पूर्वम्: ३।१।५५
अनन्तरम्: ३।१।५७
 
सूत्रम्
सर्त्तिशास्त्यर्तिभ्यश्च॥ ३।१।५६
काशिका-वृत्तिः
सर्तिशास्त्यर्तिभ्यश् च ३।१।५६

सृ गतौ, शासु अनुशिष्टौ ऋ गतौ इत्येतेभ्यः परस्य च्लेः अङादेशो भवति। असरत्। अशिषत्। आरत्। पृथग्योगकरणम् आत्मनेपदार्थम्। समरन्त। चकारः परस्मैपदेषु इत्यनुकर्षणार्थः तच्चोत्तरत्रोपयोगं यास्यति।
न्यासः
सर्त्तिशास्त्यत्तिभ्यश्च। , ३।१।५६

"असरत्" इति। "ऋदृशोऽङि गुणः" ७।४।१६। "अशिषत्" इति। "शास इदङ्()हलोः" ६।४।३४ इतीत्त्वम्, "शासिवसि" ८।३।६० इति षत्वम्। "आरत्" इति। पूर्ववद् गुणः, अजादित्वादाट्, सवर्णदीर्घः। "पृथक" इत्यादि। यदि "पुषादिद्युताद्()लृदित्सर्त्तिशास्त्यसर्तिभ्यश्च" इत्येकयोग एव क्रियेत; सर्त्तिप्रभृतिभ्य परस्मैपद एव स्यात्, नात्मनेपदे। तस्मादेभ्य एवात्मनेपदेऽपि यथा स्यादित्येवमर्थं पृथग्योगकरणम्। "समरन्त" इति। सम्पूर्वादर्त्तेः "समो गमि" १।३।२९ इत्यादिनात्मनेपदम्। "बहुलं छन्दस्यमाङयोगेऽपि" ६।४।७५ इत्यडागमाभावः; छान्दसत्वादयस्य प्रयोगस्य। ननु च यद्यात्मनेपदेष्वङ भवत्येव, तत् किं परस्मैपदेष्वित्यनुकर्षणार्थेन चकारेणेत्याह-- "तच्च" इत्यादि। तदिति परस्मैपदेष्वित्येतदपेक्षते। "उत्तरत्रोपयोगं यास्यति" इति। न त्विहैवोपयोगं याति; अन्यथा पृथग्योगकरणमनर्थकं स्यात्॥
बाल-मनोरमा
सर्तिशास्त्यर्तिभ्यश्च २१९, ३।१।५६

अत्र च्लेरङमाशङ्कितुमाह--सर्ति। च्लि लुङीत्यनुवर्तते। "णिश्रिद्रुरुआउब्यः" इत्यतः कर्तरि चङिति। तदाह--एभ्य इति। ततश्च प्रकृते असार्षीदित्यत्र अङ् स्यादिति शङ्का सूचिता। तां परिहरति-- इह लुप्तेत्यादिना। इह अङ्विधौ शास्तीत्यनेन लुप्तविकरणः शासिर्गृह्रते इति निर्विवादं, तस्य विकरणान्तराऽभावात्। एवं च तत्साहचर्यात्सृधातुरृधातुश्च जौहोत्यादिकौ श्लुविकरणावेव नेत्यर्थः। तदेवं सृदातोर्गतिसामान्यवृत्तेरुक्तानि रूपाणि। यदि शीघ्रगतौ सृधातुस्तदा तस्य विशेषमाह--शीघ्रगतौ त्विति। धौरादेश इति। धौशब्दस्य "धौ"रिति प्रथमान्तम्। "धौ"इत्यौकारान्त आदेश इत्यर्थः। "पाघ्रे"ति सूत्रे सर्तीति श्तिपा निर्देशः। लुप्तविकरणनिर्देशस्तु अविवक्षित इति भावः। सर्तेर्वेगितायां गतौ धावादेशः" इति वार्तिकमभिप्रेत्येदम्। धावतीति। शपि सृधातोर्धौभावे आवादेशः। धावतु। अधावत्। धावेत्। ऋ गतिप्रापणयोः। अनिट्। "पाघ्राध्मे"ति शिद्विषये ऋच्छादेशः। तदाह--ऋच्छतीति।

तत्त्व-बोधिनी
सर्तिशास्त्यर्तिभ्यश्च १९१, ३।१।५६

सर्तिशास्त्यर्ति। परस्मैपदेष्विति न संबद्ध्यते, पुषादियोगादस्य पृथक्करणात्। "आङः शासु इच्छाया"मित्यस्यात्र न ग्रहणं, कि तु सत्र्यर्तिभ्यां साहचर्यात्परस्मैपदिनः शासेरेवेत्याहुः। असरत्। अशिषत्। आरत्।