर्च झर्झेति। एतेषां चवर्गीयान्तेष्वेव पाठ उचितः। हसे हसन इति। एदिदयम्। न वृद्धिरिति। "ह्म्यन्तेत्यनेने"ति शेषः। णिश समाधाविति। णोपदेशत्वनादुपसर्गादसमासेऽपीति नस्य णत्वम्। तदाह-- प्रणेशतीति। "शसु हिंसाया"मित्यतः प्राक् शकारान्ताः। शवतिस्तु वान्तः। शंस्विति। नोपधः। कृतानुस्वारस्य निर्देशः। "चह परिकल्पने" इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः। रह त्यागे इति। न#आऽयमिदित्। रहि गताविति। अयमिदित्। दृह दृहीति। ऋदुपधा एते। द्वितीयचतुर्थाविदितौ। अवृहत्। अवर्हीदिति। इरित्त्वादङ्()विकल्प इति भावः। उवोहेति। उहिधातोर्लिटि द्वित्वे हलादिशेषे पुगन्तलक्षणे गुणे "अभ्यासस्यासवर्णे" इत्युवङ्। मा भवानुहदिति। इरित्त्वादङि रूपम्। औहीदिति। अङभावपक्षे च्लेः सिचि तस्य इटि "अस्तिसिचः" इति तकारस्य ईटि "इट ईटी"ति सिचो लोपे "आडजादीना"मिति आटि वृद्धिः। माङ्योगे तु मा भवानुहीत्। आनर्हेति। "अत आदेः" इति दीर्घे नुट्। कृपूपर्यन्ता इति। "द्युते"त्यारभ्य कृपूपर्यन्ता इत्यर्थः।

तत्त्व-बोधिनी
पुषादिद्युताद्यलृदितः परस्मैपदेषु १५५, ३।१।५५

पुषादिद्युता। पुष धातुर्भ्वादौ दिवादौ क्र्यादौ चुरादौ च पठ()ते। यदि तु "पुष पुष्टा" विति भौवादिकधातुमारभ्य पुषादिगणो गृह्रेत तदा द्युतादिग्रहणमनर्थकं भवेत्, पुषेरुत्तरत्र द्युतादीनां पाठात्। नापि क्राद्यन्तर्गणः, तत्र हि पुषधातोरग्रे "मुष स्तेये", "खच भूतप्रादुर्भावे" "हेठ च" "ग्रह उपादाने" इति चत्वार एव पठ()न्ते। यदि तु त एव जिघृक्षिताः स्युस्तर्हि लाघवाल्लृदित एव क्रियेरन्। ग्रहेः स्वरितेत्त्वेऽपि लृकारेणैव तन्निर्वाहादनेकानुबन्धासङ्गगौरवशङ्काया अप्यभावात्। नापि चुरादिः, णिचा व्यवधानेन ततोऽन्यतरस्य च्लेरसंभवात्। अतः परिशेषाद्दिवादय एव गृह्रन्त इत्याह-- श्यन्विकरणपुषादेरिति। केचित्तुदिवाद्यन्तर्गत एव पुषादिर्गृह्रते, व्याख्यानादित्याहुः। चुरादीनां सर्वेषां णिज्वकल्प इति पक्षे चौरादिकपुषादेरपि परः च्लिः संभवतीति तेषामाशयः। "नन्दिग्रहिपचादिभ्यः" इतवत् "पुषद्युताद्यलृदितः" इति सूत्रयितुमुचितम्। ननु पुषादयो द्युतादयश्च लृदित एव कुतो न कसृता इति चेत्। अत्राहुः-- निरनुबन्धेषु सानुबन्धेषु च प्रत्येकं लृकारपाठे विपरीत गौरवं स्यात्। न च अनुबन्धान्तरस्य यत्प्रयोजनमात्मनेपदं तत्तु लृदित्करण#एऽपि सिध्यतीत्यनेकानुबन्धासङ्गगौरवदोषो नास्तीत्यपि शङ्क्यम्। आदितामीदितामूदितां च तेषु सत्त्वात्लृकारेण तत्तत्कार्यामामनिर्वाहादनेकानुबन्धासङ्गगौरवस्य दुर्निवारत्वादिति। जर्ज चर्च झर्झ। एषां परिभाषणादिभिः सह यथासङ्ख्यं नास्ति, व्याख्यानादित्याहुः। परिभाषणं सनिन्दोपालम्भः। त्रयाणामपि चवर्गीयान्तेषु पाठ उचितो, न त्विहोष्मान्तेषु। णिश समाधौ। समाधिः-- अन्तः करणनिरोधः। प्रणेशतीति। "उपसर्गादसमासेऽपीति णत्वम्। रोषकृते चेति। चकारात्समादौ। शश प्लुतगतौ। "नशसददे"ति प्रतिषेधसूत्रे सान्तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे-- शेशतुरिति। प्राचा तु "शशशतु"रित्युक्तं , तदयुक्तमिति भावः। अचहीदिति। "हयन्ते"ति न वृद्धिः। रह त्यागे। अयं कथादावपि। "ज्ञप मिच्चे" ति मित्प्रकरणेऽप्ययमेकीयमतेन पठितः। नेच्छन्तीति। व्याख्यानमेवात्रावलम्बनम्। माभवानुहदिति। "न माङ्योगे" इत्याडभावः। "इरितो वे"त्यङ्वा। अत द्युतादिः। द्युत दीप्तौ।