पूर्वम्: ३।१।७०
अनन्तरम्: ३।१।७२
 
सूत्रम्
यसोऽनुपसर्गात्॥ ३।१।७१
काशिका-वृत्तिः
यसो ऽनुपसर्गात् ३।१।७१

यसु प्रयत्ने दैवादिकः। तस्मान् नित्यं श्यनि प्राप्ते ऽनुपसर्गाद् विकल्प उच्यते। यसो ऽनुपसर्गाद् वा श्यन् प्रत्ययो भवति। यस्यति, यसति। अनुपसर्गातिति किम्? आयस्यति। प्रयस्यति।
बाल-मनोरमा
यसोऽनुपसर्गात् ३५१, ३।१।७१

यसोऽनुपसर्गात्।

तत्त्व-बोधिनी
यसोऽनुपसर्गात् ७६७, ३।१।७१

यसोऽनुप। अत्र वदन्ति-- "यस" इत्येवास्तु। ततः "समः"। नियमार्थमिदम्, -- सोपसर्गाद्यसश्चेत्संपूर्वकादेवेति। एवं च पूर्वसूत्रेऽनुपसर्गादिति ग्रहणमुत्तरत्र च यसश्चेति ग्रहणं त्यक्तुं शक्यमिति। दाहे पठित इति। व्युष दाह इति-- अस्मिन्नेव गणे पठित इत्यर्थः। अङर्थमिति। दाहे पठितस्य तु सिजेव। अव्योषीत्।

इति तत्त्वबोधिन्याम् दिवादयः।