पूर्वम्: ३।२।११६
अनन्तरम्: ३।२।११८
 
सूत्रम्
प्रश्ने चासन्नकाले॥ ३।२।११७
काशिका-वृत्तिः
प्रश्ने च आसन्नकले ३।२।११७

भुतानद्यतनपरोक्षे इति वर्तते। तस्य विशेषणम् एतत्। प्रष्टव्यः प्रश्नः। आसनकाले पृच्छ्यमने भूतानद्यतनपरोक्षे ऽर्थे वर्तमानाद् धातोः लङ्लिटौ प्रत्ययौ भवतः। कश्चित् कञ्चत् पृच्छति। अगच्छद् देवदत्तः? जगाम देवदत्तः? अयजद् देवदत्तः? इयाज देवदत्तः? प्रश्ने इति किम्? जगाम देवदत्तः। आसनकाले इति किम्? भवन्तं पृच्छामि, जघान कंसं किल वासुदेवः?।
न्यासः
प्रश्ने चासन्नकाले। , ३।२।११७

"प्रष्टव्यः प्रश्नः" इत्यनेन प्रश्नशब्दं कर्मसाधनं दर्शयति। करणसाधने हि पृच्छ्यतेऽनेनेति शब्दः प्रश्नशब्देनोच्यते। तथा च सति तस्योच्चर्यमाणत्वादात्मलाभस्य सर्वदैवासन्नकाल इत्यासन्नकालग्रहणमनर्थकं स्यात्। भावसाधनेऽप्यर्थान्तरवाचिभ्यो धातुभ्यो न स्यात्। "अगच्छत्िति। "गम्लृ सृप्लृ गतौ" (धा।पा।९८२, ९८३), "इषुगमियां छः" ७।३।७७ इति छत्वम्। "इयाज" इति। "लिट()भ्यासस्योभयेषाम्"६।१।१७ इति सम्प्रसारणम्। "जघान" इति। कंसवधोऽत्र पृच्छमानः। स चेदानीन्तनप्रयोक्तुरपेक्षया विप्रकृष्टकालः। पञ्चवर्षाभ्यन्तरमासन्नकाल इति नैयायिका वर्णयन्ति। पञ्चवर्षातीतस्तु विप्रकृष्ट इति भवति। कंसवधोऽत्र विप्रकृष्टकालः॥
बाल-मनोरमा
प्रश्ने चासन्नकाले ६०१, ३।२।११७

प्रश्ने चासन्नकाले। "प्रश्ने इत्यनेन प्रश्नविषयो विवक्षित इत्याह-- प्रष्टव्यः प्रश्न इति। अर्थे इत्यन्तरं "वर्तमानाद्धातो"रिति शेषः। प्रयोक्तृदृष्टिपथातिक्रान्तत्वमनासन्न्कालत्वम्। वृत्तौ तु पञ्चवर्षातीतकालोऽनासन्नकाल इत्युक्तम्।

तत्त्व-बोधिनी
प्रश्ने चासन्नकाले ४९४, ३।२।११७

प्रश्ने चा। भूतानद्यतनपरोक्षे तु विप्रकृष्टकालमित्याहुः। पृच्छ्यमानैति। आसन्नकालिके भूतानद्यतनपरोक्षार्थवृत्तिधात्वर्थे प्रष्टव्ये सतीत्यर्थः। प्रश्ने किम्?। भूतानद्यतनपरोक्षे लिडेव। जगाम चैत्रः।