पूर्वम्: ३।१।८५
अनन्तरम्: ३।१।८७
 
सूत्रम्
लिङ्याशिष्यङ्॥ ३।१।८६
काशिका-वृत्तिः
लिङ्याशिष्यङ् ३।१।८६

आशिषि विषये यो लिङ् तस्मिन् परतः छन्दसि विषये अङ् प्रत्ययो भवति। शपो ऽपवादः। छन्दस्युभयथा ३।४।११७ इति लिङः सार्वधातुकसंज्ञाप्यस्ति। स्थागागमिवचिविदिशकिरुहयः प्रयोजनम्। स्था उपस्थेषं वृषभं तुग्रियाणाम्। गा सत्यम् उपगेषम्। गमि गृहं गमेम। वचि मन्त्रं वोचेमाग्नये। विदि विदेयमेनां मनसि प्रविष्टाम्। शकि व्रतं चरिष्यामि तच्छकेयम्। रुहि स्वर्गं लोकम् आरुहेयम्। दृशेरग् वक्तव्यः। पितरं दृशेयं मातरं च।
न्यासः
लिङ्याशिष्यङ्। , ३।१।८६

"शपोऽपवादः" इति। ननु चाशिषि यो लिङ विहितस्तस्य "लिङाशिषि" ३।४।११६ इत्यार्थधातुकसंज्ञा, सार्वधातुके च शब्()विहितः, तत्कथं शपोऽपवाद इत्याह-- "छन्दस्युभयथा" इत्यादि। स्थादिभ्य एवात्र दृश्यते,नान्येभ्य इत्यभिप्रायेणाह-- "स्थागागमि" इत्यादि। "उपस्थेयम्" इति।उपपूर्वात्तिष्ठतेराशिषि लिङ, मिप्, तस्य "तस्थस्" ३।४।१०१ इत्यादिनाऽमादेशः, यासुट्, उभयसंज्ञात्वेन सार्वधातुकत्वात् "लिङ सलोपोऽनन्त्यस्य" ७।२।७९ इति सलोपः। क्वचित् "उपस्थेषम्" इति पाठः। तत्राद्र्धधातुकत्वात् सलोपाभावः, वलि यलोपः। "उपगेयम्" इति। "गै शब्दे" (धा।पा।९१७) "आदेच उपदेशेऽशिति" ६।१।४४ इत्यात्त्वम्। शेषं पूर्ववत्। "गमेम" इति। गमेः परस्य लिङो मस्, "नित्यं ङितः" ३।४।९९ इति सलोपः। यासुडादि सर्व पूर्ववत्। "वोचेयम्" इति। "वच भाषणे" (धा।पा।१८४२)। सिप्, तस्याम्, अङ, अङि परतः "वच उम्" ७।४।२०, "या" इत्यस्य इय्, उभयत्र "आद्गुणः" ६।१।८४। "विदेयम्" इति। "विद ज्ञाने" (धा।पा।१०६४)। "शकेयम्" इति। "शक्लृ शक्तौ" (धा।पा।१२६१)। "आरुहेयम्" इति। "रुह {बीजजन्मणि प्रादुर्भावे-- धा।पा।} जन्मनि (ध।पा।८५९) इयादेशादि सर्व पूर्ववत्। "दृशेरग्वक्तव्यः" इति। अङि हि सति "ऋदृशोऽङि गुणः" ७।४।१६ इति गुणः स्यात्। तथा च दृशेयमिति न सिध्येत्। अकि तु सति कित्त्वाद्गुणाभावो भवति। तस्मादग्वक्तव्यः = व्याख्येयः व्याख्यानं तु बहुलग्रहणानुवृत्तेर्वक्तव्यम्