"कृत्याः" इति बहुवचनेन निर्देशो बहुत्वात् संज्ञिनाम्। अथ वा-- अनुक्तकृत्प्रत्ययसंग्रहार्थं बहुवचनम्। तेन "केलिमर उपसंख्यानम्" (वा।१२१) इत्येतत् कत्र्तव्यं न भवति। "ण्वुल्तृचाविति वक्ष्यति" इति। अथ रोगाख्यायां ण्वुल् बहुलम्" (३।३।
१०८) इत्यस्य ण्वुलोऽवधित्वं कस्मान्न विज्ञायते? ज्ञापकात्। यदयम् "अर्हे कृत्यतृचश्च"
३।३।१६९ इति कृत्यग्रहणं कृत्वा तृज्ग्रहणं करोति, ततो ज्ञायते-- नास्यावधित्वमिति; अन्यथा तृचोऽपि कृत्यत्वाद्भदेनोपादानमनर्थकं स्यात्। यद्येवम्; प्राग्वचनमनर्थकं स्यात्,
अत एव ज्ञापकात् तृच इयं संज्ञा न भविष्यति? नैतदस्ति; असति ह्रेतस्मिन्, ज्ञापकात् तृच एव न स्यात्। ण्वुलस्तु स्यादेव। स्यादेतत्-- योगापेक्षं ज्ञापकम्, एतस्मिन् योगे कृत्यसंज्ञा भवति-- एषोऽर्थस्तृज्ग्रहणेन ज्ञाप्यते,
तेन ण्वुलोऽपि न भविष्यतीति? एवमन्येषामजादीनां स्यात्, प्रतिपत्तिगौरवञ्च स्यात्, योगापेक्षस्य ज्ञापकस्य दुर्विज्ञानत्वात्॥
कृत्याः। कृत्यसंज्ञका इत्यर्थः। ततश्च "प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च","अर्हे कृत्यतृचश्च", "शकि लिङ् चे"त्यादिषु प्रवर्तते। ण्वुलः प्रागिति। "ण्वुल्तृचौ" इत्यतः प्रागित्यर्थः। एतच्च भाष्ये स्पष्टम्।
कृत्याः। अत्र "प्रत्ययः" इत्यादिवत्कृत्य इत्यधिकारेणापीष्टसिद्देर्बहुवचनमनुक्तप्रत्ययसमुच्चायार्थं, तेन केलिमरादयो ज्ञापकसिद्धा इति नोपसह्ख्येया इत्याहुः। ण्वुलः प्रागिति। "ण्वुलतृचौ" इत्यतः प्रागित्यर्थः। "रोगाख्यायां ण्वुल् बहुल"मिति नावधिः, प्रत्यासत्तिन्यायात्। अवदिविशेषे ज्ञापकं तु "अर्हे कृत्यतृचश्चे"त्यत्र कृत्यात्पृथक्तृचो ग्रहणमेव। न चैवं तृचोऽकृत्यत्वेऽपि ण्वुलः कृत्यत्वं दुर्वारं स्यात्, इष्टापत्तौ तु "तयोरेवे"ति भावकर्मणोरेव ण्वुल् प्रग्ण्वुल इतिप्रचिक्षेप।