पूर्वम्: ३।१।५९
अनन्तरम्: ३।१।६१
 
सूत्रम्
चिण् ते पदः॥ ३।१।६०
काशिका-वृत्तिः
चिण् ते पदः ३।१।६०

पद गतौ, अस्माद् धातोः परस्य च्लेः चिणादेसो भवति तशब्दे परतः। समर्थ्यादात्मनेपदएकवचनं गृह्यते। उदपादि सस्यम्। समपादि भैक्षम्। त इति किम्? उदपत्साताम्। उदपत्सत।
लघु-सिद्धान्त-कौमुदी
चिण् ते पदः ६४६, ३।१।६०

पदश्च्लेश्चिण् स्यात्तशब्दे परे। अपादि। अपत्साताम्। अपत्सत॥ विद सत्तायाम्॥ २२॥ विद्यते। वेत्ता। अवित्त॥ बुध अवगमने॥ २३॥ बुध्यते। बोद्धा। भोत्स्यते। भुत्सीष्ट। अबोधि, अबुद्ध। अभुत्साताम्॥ युध संप्रहारे॥ २४॥ युध्यते। युयुधे। योद्धा। अयुद्ध॥ सृज विसर्गे॥ २५॥ सृज्यते। ससृजे। ससृजिषे॥
न्यासः
चिण् ते पदः। , ३।१।६०

"सामथ्र्यात्" इत्यादि। तशब्दो। ञयमस्त्येवात्मनेपदैकवचम्, अस्ति च परस्मैपदमध्यमपुरुषबहुवचनं यस्यस्य स्थाने विधीयते; तत्रास्य धातोरात्मनेपदित्वात् परस्मैपदबहुवचनं न सम्भवति, अतः पारिशेष्यावात्मनेपदैकवचनस्य ग्रहणम्। इयमेव च पारिशेष्यसिद्धिः सामथ्र्यम्। "उदपादि" इति। "चिणो लुक्" ६।४।१०४ इति तशब्दस्य लुक्। "उदपत्साताम्" इति। आताम्, "खरि च" ८।४।५४ इति चत्त्र्वम्। "उदपत्सत" इति। झे "आत्मनेपदेष्वनतः" ७।१।५ इत्यदादेशः। इह वेति निवृत्तम्। उत्तरत्रान्यतरस्यांग्रहणात्॥
बाल-मनोरमा
चिण् ते पदः ३४२, ३।१।६०

चिण् ते पदः। पदश्च्लेरिति। "च्लेः सि"जित्यत श्च्लेरित्यनुवर्तते इति भावः। तशब्दे इति। आत्मनेपदप्रथमैकवनचने इत्यर्थः। इदं च भाष्ये स्पष्टम्। प्रण्यपादीति। श्लेश्चिणि उपधावृद्धौ "चिणो लु"गितितशब्दस्य लोपः। "नेर्गदे"ति णत्वमिति भावः। विद सत्तायाम्। वेत्तेति। अनिडिति भावः। लिटि क्रादिनियमादिट्। एवं बुधष्टेति। "लिङ्()सिचौ" इति कित्त्वम्। "दीपजने"ति चिण्विकल्पं मत्वा आह-- अबोधि अबुद्धेति। कथं युध्यतीति। आत्मनेपदित्वादिति भावः। समाधत्ते--युधमिति। युध्()शब्दो भावक्विबन्तः। युधमिच्थीत्यर्थे "सुप आत्मनः" इति क्यजन्तात्परस्मैपदमित्यर्थः। "अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्य"मिति समाधानं त्वनुचितं, तस्य भाष्याऽदृष्टत्वेनाऽप्रामाणिकत्वात्। अत एव "व्यत्ययो बहुल"मिति सूत्रभाष्ये "प्रतीपमन्य ऊर्मिर्युध्यती"त्यत्र व्यत्ययेन परस्मैपदमित्येव समाहितम्। अनो रुधेति। अनु इत्युपसर्गात्परो रुधधातुः कामे वर्तत इत्यर्थः। युज समाधौ। अनिट्। अकर्मक इति। चित्त्वृत्तेर्धात्वर्थान्तर्भावादिति भावः। अर्थान्तरे तु सकर्मकोऽपि भवति, "सृजियुज्योः सकर्मकयोः कर्मवद्भाव" इति कर्मवत्सूत्रवार्तिकात्। एतच्च कर्मकर्तृप्रक्र#इयायां वक्ष्यते। लिट()आह --ससृजिषे इति। क्रादिनियमादिडिति भावः। रुआष्टेति। "सृजिदृशोर्झल्यमकिती"त्यमागमे ऋकारस्य यणि व्रश्चादिना जस्य षः। ष्टुत्वेन तकारस्य ट इति भावः। रुआक्ष्यते इति। पूर्वपदमि जस्य षत्वे "षढो"रिति षस्य कत्वे सस्य षत्वमिति भावः। आशीर्लिङि आह--सृक्षीष्टेति। अत्र लघूपधगुणमाशङ्क्याह---लिङ्()सिचाविति। नाप्यमिति। "सृजिदृशोर्झल्य"मित्यमपि नास्तीत्यर्थः। अकित्ये तद्विधानादिति भाव। लुङ्याह-- असृष्टेति। "झलो झली"ति सिचो लोपः। "लिङ्सिचावात्मनपदेषु" इति सिचः कित्त्वान्न गुणो नाप्यमिति भावः। लिश अल्पीभावे। लिक्षीष्टेति। "लिङ्सिचौ" इति कित्त्वान्न गुणः। अलिक्षतेति। "शल इगुपधा"दिति क्सः। आगणान्तादिति। दिवादिगसमाप्तिपर्यन्तमित्यर्थः। राधोऽकर्मकाद्वृद्धावेवेति। श्य"न्निति शेषः। राधधातोरकर्मकाद्वृद्धावेवाऽर्थे श्यनिति प्रतीयमानोऽर्थः। एवं सति अकर्मकादिति व्यर्थम्। राधेरर्थान्तरे च श्यन् स्यात्। इष्यते हि "अपराध्यती"त्यादौ द्रोहाद्यर्थेऽपि श्यन्। तत्राह-- एवकारो भिन्नक्रम इति। यस्मिन् कमे वृद्धावित्यत ऊध्र्वम एवकारः पठितः, ततोऽन्यः कमो यस्य स भिन्नक्रम इत्यर्थः। "वृद्धा"वित्यत ऊध्र्वं पठित एवाकरोऽन्यत्र निवेशनीय इति यावत्। तदेव दर्शयति--राधोऽकर्मकादेव श्यनिति। एवं चार्थान्तरेऽपि श्यन् सिध्यति। "शत्रुं हिनस्ती"त्यर्ते शत्रुमपराध्नोतीत्यत्र सकर्मकत्वान्न श्यन्निति भाव-। तर्हि वृद्धावित्यस्य किं प्रयोजनमित्याशङ्क्य अकर्मकक्रिया एवं विधेति प्रदर्शनार्थं तत्, नतु परिसङ्ख्यानार्थमित्याह--उदाहरणमाह--वृद्धावितीति। एवं च वृद्धिग्रहणमकर्मकक्रियामात्रोपलक्षणमिति भावः। तथाविधाऽर्थान्तराण्युदाहरति--यन्मह्रमित्यादिना। "क्रुधद्रुहे"ति संप्रदानत्वम्। कृष्णाय राध्यतीति। "राधीक्ष्योर्यस्य विप्रश्नःर" इति संप्रदानत्वम्। दैवमिति। कृष्णस्य किमिदानां शुभमशुभं वेति पृष्टो दैवज्ञस्तस्य शुभाऽशुभसूचकादित्यादिग्रहस्थितिं ज्योतिश्शास्त्रतः परीक्षते इति यावत्। ननु पर्यालोचने दैवस्य कर्मत्वात्कथमिह अकर्मकतेत्यत आह-- दैवस्येति। ननु "राधोऽकर्मकाद्वृद्धावेवे"त्यत्र वृद्धिग्रहमस्यौपलक्षणतया हिंसार्थकस्यापि राधेर्दैवादिकतवाद्रराधतुरित्यादौ "राधो हिंसाया"मिति वक्ष्यमाणावेत्त्वाऽभ्यासलोपौ स्यातामित्यत आह--राध इति। इह नेति।रराधतुरित्यादौ राधेर्हिंसार्थकत्वे "राधो हिंसाया"मिति वक्ष्यमाणावेत्त्वाभ्यासलोपौ न स्त इत्यर्थः। कुत इत्यत आह--हिंसार्थस्येति। नोन्मिषत्येवैषा शङ्का, राधेरकर्मकस्यैव दैवादिकत्ववचनात्। हिंसार्थकस्य च राधेः सकर्मकतया दैवादिकत्वाऽभावादुक्तशङ्काया अनुन्मेषादित्यर्थः। ननु राध्नोति राधयतीति कथमित्यत आह-- अयं स्वादिश्चुरादिश्चेति। रराधिथ। क्रादिनियमान्नित्यमिट्, दीर्घाकारवत्त्वेन "उपदेशेऽत्वतः" इत्यस्याऽप्रवृत्तेः, अजन्तोऽकारवानित्यत्र च ह्यस्वाऽकारस्यैव विवक्षितत्वात्। राद्धा। अरात्सीत्। व्यध ताडने इति। चतुर्थान्तोऽयम्। अनिट्। विध्यतीति। श्यनो ङित्त्वात् "ग्रहिज्ये"ति यकारस्य संप्रसारणे पूर्वरूपे विध्यतीति रूपमित्यर्थः। वकारस्य तु न संप्रसारणं , "न संप्रासरणे संप्रसारण"मिति निषेधात्। विव्याधेति। द्वित्वे कृते अभ्यासस्य "लिट()भ्यासस्ये"ति संप्रसारणमिति भावः। विविधतुरिति। परत्वात् "ग्रहिज्ये"ति संप्रसारणे कृते द्वित्वमिति भावः। भारद्वाजनियमात्थलि वेडित्याह-- विव्यधिथ विव्यद्धेति। "लिट()भ्यासस्ये"ति संप्रसारणम्। अनिट्पक्षे "झषस्तथो"रिति धः। अव्यात्सीदिति। हलन्तलक्षणा वृद्धिः। पुष पुष्ठौ। अनिट्। पुपोषिथेति। अजन्ताऽकारवत्त्वाऽभावाक्रादिनियमान्नित्यमिट्। अपुषदिति। पुषाद्यङ्।ङित्त्वान्न गुणः। शुष धातुरनिट्। अशुषदिति। पुषाद्यङिति भावः। एवमग्रेपि। तुष् दुष् श्लिष्-- एतेऽनिटः। लुङि स्लिषश्च्लेः सिजादेशे प्राप्ते---

तत्त्व-बोधिनी
चिण् ते पदः २९९, ३।१।६०

चिण् ते पदः। तशब्द इति। सामथ्र्यादात्मनेपदप्रथमपुरुषैकवचनम्। तशब्दे किम्?। अपत्थाः। प्रण्यपादीति। "चिणो लु"गिति तशब्दस्य लुक्। "नेर्गदे"ति णत्वम्। अबोधीति। "दीपजनबुधे"ति चिण्। अनो रुध कामे। अनोः परो रुधधातुः कामे इच्छा। दिवादिषु पाठसामथ्र्यात् "रुधादिभ्यः" इति श्नमं बाधित्वा श्यन्। नाप्यमिति। "सृजिदृ()शोर्झल्यमकिती"त्यकित्येव विधानात्। लिश। आतपादिनाऽनल्पस्य अल्पभावोऽल्पीभावः। लिक्षीष्टेति। "लिङ्सिचावात्मनेपदेषु" इति कित्त्वान्न गुणः। अलिक्षतेति। "शल इगुपधे"ति क्सः। राधोऽकर्मकात्। भिन्नक्रमं दर्शयति-- अकर्मकादेवेति। "राधो वृद्धावेव श्य"न्निति व्याख्यायामकर्मकादिति विशेषणं व्यर्थं स्यात्, वृद्धावस्याऽकर्मकत्वात्। अकर्मकात्किम्?। शत्रुमपराध्नोति। हिनस्तीत्यर्थः। राध संसिद्धाविति स्वादौ। "राधो हिसाया"मित्यनुवादार्द्धिसायामप्ययम्। उदाहरणमाहेति। अकर्मकत्वप्रयोजकस्य यस्य कस्यचिदर्थस्येति भावः। अकर्मके श्यन्नन्तस्य प्रयोगान्दर्शयति- यन्मह्रमित्यादिना। कृष्णायेति। राधीक्ष्यो"रिति चतुर्थी। अपुषदिति। ङित्तवाद्गुणाऽभावः। शुष। शोष्टा। शोक्ष्यति। "श्लिष आलिङ्गने" इति सूत्रं योगविभागेन व्याचष्टे--- श्लिष इति।