पूर्वम्: ३।१।५७
अनन्तरम्: ३।१।५९
 
सूत्रम्
जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च॥ ३।१।५८
काशिका-वृत्तिः
जृ̄स्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश् च ३।१।५८

वा इति वर्तते। जृ̄ष् वयोहानौ, स्तम्भुः सौत्रो धातुः, म्रुचु, म्लुचु गत्यर्थे, ग्रुचु, ग्लुचु स्तेयकरणे, ग्लुञ्चु, षस्ज गतौ, टुओश्वि गतिवृद्ध्योः, एतेभ्यो धातुभ्यः परस्य च्लेर् वा अङादेशो भवति। अजरत्, अजारीत्। अस्तभत्, अस्तम्भीत्। अम्रुचत्, अम्रोचीत्। अम्लुचत्, अम्लोचीत्। अग्रुचत्, अग्रोचीत्। अग्लुचत्, अग्लोचीत्। अग्लुञ्चत्, अग्लुञ्चीत्। अश्वत्, अश्वयीत्, अशीश्वियत्। ग्लुचुग्लुज्च्वोरन्यतरोपादाने ऽपि रूपत्रयं सिध्यति, अर्थभिदात् तु द्वयोरुपादानं कृतम्। केचित् तु वर्नयन्ति द्वयोरुपादानसामर्थ्याद् ग्लुञ्चेरनुनासिकलोपो न भवति, अग्लुञ्चतिति।
लघु-सिद्धान्त-कौमुदी
जॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ६९१, ३।१।५८

च्लेरङ् वा स्यात्॥
न्यासः
जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुढञ्चु�इआभ्यश्च। , ३।१।५८

स्तम्भेरुदित्करणम् "उदितो वा" ७।२।५६ इति विशेषणार्थम्। "अस्तभत्" इति। "अनिदिताम्" ६।४।२४ इत्यनुनासिकलोपः। "अ()आत्" इत्यादि। रूपत्रयं "विभाषा धेट्श्व्योः" ३।१।४९ इत्यत्र व्युत्पादितम्। "ग्लुचुग्लुञ्स्वोरन्यतरोपादाने रूपत्रयं सिध्यति" इति। कथं कृत्वा? यदि तावत् ग्लुचिरुपादीयेत तस्याङि सिचि चाग्लुचत्, अग्लोचीदित्येतद्रूपद्वयं सिध्यति; ग्लुञ्चेस्तु सिचि तृतीयमग्लुञ्चीदिति। अथ ग्लुञ्चिरुपादीयेत, तस्याङि सिचि चाग्लुचत्, अग्लुञ्चीदिति रूपद्वयं सिध्यति। ग्लुचेस्तु सिचि तृतीयमग्लोचीदिति। यद्येवम्, किमर्थमुभयोरुपादानम्, रूपत्रयं हि साध्यम्, तच्चान्यतरोपादानेऽपि सिध्यत्येवेत्यत आह-- "अर्थभेदात्" इत्यादि। तुशब्दोऽवधारणे। भिन्नो ह्रनयोरर्थः। तत्रान्यतरस्योपादाने य एव नोपादीयेत तत्रैवार्थेऽग्लुचदिति न सिध्येत्। तस्माद्भिन्नार्थत्वादद्व्योरुपादानम्। "केचित्" इत्यादि। अनेकार्थत्वाद्धातूनामभिन्नार्थता न विरुद्ध्यते। तस्मादुभयोरुपादानग्लुञ्चदिति सिद्ध्य इति॥
बाल-मनोरमा
जृ?स्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चु�इआभ्यश्च १३५, ३।१।५८

जृ()स्तन्भु। "च्लेऋः सि"जित्यतश्च्लेरिति, "अस्यतिवक्तिख्यातिभ्यः" इत्यतोऽङिति, "इरितो वेत्यतो वेति चानुवर्तते। तदाह--एभ्यश्च्लेरङ् वेति। "जृ()ष् वयोहानौ", "स्तम्भुः"सौत्रो धातुः, "म्रचुम्लुचू गत्यर्थौ""ग्रुचु ग्लुचु स्तेयकरणे", "ग्लुञ्चु गतौ, --इत्येतेभ्य इत्यर्थः। अम्रुचदिति। च्लेरङि सति ङित्त्वान्न लघूपधगुणः। अम्रोचीदिति। अङभावे "इट ईटी"ति सिज्लोपः। ग्रुचु ग्लुचु इति। "जृ()स्तन्भु"इत्यङ् वेत्याह--अग्रुचत् अग्रोचीदिति। आद्यस्य रूपे। अथ द्वितीयस्य अङ्विकल्पमुदाहरति--अग्लुचत् अग्लोचीदिति। अङि सति ङित्त्वान्न लघूपधगुणः। अङभावे सिज्लोपः। ग्लुञ्चु षस्जेति। आद्यो नोपधः, द्वितीयस्तु षोपदेशः, अच्परकसादित्वात्। त्तर आद्यस्य लुङि विशेषमाह--अङ्वेति। "जृ()स्तम्भ्वित्येनेने"ति शेषः। ग्लुचुग्लुञ्च्वोः पृथग्ग्रहणसामथ्र्यान्नलोपो नेति वृत्तिकृतम्। ग्लुञ्च्यात्। सस्येति। धात्वादेः षस्य सत्वे सस्ज् स्थिते, द्वितीयस्य सकारस्य श्चुत्वेन शकार इत्यर्थः। तस्येति। शकारस्य "झलां जश् झशी"ति जकार इत्यर्थः। गुजीति। इदित्त्वादाशीर्लिङि नलोपो नेत्याह-- लच्छतीति रूपम्। ललच्छ ललच्छतुः। आछीति। लिटि णलि द्वित्वे हलादिशेषे अभ्यासह्यस्वे अ आञ्छ् अ इति स्थिते "अत आदे"रिति दीर्घं, "तस्मान्नुड्()द्विहल" इति च नुटमाशङ्क्याह-- अत आदेरिति। तत्र हि दीर्घस्याकारस्य दीर्घविधौ प्रयोजनाऽभावादेव ह्यस्वाकारस्य दीर्घैति सिद्धावत इति तपरकरणं स्वाभवाकिस्यैव ह्यस्वाकारस्य परिग्रहार्थमित्यर्थः। ततः किमित्यत आह-- तेनेति। "अत आदे"रिति दीर्घविधौ स्वाभाविकह्यस्वाकारस्यैव ग्रहणेन, "अत आदे"रिति दीर्घस्याऽभावान्न नुडित्यर्थः। आञ्छेति। द्वित्वे हलादिशेषेऽभ्यासह्यस्वे सवर्णदीर्घ इति भावः। मुखसुखार्थमिति। तथा च ह्यस्वस्थानिकदीर्घाकारादपि परसय् नुड् भवत्येवेति भावः। "ह्यीछ लज्जाया"मित्यादि स्पष्टम्। युछ प्रमाद इति। यकारादिरुदुपधोऽयम्। युच्छतीति। अन्तरङ्गत्वात् "छे चे"ति तुकि लघूपधत्वाऽभावान्न गुणः। उञ्छांचकारेति। नुमि कृते "संयोगे गुरु" इत्युकारस्य गुरुत्वात् "इजादेश्चे"त्यामिति भावः। धृजेति। आद्यौ ऋदुपधौ। इतरे चत्वारोऽदुपधाः। द्वितीयचतुर्थषष्ठा इदितः। धर्जतीति। शपि लघूपधगुणः। रपरत्वम्। दधर्ज दधृजतुः। धृज्यात्। अधर्जीत्। धृञ्जतीति। इदित्त्वान्नुम्। दधृञ्ज। इदित्त्वान्नलोपो न। धृञ्ज्यात्। अधृञ्जीत्। ध्रजतीति। णलि--दध्राज दध्रजतुः। अध्राजीत्--अध्रजीत्। ध्रञ्जतीति। अदुपधोऽयम्। दध्रञ्ज। इदित्त्वान्नलोपो न-- दध्रञ्जतुः। ध्वजतीति। दध्वाज। ध्वञ्जतीति। दध्वञ्ज। कूज अव्यक्त इति। स्पष्टम्। सर्जतीत्यत्र षोपदेशत्वात्षत्वम्। अज गतीति। लटि अजतीत्यादि सिद्धवत्कृत्य लिटि विशेषमाह-- अजेव्र्यघञपोः। "वी"ति दीर्घान्तं लुप्तप्रथमाकम्। "आद्र्धधातुके" इत्यधिकृतं। विषयसप्तम्येषा, नतु परसप्तमी, व्याख्यानात्। तदाह--आद्र्धधातुकविषय इत्यादि। अजेरिति इका निर्देशः। अजधातोरित्यर्थः। आद्र्धधातुक इति परसप्तम्याश्रयणेतु वेवीयत इति न स्यात्, वीभावात्प्रागजादित्वाद्यङसंभवात्। विषयसप्तम्याश्रयणे तु यङि विवक्षिते वीभावे सति हलादित्वाद्यङ् निर्बाधः। अघञपोः किम्?। घञि समाजः। "समुदोरजः पशुषु" इत्यपि समजः। अत्र "अघञपोरिति न वक्तव्यं। "वा लिटी"त्यतो वेत्यनुवर्तते। व्यवस्थितविभाषेयं। घञि अपि च न भवति। ल्युटि वलादावाद्र्धधातुके च विकल्पः। अन्यत्र तु आद्र्धधातुके नित्य"मिति भाष्यकयटयोः स्थितं। तदाह-- वलादावाद्र्धधातुके वेष्यत इति। उक्तव्यवस्थितविभाषोपलक्षणमिदं। विवायेति। लिटो णलि विवक्षिते वीभावे सति णलि द्वित्वेऽभ्यासह्यस्वे "अचो ञ्णिति" इति व#ऋद्धावायादेश इति भावः। विव्यतुरिति। वीभावे सति अतुसि द्वित्वेऽभ्यासह्यस्वे "असंयोगा"दिति कित्त्वाद्गुणाऽभावे इयङपवादे "एरनेकाचः" इति यणि रूपम्। एवमुसि विव्युरिति रूपं। ननु विव्यतुः विव्युरित्यत्र द्वितीयवकारस्य यकारात्मकहल्परकत्वात् "उपधायां चे"तीकारस्य दीर्घः स्यादित्याशह्क्य ईकारस्थानिकस्य यकारस्य "अचः परस्मि"न्नति स्थानिवत्त्वेन द्वितीयवकारस्य हल्परकत्वाऽभावात्तस्मिन्वकारे परे इकारस्य न दीर्घ इति परिहरति-- अत्र वकारस्येत्यादि अच्पर[क]त्वमित्यन्तम्। ननु दीर्घविधौ "न पदान्ते"ति निषेधात्कथमिह यकारस्य स्थानिवत्तवमित्याशङ्क्य निराकरोति--न च न पदान्तेति निषेध इति। "शङ्क्य" इति शेषः। कुत इत्यत आह-स्वरदीर्घेति। इत्युक्तेरिति। "वार्तिककृते"ति शेषः। थलि एकाच इति। अजधातोरनुदात्तोपदेशानन्तर्भावेऽपि "वी"ति तदादेशोऽनुदात्तः, अजन्तेषु ऊदृ()दन्तादिचतुर्दशभिन्नधातूनामनुदात्तत्वाभ्युपगमादिति भावः।

तत्त्व-बोधिनी
जृ?स्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चु�इआभ्यश्च १०९, ३।१।५८

जृ()स्तन्भु। स्तन्भुः सौत्रः। अजरत्। अजारीत्। अस्तभत्। अस्तम्भीत्। अ()आत्। अ()आताम्। अ()आन्। अ()आयीत्। "विभाषा धेट्()श्व्यो"रिति चङि--अशि()इआयत्। अर्च पूजायाम्। अयं युजादौ स्वरितेत्। इह पाठस्तु कर्तृगेऽपि फले परस्मैपदार्थः। दीर्घाऽभावादिति। स्वाभाविकह्यस्वस्थानिकदीर्घाऽभावादित्यर्थः। मुखसुखार्थमिति।कृतह्यस्वस्थानिकदीर्घाकारात्परस्यापि नुड्भवत्येवेति भावः। युछ प्रमादे। युच्छतीति। अन्तरङ्गत्वात् "छे चे"ति तुकि लघूपधत्वाऽभावान्न गुणः। न च वार्णादाङ्ग बलीय इति वाच्यम्, आङ्गवार्णयोर्युगपत्प्रवृत्तावेव आङ्गस्य बलीयस्त्वात्। न च युच्छेति चकारछकारावुच्चार्येतां किमनेन तुग्विधिनेति शङ्क्यं, बहुषु धातुरूपेषु चकारछकारयोरुच्चारणे गौरवात्, "छे चे" त्यस्य शिवच्छायेत्यादावावश्यकत्वाच्च।