पूर्वम्: ३।१।७५
अनन्तरम्: ३।१।७७
 
सूत्रम्
तनूकरणे तक्षः॥ ३।१।७६
काशिका-वृत्तिः
तनूकरणे तक्षः ३।१।७६

तक्षू त्वक्षू तनूकरणे, अस्मात् तनूकरणे वर्तमानातनतरस्यां श्नुप्रत्ययो भवति। अनेकार्थत्वाद् धातूनां विशेषणौपादानम्। तक्ष्णोति काष्ठम्, तक्षति काष्ठम्। तनूकरणे इति किम्? संतक्षति वाग्भिः।
बाल-मनोरमा
तनूकरणे तक्षः १७८, ३।१।७६

तनूकरणे। शेषपूरणेन सूत्रं व्याचष्टे--श्नुः स्याद्वा शब्विषये इति। "स्वादिभ्यः श्नु"रित्यतः श्नुरिति, "कर्तरि श"बित्यतः कर्तरीति, "सार्वधातुके य"गित्यतः सार्वधातुक इति चानुवर्तते। तनूकरणेऽर्थे विद्यमानात्तक्षधातोः श्नुः स्यात्कत्र्रर्थे सार्वधातुके इति फलितम्। नच तक्षूधातोस्तनूकरणार्थकत्वाऽव्यभिचारात् श्नुविधौ तनूकरणग्रहणं व्यर्तमिति वाच्यम्, अत एव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात्। तक्ष्णोतीत्यादि। अक्षूवद्रूपाणि। लुङि सिचि इट्पक्षे "नेटी"ति वृद्धिनिषेधे अतक्षीदिति, इडभावे तु अताक्षीदिति च रूपमक्षवत्। एवं त्वक्षूधातुरपि। णिक्षधातुर्णोपदेशः। प्रक्षिणतीति। "उपसर्गादसमासेऽपी"ति णत्वम्। त्रण ष्ट्रक्ष गताविति। त्रयोऽप्यकारमध्याः। द्वितीयः षोपदेशः। तदाह-- रुआक्षतीति। षस्य सत्वे ष्टुत्वनिवृत्तिरिति भावः। णक्षदातुर्णोपदेशः। सिचि "नेटी"ति हलन्तलक्षणवृद्धिनिषेधः। वक्ष रोष इति। वक्ष रोष इति। दन्त्योष्ठ()आदिः। म्रक्षधातुरकारमध्यः। त्वचनशब्दस्य विवरणं-- संवरणमिति। सूक्र्षदातू रेफमध्यः। अपपाठत्वे हेतुमाह-- अवज्ञेति। सूक्र्षधातोरनादरार्थकत्वे असूक्र्षणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः। घोरवाशिते चेति। चात् काङ्क्षायामपि। घोरवाशितं-- क्रूरशब्दः। चूषेत्यारभ्य ऊष रुजायामिति यावदूदुपधाः। ईष उञ्छ इति। ईदुपधः। कषेत्यारभ्य दश धातवः। तत्र तृतीयो दशमश्च इदुपधः। शिषधातुरनिट्कः। क्रादिनियमात्थलि वसि मसि च नित्यमिट् अजन्ताकारवत्त्वाऽभावेन थलि वेट्कत्वाऽभावात्। शिशेषिथ। शिशिषिव शिशिषिम। अशिक्षदिति। "शल इगुपधा" दिति च्लेः क्सादेशे कित्त्वाल्लघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः। ववषतुरिति। "न शसददे"ति निषेधादेत्तवाभ्यासलोपौ न। रुषधातुः सेट्कः। रोषति। रुरोष रुरुषतुः रुरुषुः। रुरोषिथ रुरुषथुः रुरुष। रुरोषिव रुरुषिम।

तत्त्व-बोधिनी
तनूकरणे तक्षः १५१, ३।१।७६

अतक्षीदिति। "नेटि" इति वृद्धिनिषेधः। इडभावे तु-- अताक्षीत्। प्रणिक्षतीति। "उपसर्गादसमासेऽपी"ति नित्यं णत्वम्। "वा निंसनिक्षनिन्दा"मिति तु कृद्विषयम्। "ण्वुलतृचौ"। प्रणिक्षिकः। प्रनिक्षकः। प्रणिक्षिता। प्रनिक्षिता। अवज्ञेत्यादि। सूक्र्षणमादरस्ततोऽन्यदसूक्र्षणित्यमरग्रन्तार्थः। यदि तु सूक्र्षणमनादर इत्युच्येत तर्हि असूक्र्षणमवज्ञापर्यायो न स्यादिति भावः। काक्षि। काङ्क्षा -इच्छा। द्राक्षि ध्राक्षि ध्वाक्षि। घोरवासितं-- घोरशब्दः। वासृ शब्दे। ध्वाङ्क्षतीति। ध्वाङ्क्ष--- काकः। द्राक्षि। धातोः "गुरोश्च हलः" इति "अ" प्रत्यये द्राक्षा। यवादिगणे निपातनान्नलोपः। द्राक्षामान्। इह मतोर्वत्वं तु न भवति, "अयवादिभ्य" इत्युक्तेः। तूष तुष्टौ। दिवादौ तु ह्यस्वोपधः। मूष स्तेये। संज्ञायां क्वुनि "मूषकः"। क्र्यादौ तु ह्यस्वोपधोऽयम्। भूष अलङ्कारे। अयं चुरादावपि। ईष उच्छे। "गुरोश्च हलः" इत्यप्रत्यये "ईषा लाङ्गलदण्डः"। कष खष। षान्तौ। "शिषे"त्ययमप्यनिक्टो न तु रौधादिक एव, संकोचे मानाऽभावादित्यभिप्रेत्योदाहरति-- शेष्टा। अशिक्षदित्यादि।