पूर्वम्: ३।१।१५०
अनन्तरम्: ३।२।२
 
सूत्रम्
कर्मण्यण्॥ ३।२।१
काशिका-वृत्तिः
कर्मण्यण् ३।२।१

त्रिविधं कर्म, निर्वर्त्यं, विकार्यं, प्राप्यं च इति। सर्वत्र कर्मणि उपपदे धातोः अण् प्रत्ययो भवति। निर्वर्त्यं तावत् कुम्भकारः। नगरकारः। विकार्यम् काण्डलावः। शरलावः। प्राप्यम् वेदाध्यायः। चर्चापारः। ग्रामं गच्छति, आदित्यं पश्यति, हिमवन्तं शृणोति इत्यत्र न भवति, अनभिधानात्। शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। मांसशीलः, मांसशीला। मांसकामः, मांसकामा। मांसभक्षः, मांसभक्षा। कल्याणाचारः, कल्याणाचारा। ईक्षक्षमिभ्यां च इति वक्तव्यम्। सुखप्रतीक्षः, सुखप्रतीक्षा। बहुक्षमः, बहुक्षमा।
लघु-सिद्धान्त-कौमुदी
कर्मण्यण् ७९३, ३।२।१

कर्मण्युपपदे धातोरण् प्रत्ययः स्यात्। कुम्भं करोतीति कुम्भकारः॥
न्यासः
कर्मण्यण्। , ३।२।१

"कर्यणि" इति नेदं स्वरूपग्रहणम्; "अशब्दसंज्ञा" १।१।६७ इति प्रतिषेधात्। यदि च कर्मप्रदेशेषु स्वरूपमेव गृह्रते,तदा संज्ञाविधानमनर्थकं स्यात्; नापि क्रियाग्रहणम्, तस्य हि ग्रहणे "कत्र्रभिप्राये" १।३।७२ इति निर्देशो नोपपद्यते, क्रियाकर्मणो हि ग्रहणे क्रियावाच्युपपदे प्रत्ययेन भवितव्यम्, न चेह क्रियावाच्युपपदमस्ति तस्मात् "कर्त्तुरीप्सिततमं कर्म" १।४।४९ इति कर्म गृह्रते। तस्य प्रभेदं दर्शयितुमाह-- "त्रिविधम्" इत्यादि। तत्र निर्वर्त्त्यं यदसदेवोत्पद्यते, तथा--कुम्भं करोति,नगरं करोतीति। कुम्भादिकं ह्रविद्यमानमेवोत्पद्यत इति निर्वर्त्त्यं कर्म। विकार्यम्-- यस्य सत एव कश्चिदद्विकारो विधीयते, तद्यथा-- काण्डं लुनाति, नगरं लुनातीति। सत एव काण्डादेर्लवनेन विकारो विधीयत इति विकार्यं कर्म। प्राप्यम्-- नासत एवोत्पादनं क्रियते, नापि सत एव विकाराधानम्, केवलं क्रियासम्बन्धमात्रं प्रतीयते, तद्यथा-- वेदमधीते, चर्च्चां परयतीति। अत्रह्रव्ययनादिना वेदादेः सम्बन्धमात्रं प्रतीयते, न त्वसत एवोत्पादनम्। नापि सत एवान्यथालक्षणो विकार इति प्राप्यमेतत् कर्म। "सर्वत्र" इत्यादि। त्रप्रकारे विशेषानुपादानात्। "कर्मण्युपपदे" इति नाभिदाने कुतो मा भूत्? "कत्र्तरि कृत्" ३।४।६७ इत्यस्य बाधा इति। "शीलिकामि" इत्यादि। "{शील उपधारणे इति धा।पा। चुरादौ पठ()ते; "शील समाधौ" इति च धा।पा।भ्वादौ पठ()ते} शील समाधौ" (धा।पा।१८७८) चुरादिण्र्यन्तः। "कमु कान्तौ" (धा।पा।४४३) कमिर्णिङन्तः। "भक्ष अदने" (धा।पा।१५५७), चुरादिण्र्यन्तः। "चर गत्यर्थः" (धा।पा।५५९) आङ्पूर्वः। इकारोऽस्य धातुनिर्देशार्थः। एभ्योऽणि प्राप्ते णो वक्तव्यः = व्याख्येयः। तत्रेदं व्याख्यानम्-- "ज्वलितिकसन्तेभ्यो णः" ३।१।१४० इत्यतो मण्डूकप्लुतिन्यायेन णोऽनुवत्र्तते, "विभाषा ग्रहः" ३।१।१४३ इत्यतश्च विभाषाग्रहणम्, द्वावपीह कर्मण्युपपदे णाणौ विधीयते। अत्र विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्छीलीत्यादिभ्यो ण एव भविष्यतीति, परिशिष्टेभ्यस्त्वणेवेति। एतयोस्तु स्त्रियां विशेषः - अणि हि ङिब् भवति, णे तु टाप्। णकारः "अचो ञ्णिति" ७।२।११५ वृद्ध्यर्थः। "पूर्वपदप्रकृतिस्वरत्वञ्च" इति।"गतिकारकोपपदानां कृत्" (६।२।१३९) इत्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते पूर्वपदप्रकृतिस्वरत्वञ्च वक्तव्यम् = व्याख्येयम्। तत्रेदं व्याख्यान म्-- "{तत्पुरुषे तुल्यादौ" मु।पाठः} तुल्यार्थ" ६।२।२ सूत्रे "तत्पुरुषे"इति योगविभागः कत्र्तव्यः तेन मांसशीलादिभ्यः पूर्वपदप्रकृतिस्वरत्वञ्च भविष्यतीति। मांसशब्दोऽन्तोदात्तः-- "वृतृवदिहनिकमि{कषियुमुचिभ्यः द।उ।} कषिभ्यः सः" (द।उ।९।२१) इत्यनुवत्र्तमाने "मनेर्दीर्घश्च" (द।उ।९।२३) इति सप्रत्ययान्तत्वात्प्रत्ययस्वरेण। कल्याणशब्दो मध्योदात्तः-"लघावन्ते द्वयोश्च बह्वषो गुरुः" (फिट्। २।४२) इत्यनेन। अस्यायमर्थः-- अन्ते लघौ परतौ द्वयोश्चान्तयोर्लघ्वोः परतो बह्वच्शब्दस्य यो गुरुः स उदात्तो भवति। "बह्वष्" इति बह्वजित्यर्थः। ननु च शील्यादिभ्यः कर्मणि घञं कृत्वा तदन्तेन बहुव्रीहौ कृते सिध्यत्वेव मांसशीलादि, त()त्क णविधानेन? नैतदस्ति; बहुव्रीहौ सति बहुभक्षा इत्यत्र "वहोर्नञ्चदुत्तरपदभूम्नि" ६।२।१७४ इत्युत्तरपदान्तोदात्तत्वं स्यात्। अवश्यञ्चाण्बाधनार्थो णो वक्तव्यः, अन्यथा हि यदा "मांसं कामयते" इतीदं वाक्यं भवति तदाऽणपि स्यात्। "ईक्षिक्षमिभ्याश्च"इति। "ईक्ष दर्शने" (धा।पा।६१०), "{क्षमू-धा।पा।}क्षमु सहने" (धा।पा।१२०६)- आभ्यां णो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्ववदेव कत्र्तव्यम्॥
बाल-मनोरमा
कर्मण्यण् ७३०, ३।२।१

कर्मण्यण्। कर्मण्युपपदे इति। "तत्रोपपदं सप्तमीस्थ"मित्यत्र "तत्रे"त्यनेनदं लभ्यत इति तत्रैवोक्तम्। प्रत्ययस्तु कर्तर्येव। उपपदसमास इति। "उपपदमति"ङित्यनेनेति भावः। कुम्भं करोतीति। अस्वपदो लौकिकविग्रहोऽयम्। कुम्भ अस् कार इत्यलौकिकविग्रह वाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठ()न्तस्य समास इति प्रागेवोक्तम्। ननु आदित्यं पश्यतीत्यादित्यदर्शः, हिमवन्तं शृणोतीति हिमवच्छ्रावः, ग्रामं गच्छतीति ग्रामगाम इत्यादि स्यादित्यत आह-- आदित्यं पश्यतीत्यादावनभिधानान्नेति। एतच्च भाष्ये स्पष्टम्। शालीति। शीलि, कामि, भक्षि, आचरि एभ्यो णप्रत्ययो वाच्य इत्यर्थः। ननु "कर्मण्य" णित्यणैव सिद्धे किमर्थमिदत्यत आह-- अणोऽपवादार्थमिति। अण्णन्तत्वे तु ङीप् स्यात्, तन्निवृत्त्यर्थं णविधानमिति भावः। तदाह-- मांसशीलेति। "शील समाधौ" इति भ्वादिः। इह तु स्वभावतः सेवने वर्तते। मांसं स्वभावतः सेवमानेत्यर्थः। मांसकामेति। मांसकामेति। मांसं कामयते इति विग्रहः। मांसभक्षेति। मांसं भक्षयते इति विग्रहः। कल्याणाचारेति। कल्याणमाचरतीति विग्रहः। सर्वत्र टाप्। ईक्षिक्षमिभ्यामिति। वार्तिकमिदम्। "ण" इति शेषः। कथमिति। कर्मण्यणि गङ्गाधार इत्यादि स्यादित्याक्षेपः। "कर्मणः शेषत्वेति। तथा च कर्मोपपदाऽभावान्नाऽणिति भावः।