पूर्वम्: ३।२।११२
अनन्तरम्: ३।२।११४
 
सूत्रम्
न यदि॥ ३।२।११३
काशिका-वृत्तिः
न यदि ३।२।११३

यच्छब्दसहिते अभिज्ञावचन उपपदे लृट् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिद्यते। अभिजानासि देवदत्त यत् कश्मीरेष्ववसाम। वासमात्रं स्मर्यते, न तु अपरं किंचिल् लक्ष्यते। तेन उत्तरसूत्रस्य न अयं विषयः।
न्यासः
न यदि। , ३।२।११३

"यदि" इति। सती सप्तमीयम्। अभिज्ञावचनञ्चानुवत्र्तते। तेन यत्र यच्छब्दोऽस्ति तत्र नियोगतोऽभिज्ञावचनं तत्सहितं न भवतीत्याह-- "यच्छब्दसहिते"इत्यादि। "अवसाम" इति। वसेर्लङ्, "नित्यं ङितः"३।४।९९ इति सलोपः, पूर्ववद्दीर्घः। "वासमात्रम्ित्यादिना उत्तरसूत्रस्य नायं विषय इति दर्शयति। यदि हि तत्रापरं लक्षणमपेक्ष्यते तदोत्तरसूत्रे पाक्षिको विधिः स्यात्, स नेष्यते, तस्मान्नापेक्षते॥
बाल-मनोरमा
न यदि ५९८, ३।२।११३

न यदि। "यदी"ति सप्तमीति मत्वाह--- यद्योगे इति। उक्तं नेति। "अभिज्ञावचने" इति लृण्न भवतीत्यर्थः। अभिजानासीति। वने अभुञ्जमहीति यत्तस्मरसीत्यर्थः।

तत्त्व-बोधिनी
न यदि ४९२, ३।२।११३

न यदि। लृटः प्रतिषेधे उत्सर्गो लङ्।