पूर्वम्: ३।२।११४
अनन्तरम्: ३।२।११६
 
सूत्रम्
परोक्षे लिट्॥ ३।२।११५
काशिका-वृत्तिः
परोक्षे लिट् ३।२।११५

भूतानद्यतने इति वर्तते। तस्य विशेषणं परोक्षग्रहणम्। घूतानद्यतनपरोक्षे ऽर्थे वर्तमनाद् धात्H लिट् प्रत्ययो भवति। ननु धात्वर्थः सर्वः परोक्ष एव? सत्यम् एतत्। अस्ति तु लोके धात्वर्थेन अपि कारकेषु प्रत्यक्षाभिमनः। स यत्र न अस्ति तत् परोक्षम् इत्युच्यते। चकार। जहार। उत्तमविषये ऽपि चित्तव्याक्षेपात् परोक्षता सम्भवत्येव। तद् यथा सुप्तो ऽहं किल विललाप। अत्यन्तापह्नवे च लिड् वक्तव्यः कलिङ्गेषु स्थितो ऽसि? हानं कलिङ्गञ् जगाम। दक्षिणापथं प्रविष्टो ऽसि? नाहं दक्षिणापथं प्रविवेश।
लघु-सिद्धान्त-कौमुदी
परोक्षे लिट् ३९३, ३।२।११५

भूतानद्यतन परोक्षार्थवृत्तेर् धातोर्लिट् स्यात्। लस्य तिबादयः।
न्यासः
परोक्षे लिट्। , ३।२।११५

"ननु च" इत्यादि। धात्वर्थो हि पूर्वापरीभूतावयवा साध्यमाना क्रिया। यच्च साध्यमानं तदसत्। तच्चासदिन्द्रियाणामविषयः, तेषां सद्विषयत्वात्। यच्चेन्द्रियाणामविषयः तत् परोक्षमिति स एव हि धात्वर्थः परोक्षः, ततः परोक्षग्रहणमनर्थकम्, व्यवच्छेद्याभावादिति भावः। "सत्यमेतत्" इति। यदनन्तरमुक्तम्। यदि सत्यमेतत् तदा कस्य व्यवच्छेदार्थं परोक्षग्रहणं कृतमित्याह-- "अस्ति तु" इत्यादि। यत्र साध्यानि प्रत्यक्षाणि तत्रानिष्पन्ने क्रियात्मनि धात्वर्थे प्रत्यक्षाभिमानो लोकस्य भवति। ननु च सावधानान्यपि नैव प्रत्यक्षाणि;शक्तिस्वभावत्वात्, शक्तेश्च कार्यानुमेयत्वात्, न ह्रशक्तौ कार्यं करोतीति कार्यकरणे शक्तिरनुमीयते; तत् किमुच्यते साधनानि प्रत्यक्षाणि? नैष दोषः;"द्रव्याश्रिता हि शक्तयः"इति द्रव्यस्य प्रत्यक्ष्तवादाश्रयधममाश्रितेषु शक्त्यात्मकेषूपचार्याण्येतान्यपि प्रत्यक्षाणीत्युच्यन्ते। अथ वा-- तदपि साधनाश्रयं द्रव्यशक्तिमतोर्भेदस्याविवक्षितत्वात् साधनशब्देनोच्यते; तदनेन परोक्षग्रहणेन प्रत्यक्षाभिमानोऽस्ति, स एव परोक्ष इच्युच्यते-- तदाह-- "स यत्र नास्त" इति। आत्मविषय उत्तमस्य च धात्वर्थस्य परोक्षत्वं नोपपद्यते; तत्साधनानां प्रत्यक्षत्वात्। तत्र लोकस्य प्रत्यक्षत्वात्, ततश्चोत्तमेन सिध्यतीति चोद्यमाशङ्क्याह-- "उत्तमविषये" इत्यादि। आत्मसाध्या हि क्रिया, यत्र चित्तविक्षेपान्नोपपद्यते, तदासौ परोक्षा भवति, तेनोत्तमविषयेऽपि परोक्षभावः। तद्भवत्येव। "विललाप" इति। लपेर्विपूर्वस्योत्तमे णलि रूपम्। "अत्यन्तापह्नवे" इति। प्रत्यक्षमेतत्। अपह्नवः = अपलापः। स क्चिदत्यन्तो भवति यः सर्वापह्नवः, क्वचिदनत्यन्तो य एकदेशापह्नवः। तत्र योऽत्यन्तः स सर्वापह्नवः, तत्र लिड्()वक्तव्य, व्याख्येय इत्यर्थः। व्याख्यानं त्विहापि बहुलग्रहणमाश्रित् कत्र्तव्यम्। कश्चित् केनचित् पृष्टः-- "कलिङ्गेषु प्रस्थितोऽसि"इत्यादि। स एवमाह-- "नाहं कलिङ्गान् जगाम्" इति। अत्र केवलं न कलिङ्गविषयस्यापह्नवोऽपि तु गमनस्यापीति विद्यतेऽत्यन्तापह्नवः। यस्तु स्थानमात्रस्यापह्नवो न गमनस्यापि , तदानत्यन्तापह्नवे लङेव भवति-- न हि कलिङ्गेषु प्रत्यतिष्ठ इति। तथा कश्चित् केनचित् पृष्टः दक्षिणापथं प्रविश्य त्वयेदं कार्यं कृतमिति। स एवमाह-- "नाहं दक्षिणापथं प्रविवेश" इति। अत्रापि विद्यतेऽत्यन्तापह्नवः। तथा हि-- न केवलं दक्षिणापथपिषयं कार्यं प्रतिषिध्यते, अपि तु प्रवेशमपि॥
बाल-मनोरमा
परोक्षे लिट् २१, ३।२।११५

परोक्षे लिट्। "अनद्यने ल"डित्यस्मादनद्यतन इत्यनुवर्तते। "भूते" इत्यधिकृतम्। परोक्षत्वं धात्वर्थविशेषमं, तदाह--भूतानद्यतनेत्यादिना। अतीतरात्रेरन्त्ययामेन आगमिरात्रेराद्ययामेन सहितो दिवसोऽद्यतन इति लुङ्()सूत्रभाष्ये कैयटे स्थितम्। परोक्षत्वं तु वर्षशतवृत्तत्वमित्येके। वर्षसहरुआवृत्तत्वमित्यपरे। द्व्यहवृत्तत्वं, त्र्यहवृत्तत्वं, त्र्यहवृत्तत्वं चेत्यन्ये। कुड()कटाद्यन्तरितत्वमितीतरे। एते पक्षा भाष्ये स्थिताः। तत्र प्रयोक्तुरिन्द्रियाऽगोचरत्वं परोक्षत्वमित्येव सर्वसंमतमित्यलम्। लस्य तिबादय इति। तिबादिनवकमित्यर्थः।

तत्त्व-बोधिनी
परोक्षे लिट् १७, ३।२।११५

यद्यप्यधिश्रयणादिव्यापाररूपा क्रिया सर्वा परोक्षैव।उक्तं हि भाष्ये-- "क्रिया नामेयमत्यन्ताऽपरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितु"मिति, तथापि तदनुकूलशक्तिमतां व्यापाराऽविष्टानां साधनानां परोक्ष्यमिह विव७#इतम्। तेन क्रियाऽनाविष्टसाधनमात्रप्रत्यक्षेऽपि लिङ्भवत्येव। अयं पपाच। त्वं पेचिथ॥ ननु क्रियाशब्दवाच्यादिश्रयणा[धः श्रयणा]दिव्यापाराणां युगपत्प्रत्यक्षविषयत्वेऽपि क्रमशः प्रत्यक्षविषयत्वमस्ति, यत्र तु क्रमशोऽपि प्रत्यक्षविषयत्वं नास्ति तत्र हि पारोक्ष्यं क्रियायाः, ततश्च लिडुत्तमपुरुषो दुर्लभ इति चेत्। अत्राहु--- स्वव्यापारस्यापि वर्तमानतादशायां व्यासह्गादिना स्वयमप्रतिसन्धाने ततः कार्येणानुमितौ भवत्येव, "बहु जगद पुरस्तात्तस्य मत्ता किलाह"मितिवदिति।