पूर्वम्: ३।१।९२
अनन्तरम्: ३।१।९४
 
प्रथमावृत्तिः

सूत्रम्॥ कृदतिङ्॥ ३।१।९३

पदच्छेदः॥ कृत् १।१ अतिङ् १।१ तत्र ९२ धातोः ५।१ ९१ प्रत्ययः ?

अर्थः॥

अस्मिन् धात्वधिकारे तिङ् भिन्नाः प्रत्ययाः कृत्संज्ञकाः भवन्ति

उदाहरणम्॥

कर्त्ता, कारकः, कर्त्तव्यम्
काशिका-वृत्तिः
कृदतिङ् ३।१।९३

अस्मिन् धात्वधिकारे तिङ्वर्जितः प्रत्ययः कृत्सज्ञको भवति। कर्तव्यम्। करणीयम्। अतिङ इति किम्? चीयात्। स्तूयात्। कृत्प्रदेशाः कृत्तद्धितसमासश्च १।२।४६ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
कृदतिङ् ३०४, ३।१।९३

अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात्॥
लघु-सिद्धान्त-कौमुदी
तव्यत्तव्यानीयरः ७७४, ३।१।९३

धातोरेते प्रत्ययाः स्युः। एधितव्यम्, एधनीयं त्वया। भावे औत्सर्गिकमेकवचनं क्लीबत्वं च। चेतव्यश्चयनीयो वा धर्मस्त्वया (केलिमर उपसंख्यानम्) पचेलिमा माषाः। पक्तव्या इत्यर्थः। भिदेलिमाः सरलाः। भेत्तव्या इत्यर्थः। कर्मणि प्रत्ययः॥
न्यासः
कृदतिङ्। , ३।१।९३

"कत्र्तव्यम्" इति। कृत्संज्ञायां सत्यां "कृत्तद्धितसमासाश्च" १।२।४६ इति प्रातिपदिकसंज्ञा। "चीयात्" इति। आशिषि लिङ,"लिङाशिषि" ३।४।११६ इत्यार्धधातुकसंज्ञा। अतिङिति यदि नोच्येत, तिङोऽपि कृत्संज्ञा स्यात्; ततश्च "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घत्वं न भवेत्। अतिङिति तु सत्यकृद्यकारत्वाद्भवति॥
बाल-मनोरमा
कृदतिङ् , ३।१।९३

अथ क्विन्नन्तस्य "कृत्तद्धिते"ति प्रातिपदिकत्वं वक्तुं क्विनः कृत्संज्ञां दर्शयति--कदतिङ्। "धातो"रित्यधिकृतं, "प्रत्यय" इति च। "धातो"रिति च विहितविशेषणम्। तेन धातोर्विहितः प्रत्यय इत्यर्थो लभ्यते। "धातो"रित्यधिकृत्य विहित इति यावत्। तदाह--संनिहिते इति। तेन णिजादिनिरासः। युज् व् इति स्थिते।

तत्त्व-बोधिनी
कृदतिङ् ३३५, ३।१।९३

संनिहित इति। प्राचा तु "तृतीये धात्वधिकारे"इत्युक्तं, तदसत्, "धातोः कर्मणः"इति सन्बिधौ धातुग्रहणस्योत्तरत्रानुवृत्तेरभावेनाधिकारत्रयाऽभावात्।