पूर्वम्: ३।१।६७
अनन्तरम्: ३।१।६९
 
प्रथमावृत्तिः

सूत्रम्॥ कर्तरि शप्॥ ३।१।६८

पदच्छेदः॥ कर्तरि ७।१ ८८ शप् १।१ सार्वधातुके ७।१ ६७ धातोः ५।१ २२ प्रत्ययः १।१ परश्च १।१

अर्थः॥

कर्तृवाचिनि सार्वधातुके परतः धातोः शप् प्रत्ययः परश्च। लट्, लोट्, लङ्, विधिलिङ्, इत्येते लकाराः {तिङ्शित् सार्वधातुकम् (३।४।११३)} इत्येस्मात् सार्वधातुकसंज्ञकाः भवन्ति, शप्-प्रत्ययः भवति च।

उदाहरणम्॥

भवति, पठति। भवतु, पठतु। अभवत्, अपठत्। भवेत्, पठेत्।
काशिका-वृत्तिः
कर्तरि शप् ३।१।६८

कर्तृवाचिनि सार्वधातुके परतो धातोः शप् प्रत्ययओ भवति। पकारः स्वरार्थः। शकारः सार्वधातुकसंज्ञार्थः। भवति। पचति।
लघु-सिद्धान्त-कौमुदी
कर्तरि शप् ३८९, ३।१।६८

कर्त्रर्थे सार्वधातुके परे धातोः शप्॥
न्यासः
कत्र्तरि शप्। , ३।१।६८

" पकारः स्वरार्थः" इति। "अनुदात्तौ सुप्पितौ" ३।१।४ इत्यनुदात्तत्वं यथा स्यात्। "शकारः सार्वधातुकसंज्ञार्थः" इति। "तिङशित्सार्वधातुकम्" ३।४।११३ इति सार्वधातुकत्वं यथा स्यात्। श्यन्प्रभृतीनामपि शकारस्यैतत् प्रयोजनं वेदितव्यम्॥
बाल-मनोरमा
कर्तरि शप् १७, ३।१।६८

कर्तरि शप्। "सार्वधातुके य"गित्यस्मात्सार्वधातुक इत्यनुवर्तते। "धातोरेकाचो हलादे"रित्यस्माद्धातोरिति। तदाह-- कत्र्रर्थ इत्यादिना। तिङि परे धातोर्विहितानां प्रत्यायानां शबादीनां विकरणसंज्ञा प्राचीनाचार्यसिद्धा। शपाविताविति। शकारपकारौ "लशक्वतद्धिते" इति "हलन्त्य"मिति चेत्संज्ञकावित्यर्थः। ततश्च शपि शकारपकारयोर्लोपेऽकारमात्रं शिष्यत इत्यर्थः।

तत्त्व-बोधिनी
कर्तरि शप् १४, ३।१।६८

"सार्वधातुके य" गित्यतः सार्वधातुक इत्यनुवर्तते, "धातोरेकाचःर" इति सूत्राद्धातोरिति च, तदाह-- कत्र्रर्थ इत्यादि।