पूर्वम्: ३।१।५
अनन्तरम्: ३।१।७
 
सूत्रम्
मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य॥ ३।१।६
काशिका-वृत्तिः
मान्बधदान्शान्भ्यो दीर्घश् च अभ्यासस्य ३।१।६

मान् पूजायाम्, बध बन्धने, दान अवखण्डने, शान अवतेजते, इत्येतेभ्यो धातुभ्यः सन् प्रत्ययो भवति, अभ्यासस्य च इकारस्य दीर्घादेशो भवति। मीमांसते। बीभत्सते। दीदांसते। शीशांसते। उत्तरसूत्रे वाग्रहणं सर्वस्य शेषो विज्ञायते, तेन क्वचिन् न भवत्यपि। मानयति। बाधयति। दानयति। निशानयति। अत्र अपि सन्नर्थविशेष इष्यते। मानेर् जिज्ञासायाम्, बधेर् वैरूप्ये, दानेरार्जवे, शानेर् निशाने।
न्यासः
मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य। , ३।१।६

मान्बन्धी अनुदात्तेतौ, शेषौ स्वरितेतौ। इह दीर्घग्रहमात् "अचश्च" (१।२।२८ इति परिभाषोपस्थानादचाऽभ्यासो विशिष्यत इत्यजन्तस्याभ्यासस्य दीर्घो विधीयमानो नियतं हलादिशेषमपेक्षते; विना तेनाजन्तत्वाभावात्। त()स्मस्तु सति न किञ्चित् प्रतीक्षणीयमिति तत्समनन्तरमेव दीर्घेण भवितव्यम्, ततश्चाभ्यासस्यावर्णस्य स्थाने भवन् ब्धेरित्त्वस्य बाधकः स्यात्, शेषाणान्तु ह्यस्वस्य, ततश्चानिष्टं रूपं स्यादिति यो मन्येत तं प्रत्याह-- "अभ्यासस्य चेकारस्य दीर्घो भवति" इति।कथं पुनरिकारस्य दीर्घो लभ्यते, यावता विशेषविधिः सामान्यविधेर्बाधको भवति, विशेषविहितश्च दीर्घः, ततोऽयं सामान्यविहितमित्त्वं बाधित्वाऽकारस्यैव प्राप्नोति? अत एवं मन्यते-- "दीर्घोऽकितः ७।४।८३ इत्यत्र ज्ञापितमेतत् स्यात्-- "अभ्यासविकारेष्वपवादानोत्सर्गान् विधीन्बाधन्ते" (व्या।प।२३) इति। अकिद्ग्रहणस्यैतत् प्रयोजनम्, इह मा भूत्-- यंयम्यते, रंरम्यते इति। यदि चाभ्यासविकारेष्वपवादैरुत्सर्गा बाध्येरन्नेवं सत्यपवादत्वान्नुकि कृतेऽनजन्तत्वादेव दीर्घो न भविष्यति, किमकित इत्यनेन। कृतञ्च; अतस्ततो ज्ञापयति-- नाभ्यासविकारेषु बाध्यबाधकभाव इति। "बीभत्सते" इति। "एकाचो बशो भष्" ८।२।३७ इति बकारस्य भकारः, धकारस्य "खरि च" ८।४।५४ इति तकारः। "उत्तरसूत्रे" इत्यादि। अत्र हि सनो विधिमात्रमपेक्ष्यते वावचनेन, न त्वनन्तर एव विधिः। तेन त्रयाणामपि योगानां शेषो विज्ञायते। सर्वग्रहणं गुपादिसूत्रस्यापि ३।१।५ शेषो विज्ञायत इति ज्ञापनार्थम्, अन्यथा ह्रनन्तरस्यैव सूत्रस्य शेषो विज्ञायेत। "मानयति" इति। हेतुमण्णिच्, चुरादिणिज्वा, चुरादावप्यस्य पाठात्। "{निशानयति-- काशिका} निशानम्" इति। पचाद्यच्॥
बाल-मनोरमा
मान्बधदान्?शानभ्यो दीर्घश्चाऽ‌ऽभ्यासस्य २३०, ३।१।६

मान्बध। गुप्तिजी इह पठितौ। "कित निवासे" इत्यनुपदमेव परसमैपदिषु पठिष्यते। एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः। मानधातुर्बधधातुश्च इह पठितौ। दान खण्डने, शान तेजने इत्यनुपदमेव स्वरितेत्सु पठिष्येते। एभ्यश्चतुभ्र्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्डस्याऽर्थः। "आभ्यासस्ये"ति च्छेदः। अभ्यासस्य विकारः आभ्यासः। स च "सन्यतः" इति इत्त्वमेव,न तु ह्यस्व इति "गुणो यङ्लुको"रिति सूत्रे भाष्ये स्पष्टम्। ततश्च मान्बधदान्शानामब्यासावयवस्य इकारस्य सन्--संनियोगशिष्टो दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थः। इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह--सत्रद्वयेति। अथ उक्तसनोर्वृत्तिकृदात्युपनिबद्धानर्थविशेषानाह-- गुपेर्निन्दायामित्यादिना, शानेर्निशाने इत्यन्तेन। अत गोपानाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोध्या। जिज्ञासाशब्देन जिज्ञासाप्रयोज्यो विचारो लक्ष्यते। "मानेर्विचारे" इत्येव वृत्तिकृत्। सन्नन्तस्य धातुकार्यप्राप्त्यर्थमाह--सनाद्यन्ता इति।

तत्त्व-बोधिनी
मान्बधदान्?शान्?भ्यो दीर्घश्चाऽ‌ऽभ्यासस्य २०२, ३।१।६

मान्बध। "आभ्यासस्ये" ति च्छेदः। अभ्यासस्य विकार आभ्यासः। स चाऽत्र "सन्यतः" इतीत्त्वमेव। यदि तु ह्यस्व इत्यव गृह्रेत तर्हि तद्धितनिर्देशो व्यर्थः स्यात्। तदेतदाह-- अभ्यासेकारस्येति। वृत्तिकाराद्युपनिबद्धार्थान्दर्शयति-गुपेर्निन्दायामित्यादिना।