पूर्वम्: ३।१।८३
अनन्तरम्: ३।१।८५
 
सूत्रम्
छन्दसि शायजपि॥ ३।१।८४
काशिका-वृत्तिः
छन्दसि शायजपि ३।१।८४

छन्दसि विषये श्नः शायचादेशो भवति, शानजपि। गृभाय जिह्वया मधु। शानचः खल्वपि बधान देव सवितः।
न्यासः
छन्दसि शायजपि। , ३।१।८४

"अत्रापि चित्-- शित्()करणयोः पूर्वोक्तमेव प्रयोजनम्। "{नास्ति काशिकायाम्।} गृहाण्" इति। "ग्रहण उपादाने" (धा।पा।१५३३) लोट्, सिप्; हिः, ततः श्ना,तस्य शानच्, हेर्लुक् ६।४।१०५, ग्रह्रादीना ६।१।१६ सम्प्रसारणम्। "गृभाय" इति, क्वचित् पाठः। तत्र "ह्मग्रहोर्भश्छन्दसि" (वा। ८।२।३२) इति भत्वम्। "बधान"इति। "बन्ध बन्धने" (धा।पा।१५०८) "अनिदिताम्" ६।४।२४ इति नलोपः। शेषं पूर्ववत्॥