पूर्वम्: ३।२।१०२
अनन्तरम्: ३।२।१०४
 
सूत्रम्
सुयजोर्ङ्वनिप्॥ ३।२।१०३
काशिका-वृत्तिः
सुयजोर् ङ्वनिप् ३।२।१०३

सुनोतेर् यजतेश्च ङ्वनिप् प्रत्ययो भवति। सुत्वा। यज्वा।
बाल-मनोरमा
सुयजोर्ङ्वनिप् ८९४, ३।२।१०३

सुयजोर्ङ्वनिप्। पञ्चम्यर्थे षष्ठी। सुनोतेर्यजेश्च ङ्वनिबित्यर्थः। भूते इति। अस्य भूताधिकारस्थत्वादिति भावः। सुत्वा सुत्वानाविति। ङ्वनिपि ङपावितौ , इकार उच्चारणार्थः। ङित्त्वान्न गुणः।

तत्त्व-बोधिनी
सुयजोर्ङ्वनिप् ७३५, ३।२।१०३

सुयजोर्ङ्वनिप्। सुनोतेरिति। षुञ् अभषवे। यद्यपीह सु गतौ , षु प्रसवैवै()आर्ययोरिति निरनुबन्धकयोरेव ग्रहणं न्याय्यं, तथाप्यनभिधानादुभयपदिना साहचर्याद्वा तयोग्र्रहणं न भवतीति भावः। ङकारः सुनोतेर्गुणप्रतिषेधार्थः। पकारस्तु स्वरार्थस्तुगर्थश्च।