पूर्वम्: ३।२।१०८
अनन्तरम्: ३।२।११०
 
सूत्रम्
उपेयिवाननाश्वाननूचानश्च॥ ३।२।१०९
काशिका-वृत्तिः
उपेयिवाननाश्वाननूचानश् च ३।२।१०९

उपेयिवाननाश्वाननूचान इत्येते शब्दा निपात्यन्ते। उपपूर्वादिणः क्वसुः, द्विर्वचनम् अभ्यासदीर्घत्वं तत्सामर्थ्यादेकादेशप्रतिबन्धः, तत्र वस्वेकाजाद्धसाम् ७।२।६७ इत्यनेकाच्त्वादिण् न प्राप्नोति, स निपात्यते, अभ्यासस्य श्रवणं धातुरूपस्य यणादेशः। उपेयिवान्। क्रादिनियमात् प्राप्तश्च वस्वेकाजाद्धसाम् ७।२।६७ इति प्रतिषिद्धः, स पुनरिट् प्रतिप्रसूयते, तेन अजादौ न भवति। उपेयुषः। उपेयुषा। न च अत्र उपसर्गास् तन्त्रम्, अन्योपसर्गपूर्वान् निरुपसर्गाच् च भवत्येव। समीयिवान्। ईयिवान्। वावचनानुवृत्तेश्च पूर्ववल् लुडादयो ऽपि भवन्ति। उपागात्। उपैत्। उपेपाय। अश्नातेर् नञ्पूर्वात् क्वसुर् निपत्यते, इडभावश्च। अनाश्वान्। नाशीत्। नश्नात्। नाश। वचेरनुपूर्वात् कर्तरि कानज् निपात्यते। अनूचानः। अन्ववोचत्। अन्वब्रवीत्। अनूवाच।
न्यासः
उपेयिवानना�आआननूचानश्च। , ३।२।१०९

"उपपूर्वादिणः क्वसुः" इति। लिडादेश इति वेदितव्यः। "अभ्यासदीर्घत्वम्" इति। "दीर्घ इणः किति" ७।४।६९ इत्यनेन। "तत्सामथ्र्यात्" इत्यादि। दीर्घत्वविधानसामथ्र्यादकः सवर्णे दीर्घ्तवमेकादेशः प्रतिषिध्यते, प्रवृत्तिविघातोऽस्य क्रियत इत्यर्थः। यदि ह्रेकादेशः स्यात्, दीर्घत्वभिधानमनर्थकं स्यात्; एकादेशेनैव दीर्घत्वसिद्धेः। ननु चाभ्यासदीर्घस्येयतुः, इयुरित्ययमवकाशः स्यात्-- यत्र धातुरूपस्य "इणो यण्" (६।४।८१) इति यणादेशः क्रियते? नैषोऽस्यावकाशः, अत्र हि "अचः परस्मिन् पूर्वविधौ" १।१।५६ इति स्थानिवद्भावेन भवितव्यम्। कथम्? सवर्णदीर्घत्वे हि पूर्वापरविधितवात् पूर्वविधिरिति शक्यते व्यपदेष्टुम्। यो ह्रुभयस्थानी निष्पद्यते लभतेऽसावन्यतरव्यपदेशम्। न चात्र "न पदान्त" १।१।५७ इत्यादिसूत्रेण दीर्घविधिं प्रति स्थानिवद्भावप्रतिषेधोऽस्ति; यस्मात् "स्वरदीर्घयलोपेषु लोपाजादेशौ न स्थानिवदेव" (काशिका।१।१।५८) इत्यादिसूत्रेण दीर्घविधिं प्रति स्थानिवद्भावप्रतिषेधोऽस्ति; यस्मात् "स्वरदीर्घयलोपेषु लोपाजादेशौ न स्थानिवदेव" (काशिका।१।१।५८) इति स्थानिवद्भावादकः सवर्णे दीर्घत्वेनात्र भवितव्यम्। तदेतदभ्यासदीर्घत्वमनवकाशत्वात् सवर्णदीर्घत्वं बाधत इति स्थितमेतत्-- सामथ्र्यादेकादेशः प्रतिषिध्यत इति। "तत्र" इत्यादि। एकादेशप्रतिबन्धके हि सत्यनेकाच्त्वं भवति, तेन "वस्वेकाजाद्()घसाम्" ७।२।६७ इत्यनेनेडागमो न प्राप्नोतीति स निपात्यते। "धातुरूपकस्य यणादेशः" इति। "इणो यण्" ६।४।८१ इत्यनेन, तर्दीदं निपातनमेव। सत्यजादावपि परतो वसोः सम्प्रासरणमिति। सम्प्रसारणे कृते सतीट् प्राप्नोति स "वस्वेकाजाद्घसाम्" ७।२।६७ इति प्रतिषिद्धः, स एवानेन निपातनन प्रतिप्रसूयते। प्रतिषिद्धः स पुनः प्रवत्र्तते, न त्वपूर्व विधीयते। "तेनाजादौ न भवति" इति। अपिपूर्वस्य हि विधानेन विशेषानुपादानादजादावपि प्रसङ्गः स्यात्; न तु लक्षणप्रतिषेधस्येटः प्रसवे; तस्य वलादित्वात्। "उपेयुषा" इति। सम्प्रसारणे कृते धातोर्यणादेशः, "आदेशप्रत्यययोः" ८।३।५९ इति षत्वम्। "न चात्रोपसर्गस्तन्त्रम्" इति। उपस्र्गोऽत्र न प्रधानमित्यर्थः। तन्त्रत्वं तस्य "बहुलं छन्दसि" ३।२।८८ इत्यतो बहुलग्रहणानुवृत्तेर्लभ्यते। "उपागात्" इति। लुङ, "इणो गा लुङि" २।४।४५ इति गादेशः। "गातिस्था"( २।४।७७) इत्यादिना सिचो लुक्। "उपैत्" इति। लङ, तिप्, अदादित्वाच्छपो लुक्, "आडजादीनाम्" ६।४।७२ इत्याट्, "आटश्च" ६।१।८७ इति वृद्धिः। "उपेयाय"इति। लिट्, तिप्, णल्, "अचो ञ्णिति" ७।२।११५ इति वृद्धिः, आयादेशः, स्थानिवद्भावादद्विर्वचनमिकारस्येति; "अभ्यासस्यासवर्णे"६।४।७८ इतीयङ, इकारेण सह "आद्गुणः" ६।१।८४। "अना()आआन्" इति। "अश भोजने" (धा।पा।१५२३) लिट्, क्वसुः, द्विर्वचनम्, "अश"इत्यस्य "अत आदेः" ७।४।७० इत्यभ्यासस्य दीर्घत्वम्, इडभावश्च,"वस्वेकाजाद्धसाम्" ७।२।६७ इत्यनेन प्राप्तस्येटोऽभावो निपात्यते। न आ()आआन् अना()आआन्-- नञ्समासः, "नलोपो नञः" ६।३।७२ इति नलोपः;"तस्मान्नुडचि" ६।३।७३ इति नुडागमः। "नाशीत्" इति। लुङ, "च्लेः सिच्" ३।१।४४, "इट ईटि" ८।२।२८ इति सिचो लोपः, पूर्ववदाट्, वृद्धिः, नञा सह सवर्णदीर्घत्वम्। "नाश्नात्" इति। लङ्, क्र्यादित्वात् श्ना, आडागमः। "नाश" इति। लिट्, तिप्,णल्, द्विर्वचनम्, पूर्ववदभ्यासदीर्घत्वम्, धातुना नञा सहाकः सवर्णे दीर्घत्वम्। "वचेः"इत्यादि। "वच परिभाषणे" (धा।पा।१०६३)-- इत्यस्मात् "ब्राउवो वचिः"२।४।५३ इति वच्यादेशाद्वा वचेरनुपूर्वात्, कानच् कत्र्तर्यात्मनेपदसंज्ञको न प्राप्नोति;परस्मैपदित्वात्, इतरस्मात् कर्त्त्रभिप्रायफलस्य विवक्षितत्वात्, अतः स निपात्यते। वच्यादिसूत्रेण ६।१।१५ धातोः सम्प्रसारणम्, "लिट()भ्यासस्योभयेषाम्" ६।१।१७ इत्यभ्यासस्य पश्चादनुशब्देन सहाकः सवर्णे दीर्घत्वम्। "अन्ववोचत्" ६।१।८४। "अन्वब्रावीत्" इति। ब्राउवो लङ,शपो लुक्, "ब्राउव ईट्" ७।३।९३। "अनूवाच" इति। लिट्, णल्, "अत उपधायाः" ७।२।११६ इति वृद्धिः, पूर्ववदभ्यासस्य सम्प्रासरमेकादेशः॥
बाल-मनोरमा
उपेयिवानना�आआननूचानश्च ९०१, ३।२।१०९

उपेयिवान। इडिति। उपपूर्वादिण्धातोर्लिटः क्वसुः, नित्यत्वाद्द्वित्वम्। वलादिलक्षण इट् "नेड्वशि कृती"ति प्रतिषिद्धः, स तावत्कादिनियमात्पुनरुत्थितः। पुनश्च "वस्वेकाजाद्धसा"मिति "सूत्रेण एकाच्श्च आदन्ताच्च घसेश्च परस्य वसोरिट् स्यान्नान्येभ्य" इत्यर्थकेन द्वित्वनन्तरमनेकाच्त्वात्प्रतिषिद्धः, सोऽयमिट् अनेन निपातनेन प्रतिसूयते इति भाष्ये स्पष्टम्। इटि कृते उत्तरखण्डस्य इकारस्य यण्। अभ्यासस्य दीर्घस्तु न निपात्यते। नन्वत्र अपूर्व इट् निपात्यतामित्यत आह-- उपेयुषीति। उगित्त्वान्ङीपि वसोः संप्रसारणम्। प्रतिसूतो वलादिलक्षण इट् तु न, तन्निमित्तस्य वकारस्य संप्रसारणेन विनाशोन्मुखत्वात्। अत्र अपूर्वस्य इटो निपातने तु अत्रापि इट् स्यादिति भावः। उपेत्यविवक्षितमिति। अत्र व्याख्यानमेव शरणम्। अश्नातेरिति। "अश भोजने" श्नाविकरणः क्र्यादिः, लिटः क्वसुः, द्वित्वम्, "अत आदे"रिति दीर्घः, सवर्णदीर्घः, द्वहल्त्वाऽभावान्न नुट्। "अश्नोतेश्चे"त्यपि न नुट्, श्नुविकरणस्थस्यैव तत्र ग्रहणात्। नञ उपपदसमासः। "नलोपो नञः" "तस्मान्नुडची"ति भावः। वचेः कर्तरीति। न तु भावकर्मणोरिति भावः। कानचि यजादित्वात्संप्रसारणं, पूर्वरूपं, सवर्णदीर्घः। "विभाषा गमहने"त्यादि स्पष्टम्।

तत्त्व-बोधिनी
उपेयिवानना�आआननूवानश्च ७४१, ३।२।१०९

उपेयिवानना। इडिति। वलादिलक्षण एवेट् "नेड्वशि कृती"ति निषिद्धः। क्र्यादिनियमात्पुनः प्राप्तः "वस्वेकाजाद्धसा"मिति सूत्रेण कृतद्वित्वानामेकाचामादन्तानां घसेश्च वसोरिट् स्यान्नान्येषामिति नियच्छता प्रतिषिद्धः, नित्यत्वाद्द्वित्वे कृतेऽनेकाच्त्वात्। न च सवर्णदीर्घेणैकाच्त्वम्। "दीर्घ इणः किती"त्यभ्यासस्य दीर्घे कृते तत्सामथ्र्यात्सवर्णदीर्घाऽभाव इति पक्षाश्रयणात्। स एव वलादिलक्षण इडिह प्रतिप्रसूयते, नाऽपूर्वो विधीयते, तेन संप्रसारणविषये न भवति। अत एवोदाहरति-- उपेयुष इति। सति त्विटि तस्य यणादेशे उपेय्युष इति स्यादिति भावः। अविवक्षितमिति। व्याख्यानमेवाऽत्र शरणम्। ईयिवानिति। इणो द्वित्वे सवर्णदीर्घं बाधित्वा आङ्गत्वात् "इणो य"णिति यण् भवति, वसोरिडागमे हि परत्राऽजादिप्रत्ययस्य सत्त्वात्। वचेरिति। वच परिभाषणे इत्यस्माद्ब्राउवो वचेर्वा कर्तरि, न तु भावकर्मणोः। एतच्च निपातनाल्लब्धम्।