पूर्वम्: ३।१।७९
अनन्तरम्: ३।१।८१
 
सूत्रम्
धिन्विकृण्व्योर च॥ ३।१।८०
काशिका-वृत्तिः
धिन्विकृण्व्योर च ३।१।८०

हिवि, धिवि जिवि प्रीणनार्थाः, कृवि हिंसाकरणयोः, इत्येतयोः धात्वोः उप्रत्ययो भवति, अकारश्च अन्तादेशः। धिनोति। कृणोति। अतो लोपस्य स्थानिवद्भावात् गुणो न भवति।
न्यासः
धिन्विकृण्व्योर च। , ३।१।८०

भ्वादित्वाच्छपि प्राप्ते वचनम्। "अकारादेशो भवति" इति। अलोऽन्त्यस्य १।१।५१ परिभाषया। "धिनोति" इति। "अतो लोपः" ६।४।४८। अथ लघूपधगुणोऽत्र कस्मान्न भवतीत्याह-- "अल्लोपस्य" इत्यादि। "अचः परस्मिन् पूर्वविधौ" १।१।५६ इत्यल्लोपस्य स्थानिवद्भावनादनुपधत्वादिकारस्य गुणो न भवति। लाघवारथं "धिविकृव्योः" इति वक्तव्ये नुमनुषक्तयोग्र्रहणं कृतमुपदेशावस्थायामेव नुम्भवतीति ज्ञापनार्थम् तेन नुम्विधावुपदेशिवद्वचनमिष्टस्वरसिद्ध्यर्थमिति न वक्तव्यं भवति
बाल-मनोरमा
धिन्विकृण्व्योर च १७१, ३।१।८०

धिन्विकृण्व्योः। "अ" इति लुप्तप्रथमाकम्। धिविकृव्योः कृतनुमोर्धिन्विकृण्वीत निर्देशः। "तनादिकृञ्भ्यः उः" इत्यत उरिति चकारादनुकृष्यते। "कर्तरि श"बित्यतः कर्तरीति, "सार्वधातुके य"गित्यतः सार्वधातुक इति च। तदाह-- अनयोरित्यादिना। वकारस्याऽकारः। दिन् अ उ ति इति स्थितम्। अतो लोप इति। युगपत्संनियोगशिष्टतया उप्रत्ययाऽकारयोर्विधानेऽपि श्रुतक्रमानुरोधेन प्रवृत्त्या आद्र्धधातुकोपदेशेकाले "धिन" इत्यस्याऽदन्तत्वमिति भावः। नन्वत्र वकारस्य लोप एव विधीयतां किमकारविधिनेत्यत आह--तस्येति। वकारस्य लोपाविधौ तु अजादेशत्वाऽभावात्स्थानिकवत्त्वं न स्यादिति भावः। तथा च धिनु ति इति स्थिते आह--उप्रत्ययस्येति। धिनुत इति। धिविधातोरनुमि तसि उप्रत्यये वकारस्य अकारादेशे अतो लोपः। तसो ङित्त्वादुकारस्य न गुणः। धिन्वन्तीति। धिन्व् इत्यस्माज्झिः। झोऽन्तः। उप्रत्ययः। वकारस्य अकारः। अतो लोपः। उकारस्य यणिति भावः। अत् वकारस्य स्थानिवत्त्वेन आद्र्धधातुकत्वेऽपि नेट्। उकारवृत्त्याद्र्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात्। तदिदं "भोभगो" इति सूत्रभाष्ये स्पष्टम्। धिनोषि धिनुथः धिनुथ। धिनोमि।

तत्त्व-बोधिनी
धिन्विकृष्व्योर च १४५, ३।१।८०

धिन्विकृष्व्योर च। "अलोऽन्त्यस्ये"ति वकारस्याऽकारादेशः। चकारेण तु उप्रत्ययोऽनुकृष्यते। बोपदेवेन त्वनयोस्तनादित्वं स्वीकृतम्। तन्मते तु चकारं विनाप्युप्रत्ययलाभः। अतो लोप इति। यद्यप्युपदेशेऽदन्तत्वं नास्ति तथाप्याद्र्धधातुकोपदेशे तदस्त्येव। "धिन्विकृण्व्योर चे"ति श्रुतत्वादकारादेशे कृते चानुकृष्टस्य पश्चाज्जायमानत्वादिति भावः।