पूर्वम्: ३।१।८२
अनन्तरम्: ३।१।८४
 
सूत्रम्
हलः श्नः शानज्झौ॥ ३।१।८३
काशिका-वृत्तिः
हलः श्नः शानज्ज्ञौ ३।१।८३

हल उत्तरस्य श्नाप्रत्ययस्य शनजादेशो भवति हौ परतः। मुषाण। पुषाण। हलः इति किम्? क्रीणीहि। हौ इति किम्? मुष्णाति। श्नः इति स्थानिनिर्देशः आदेशसम्प्रत्ययार्थः। इतरथा हि प्रत्ययान्तरम् एव सर्वविषयं विज्ञायेत।
लघु-सिद्धान्त-कौमुदी
हलः श्नः शानज्झौ ६९०, ३।१।८३

हलः परस्य श्नः शानजादेशः स्याद्धौ परे। स्तभान॥
बाल-मनोरमा
हलः श्नः शानज्झौ ३८४, ३।१।८३

स्तभानेति श्नाप्रत्ययस्य शानजादेसे कृते "अतो हे" रिति लुक्।

तत्त्व-बोधिनी
हलः श्नः शानज्झौ ३३५, ३।१।८३

हलः श्नः। स्तभानेति। "अतो हे" रित्यारम्भसामथ्र्यात्संनिपातपरिभाषाया अप्रवृत्तेर्लुक्। अत एव "जही"त्यत्र हिलोपवारणायेयं परिभाषा नोपन्यस्तेत्याहुः। यत्तु कैश्चिच्छानजादेशो धातुपाठपठितेभ्यः परस्य श्नो भवति न तु सोत्रेभ्य इति व्याख्या स्तभ्नीहीत्युदाह्मतं तन्निष्प्रमाणं, माधवादिग्रन्थविरुद्धं च।