पूर्वम्: ३।१।६९
अनन्तरम्: ३।१।७१
 
सूत्रम्
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः॥ ३।१।७०
काशिका-वृत्तिः
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुतिलषः ३।१।७०

उभयत्र विभाषेयम्। टुभ्राशृ, दुभ्लाशृ दीप्तौ, भ्रमु अनवस्थाने, भ्रमु चलने, द्वयोरपि ग्रहणम्, क्रमु पादविक्षेपे, क्लमु ग्लानौ, त्रसी उद्वेगे, त्रुटी छेदने, लष कान्तौ, एतेभ्यो वा श्यन् प्रत्ययो भवति। भ्राश्यते, भ्राशते। भ्लाश्यते, भ्लाशते। भ्राम्यति, भ्रमति। क्राम्यति, क्रामति। क्लाम्यति, क्लामति। त्रस्यति, त्रसति। त्र्युट्यति, त्रुटति। लष्यति, लषति।
लघु-सिद्धान्त-कौमुदी
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ४८७, ३।१।७०

एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे। पक्षे शप्॥
न्यासः
वा भ्राशभ्लाशभ्रमुत्रसित्रुटिषः। , ३।१।७०

"सनोति, क्षणोति" इति। "षणु दाने (धा।पा।१४६४), क्षणु हिंसायाम्" (धा।पा।१४६५)। "नियमार्थम्" इति।एतदेव तनादिकार्यं यथा स्यादित्येष नियमो यथा स्यात्। अन्यत् तनादिकार्यं तदभावम्। असति हि नियमार्थे यथान्येभ्यस्तनादिभ्यो विभाषा सिचस्तथासोर्लुग् भवति-- अतत, अतथाः, अतनिष्ट, अतनिष्ठाः, तथा करोतेरपि स्यात्। अ()स्मस्तु सति न भवति, तदभावे च "ह्यस्वादङ्गात्" ८।२।२७ इत्याष्टमिक एव लोपो भवति-- अकृत, अकृथाः। ननु सत्यपि त()स्मस्तनादिकार्ये नैव किञ्चिदनिष्टमापद्यते, अलुक्पक्षेऽपि "ह्यस्वात्" (८।२।२७) इति लोपप्रवृत्तेः? नैतत्; नाप्राप्ते सिचो लोपे लुगारभ्यमाणस्तस्य बाधकः स्यात्। "पूर्वत्रासिद्धम्" ८।२।१ इत्यासिद्धत्वादयुक्ता लोपबाधेत्येतन्ाशङ्कनीयम्; यस्माद्वक्ष्यत्येतत्()-- "नास्त्यपवादेष्वसिद्धत्वम्, अपवादवचनप्रामाण्यात्" इति। यदि तर्हि करोतेरन्यत् तनादिकार्यं नेष्यते, कस्मात् तर्हि भ्वादावेव पठितः? कः पुनरेवं लाघवकृतो विशेषः। भ्वादावपि पाठे नियोगतोऽस्य विकरणविधौ ग्रहणं कत्र्तव्यमित्यदेश्यमेतत्॥
बाल-मनोरमा
वा भ्राशभ्लासब्रामुक्रमुक्लमुवसिवुटिलषः १६१, ३।१।७०

वा भ्राश। "दिवादिब्यः श्य" नित्यतः श्यन्निति, "कर्तरि श"बित्यतः कर्तरीति, "सार्वधातुके य"गित्यतः सार्वधातुक इति चानुवर्तते। तदाह---एभ्यः श्यन्वेत्यादि।

तत्त्व-बोधिनी
वा भ्राशभ्लासभ्रमुक्रमुक्लमुवसिवुटिलषः १३५, ३।१।७०

उभयत्रविभाषेयम्। अनवस्थानर्थो भ्रमिः, क्लमित्रसी च-- दिवादयः, तेभ्यो नित्यं प्राप्ते। इतरेषामप्राप्ते चारम्भात्। "भ्राश्रृ भ्लाश्रृ दीप्तौ"। फणादावेतौ। "भ्रमु चलने" ब्वादिः, ज्वलादिः। "फणादि"रित्यपि?मनोरमायां पठ()ते, तद्रभसादिति नव्याः। "भ्रमु अनवस्थाने" दिवादिः, पुषादिः, शमादिः। तत्र ब्वादेः-- भ्रम्यति भ्रमति। शमादेस्तु श्यनि दीर्घे भ्राम्यीति त्रैरूप्यम्। "क्लमु ग्लानौ", "त्रसी उद्वेगे", "त्रुट छेदने", "लष कान्तौ"।