पूर्वम्: ३।२।११०
अनन्तरम्: ३।२।११२
 
सूत्रम्
अनद्यतने लङ्॥ ३।२।१११
काशिका-वृत्तिः
अनद्यतने लङ् ३।२।१११

भूते इत्येव। अनद्यतने इति बहुव्रीहिनिर्देशः। अविद्यमानाद्यतने भूते ऽर्थे वर्तमानाद् धातोर् लङ् प्रत्ययो भवति। अकरोत्। अहरत्। बहुव्रीहिनिर्देशः किम् अर्थः? अद्य ह्यो वा अभुक्ष्महि इति व्यामिश्रे मा भूत्। परोक्षे च लोकविज्ञाते प्रयोक्तुर् दर्शनविषये लङ् वक्तव्यः। अरुणद्यवनः साकेतम्। अरुणद् यवनो माद्यमिकानिति।
लघु-सिद्धान्त-कौमुदी
अनद्यतने लङ् ४२४, ३।२।१११

अनद्यतन भूतार्थ वृत्तेर् धातोर् लङ् स्यात्॥
न्यासः
अनद्यतने लङ्। , ३।२।१११

"अनद्यतने" इति। यद्ययं तत्पुरुषः स्यात् तदा पर्युदासो वा स्यात्, प्रसज्यप्रतिषेधो वा। तदा पूर्वस्मिन् पक्षेऽद्यतनाद्योऽन्यस्तस्मिन् भवितव्यम्। एवञ्च "अद्य ह्रो वाभुक्ष्मिहि" इत्यत्राप्यद्यतनव्यामिश्रे प्राप्नोति। अस्ति ह्रद्यतनानद्यतनसमुदायोऽनद्यतनादन्यः, इतरस्त्वद्यतने न भवतीत्येषोऽर्थो जायते, ततश्च भूतसामान्ये स्यात्। अनद्यतन इति अद्यतनभूतविशेषे प्रतिषेधः,न भूतसामान्ये। न हि भूतसामान्यं भूतविशेषः, तस्मात् तत्पुरुषपक्षो दोषवानिति मत्वाऽ‌ऽह-- "अनद्यतन इति बहुव्रीहिनिर्देशः" इति। अविद्यमानोऽद्यतनो यस्मिन्निति सोऽनद्यतनभूतधात्वर्थः, अत्र वत्र्तमानाल्लङ भवति, न त्वद्यतनानद्यतनसमुदाये, तत्राद्यतनैकदेशस्य सद्भावात्। भूतसामान्येऽपि न भवत्येव, विद्यते हि सामान्ये विशेषः; तस्यान्तर्भूतविशेषत्वात्। यत्राद्यतनगन्धोऽप्यस्ति तत्र लङा न भवितव्यमित्येषोऽर्थो बुहव्रीहौ सति लभ्यते। यदि तर्हि बहुव्रीहिरयम्, एवं सत्यद्यतनेऽपि प्राप्नोति, न ह्रद्यतने द्वितीयोऽद्यतनोऽस्ति? नैतदेवम्; अद्यतनसामान्ये मुहूत्र्तादेरद्यतनविशेषस्य विद्यमानत्वात्। तस्मादद्यतनोऽविद्यमानाद्यतन इति न शक्यते वक्तुम्। "अद्य ह्रो वा भुक्ष्महि" इति। लुङ्, "भुजोऽनवने" १।३।६६ इत्यात्मनेपदम्, महिङ्, "लिङसिचोरात्मनेपदेषु"७।२।४२ इति सिचः कित्त्वाद्गुणाभावः। "चोः कुः" ८।२।३० इति कुत्वम्-- जकारस्य गकारः, तस्य "खरि च" ८।४।५४ इति चर्त्त्वं ककारः,पूर्ववत् षत्वम्। "परोक्षे च" इत्यादि। परोक्षशब्दो रूढिशब्द इन्द्रियातिक्रान्तेऽर्थे वत्र्तते। परोक्षे लोकविज्ञाते = लोकप्रसिद्धे प्रयोक्तुर्दर्शनविषये लङन्तस्य यः प्रयोक्ता तस्य दर्शनविषये लङ् वक्तव्यः = व्याख्येयः। व्याख्यानं तु-- तस्यैव बहुलग्रहणमाश्रित्य कत्र्तव्यम्। ननु च विप्रतिषिद्धमिदमुच्यते-- परोक्षेऽर्थे दर्शनविषय इ#इत,परोक्षो ह्रर्थोऽतीन्द्रिय उच्यते, इन्द्रियविषयभावापन्नस्तु दर्शनविषयः, ततो यदि परोक्षः, कथं दर्शनविषयः। यदि दर्शनविषयः कथं परोक्षः? नैतदस्ति; शक्यदर्शनविषय इत्युक्तम्ननुभूतत्वात् परोक्ष इत्यविरोधः। अरुणत्िति। "रुधिर् आवरणे" (धा।पा।१४३८), रुधादित्वात् श्नम्, तिप्, हल्ङ्यादिना ६।१।६६ तिलोपः। साकेतावरोधस्तदानीन्तनप्रयोक्तुर्दर्शनविषयत्वात् लोकप्रसिद्धश्च,कार्यव्यासङ्गदननुभूतत्वात् परोक्षश्च। परोक्ष इति किम्? उदगादादित्यः। "गातिस्था" २।४।७७ इत्यादिना सिचो लुक्। पूर्ववदादेशादि कार्यम्। लोकविज्ञात इति किम्? चकार कटं देवदत्तः। प्रयोक्तुर्दर्शनविषय इति किम्? जघान कंसं किल वासुदेवः। हन्तेः परोक्षे लिट्; द्विर्वचनम्, "अभ्यासाच्च" ७।३।५५ इति कुत्वम्-- हकारस्य घकारः। कंसवधश्चिकारालवृत्तत्वादिदानीन्तनप्रयोक्तुर्दर्शनविषयो न भवति। यस्तु कंसवधेन तुल्यकालः प्रयोक्ता स लङमेव प्रयुक्तवान्--अहन् कंसं वासुदेव इति। मूलोदाहरणेऽपि प्रयोक्ता साकेतावरोधतुल्यकालो वेदितव्यः। तस्यैव ह्रसौ दर्शनविषयः,नान्यस्य॥
बाल-मनोरमा
अनद्यतने लङ् ५४, ३।२।१११

अनद्यतने लङ्। धातोरिति, भूत इति चाधिकृतम्। भूत इति धात्वर्थेऽन्वेति। तदाह--अनद्यतनभूतार्थवृत्तेरिति।