पूर्वम्: ३।१।७८
अनन्तरम्: ३।१।८०
 
प्रथमावृत्तिः

सूत्रम्॥ तनादिकृञ्भ्य उः॥ ३।१।७९

पदच्छेदः॥ तनादिकृञ्भ्यः ५।३ उः १।१ सार्वधातुके ७।१ ६७ कर्तरि ७।१ ६८ धातोः ५।१ २२ प्रत्ययः १।१ परश्च १।१

समासः॥

तन् आदिर्येषां ते तनादयः, तनादयश्च कृञ् च तनादिकृञ्भ्यः, तेभ्यः, बहुव्रीहिगर्भेतरयोगद्वन्द्वः॥

अर्थः॥

तनादिभ्यो धातुभ्यो कृञश्च उः प्रत्ययो भवति कर्तृवाचिनि सार्वधातुके परतः॥

उदाहरणम्॥

तनोति, सनोति॥ करोति॥
काशिका-वृत्तिः
तनादिकृञ्भ्यः उः ३।१।७९

तनु विस्तारे इत्येवम् आदिभ्यो धातुभ्यः कृञश्च उप्रत्ययो भवति। शपो ऽपवादः। तनोति। सनोति। क्षणोति। कृञः खल्वपि करोति। तनादिपाठादेव उप्रत्यये सिद्धे करोतेरुपादानं नियमार्थम्, अन्यत् तनादिकार्यं मा भूतिति। तनादिभ्यस् तथासोः २।४।७९। इति विभाषा सिचो लुग् न भवति। अकृत। अकृथाः।
लघु-सिद्धान्त-कौमुदी
तनादिकृञ्भ्य उः ५७४, ३।१।७९

तनादेः कृञश्च उः प्रत्ययः स्यात्। शपोऽपवादः। गुणौ। विदाङ्करोतु॥
बाल-मनोरमा
तनादिकृञ्भ्य उः २९७, ३।१।७९

तनादिकृञ्भ्यः उः। शपोऽपवाद इति। अनेन शब्विषय एवास्य प्रवृत्तिरिति सूचितम्। "सार्वधातुके य"गित्यतः सारवधातुकग्रहणस्य "कर्तरि श"बित्यतः कर्तरीत्यस्य चानुवृत्तेरिति भावः। तेनेति। गणकार्यस्याऽनित्यतया "()आसे" दित्यत्र अदादिगणकार्यं शपो लुङ्न भवतीत्यर्थः। वस्तुतस्तु कृञ्ग्रहणस्यात्र भाष्ये प्रत्याख्यातत्वादुक्तज्ञापनाऽभावाद्वि()आसेदित्यसंबद्धमेवेत्याहुः। "वि()आस्त"मित्यत्र तुआगमशास्त्रस्याऽनित्यत्वान्नेडित्याहुः। विदांकरोत्विति। अत्र विदेर्लोटि आमि लोटोलुकिआमन्ताद्विदेः कृञो लोडन्तस्यानुप्रयोगः।तत्र लोटस्तिपि "एरु" रित्युत्वे शपं बाधित्वा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिब्निमित्तो गुणः। तातङि तु ऋकारस्य गुणे रपरे तातङो ङित्त्वादुकारस्य गुणाऽभावे विदाङ्करुतादिति स्थिते--

तत्त्व-बोधिनी
तनादिकृञ्भ्यः उः २५७, ३।१।७९

तेनेति "वि()आसे"दित्यत्र शपो लुगभावः सिद्ध इति भावः। एवमप्यवि()आस्तमित्यत्रेडभावः कथमिति चेदागमशास्त्रस्याऽनित्यत्वादिति गृहाण।