पूर्वम्: ३।१।९५
अनन्तरम्: ३।१।९७
 
सूत्रम्
तव्यत्तव्यानीयरः॥ ३।१।९६
काशिका-वृत्तिः
तव्यत्तव्यानीयरः ३।१।९६

धातोः ३।१।९१ इति वर्तते। धातोः तव्यत्, तव्य, अनीयरित्येते प्रयया भवन्ति। तकाररेफौ स्वरार्थौ। कर्तव्यम्। कर्तव्यम्। कर्णीयम्। वसेस्तव्यत् कर्तरि णिच्च। वास्तव्यः। केलिमर उपसङ्ख्यानम्। पचेलिमाः माषाः। भिदेलिमानि काष्ठानि। कर्मकर्तरि च अयम् इष्यते।
न्यासः
तव्यत्तव्यानीयरः। , ३।१।९६

"तकाररेफौ स्वरार्थौ" इति। तकारः "तित्स्वरितम्" ६।१।१७९ इति स्वरितार्थः। रेफः "उपोत्तमं रिति" ६।१।२११ इतिमध्योदात्तार्थः। "वसेस्तव्यत् कत्र्तरि णिच्च" इति।"वस निवासे" (धा।पा।१००५) इत्यस्मात् कत्र्तरि तव्यप्रत्ययो भवति, स च णिद्भवतीति। न चैतद्वक्तव्यम्; "कृत्यल्युटो बहुलम्" (३।३।११३) इति सिद्धत्वात्। वसतीति वास्तव्यः। णित्त्वाद्द्वृद्धिः। "केलिमर उपसंख्यानम"इति। उपसंख्यानशब्दसय् प्रतिपादनमर्थः। प्रतिपादनं तु प्रागेव कृतम्। पुनरपि क्रियते-- "कृत्यल्युटो बहुलम्" ३।३।११३ इतिबहुलवचनात् केलिमप्र्रत्ययोऽपि कृत्यो भविष्यति। ककारः कित्कार्यार्थः, रेफः स्वरार्थः। स्वयमेव पच्यन्ते "पचेलिमा माषाः"। शब्दशक्तिस्वाभाव्यादत ए बहुवचनाच्च कर्मकत्र्तर्येव भवति नान्यत्र॥
बाल-मनोरमा
तव्यत्तव्यानीयरः ६५५, ३।१।९६

तव्यत्तव्यानीयरः। तव्यत् तव्य अनीयर् एषां द्वन्द्वः। प्रत्ययाः स्युरिति। ते कृत्संज्ञकाः, कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम्। स्वरार्थाविति। "तित्स्वरित"मिति, "उपोत्तमं रिति" इति च स्वरविशेषार्थावित्यर्थः। निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण आद्युदात्तत्वमेवेति बोध्यम्। भावे उदाहरति-- एधितव्यमिति। त्वत्कर्तृका एधनक्रियेत्यर्थः। ननु "लः कर्मणि चे"त्यत्र असत्त्वभूतस्यैव भावस्य ग्रहणम्, तिङ्()वाच्यभावनाया असत्त्वरूपताया उक्तत्वात्। ततश्च तस्य भावस्य असत्त्वरूपस्याऽत्र "तयोरेव कृत्ये"ति तच्छब्देन परामर्शात्तव्यदादीनामसत्त्ववाचितया लिङ्गसङ्ख्यान्वयोऽनुपपन्न इत्यत आह-- भावे औत्सर्गिकमेकवचनमिति। "एकवचनम्", "द्विबहुषु द्विबहुवचने" इति सूत्रपाठमभ्युपगम्य द्वित्वबहुत्वाऽभावे एकवचनमिति भाष्यसिद्धान्तादिति भावः। क्लीबत्वं चेति। "एकश्रुतिः स्वरसर्वनाम, लिङ्गसर्वनाम नपुंसक"मिति "दाण्डिनायने" ति सूत्रस्थभाष्यादिति भावः। कर्मण्युदाहरति-- चेतव्य इति। "वसेस्तव्यत्कर्तरि णिच्चेति वार्तिकम्। वास्तव्य इति। वस्तेत्यर्थः। णित्त्वादुपधावृद्धिः। केलिमर इति। धातोरित्येव। भावकर्णोरेवेदम्। केलिमरि ककाररेफावितौ। भिदेलिमा इति। कित्त्वान्नोपधागुणः। सरलाः = वृक्षविशेषाः। तद्भाष्येति। भाष्ये भिदेलिमा इत्युदाह्मत्य "भेत्तव्या" इत्येव विवरणादिति भावः।

तत्त्व-बोधिनी
तव्यत्तव्यानीयरः ५४५, ३।१।९६

स्वरार्थाविति। तकारः "तित्स्वरित"मिति स्वरितत्वार्थः। रेफस्तु "उपोत्तमं रिती"ति मध्योदात्तार्थः।