पूर्वम्: ३।२।९
अनन्तरम्: ३।२।११
 
सूत्रम्
वयसि च॥ ३।२।१०
काशिका-वृत्तिः
वयसि च ३।२।१०

वयसि गम्यमाने हरतेः कर्मण्युपपदे अच् प्रत्ययो भवति। उद्यमनार्थो ऽयम् आरम्भः। कालकृता शरीरावस्था यौवनादिर् वयः। यदुद्यमनं क्रियमाणं सम्भाव्यमानं वा वयो गमयति, तत्र अयं विधिः। अस्थिहरः श्वा। कवछरः क्षत्रियकुमारः।
न्यासः
वयसि च। , ३।२।१०

"उतद्यमनार्थोऽयमारम्भः" इति। अनुद्यमने पूर्वेणैव सिद्धत्वात्। "अस्थिहरः"इति। अस्थ्युत्क्षेपणसमर्थे वयसि वत्र्तत इत्यर्थः॥
बाल-मनोरमा
वयसि च ७३९, ३।२।१०

वयसि च। कर्मण्युपपदे वयसि गम्ये हरतेरजित्यर्थः। ननु "हरतेरनुद्यमनेऽ"जित्येव सिद्धे किमर्थमिदमित्यत आह-- उद्यमनार्थमिति।

तत्त्व-बोधिनी
वयसि च ६१८, ३।२।१०

कवचहर इति। कवचोद्यमनं क्रियमाणं, संभाव्यमानं वा वयो गमयति। तनाऽसत्यपि कवचग्रहणे "कवचहर" इति भवत्येव।