पूर्वम्: ३।२।११७
अनन्तरम्: ३।२।११९
 
सूत्रम्
लट् स्मे॥ ३।२।११८
काशिका-वृत्तिः
लट् स्मे ३।२।११८

भूतानद्यतनपरोक्षे इति वर्तते। स्मशब्दे उपपदे भूतानद्यतनपरोक्षे लट् प्रत्ययो भवति। लिटो ऽपवादः। नडेन स्म पुराधीयते। ऊर्णया स्म पुराधीयते।
लघु-सिद्धान्त-कौमुदी
लट् स्मे ७६६, ३।२।११८

लिटोऽपवादः। यजति स्म युधिष्ठिरः॥
न्यासः
लट् स्मे। , ३।२।११८

"नडेन स्म पुराधीयते" इति। इङोऽधिपूर्वाल्लट्, "भावकर्मणोः" १।३।१३ इत्यात्मनेपदम्, टेरेत्वम्, "सार्वधातुके यक्" ३।१।६७, "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घः। उपसर्गेण सहाकः सवर्णे ६।१।९७ दीर्घत्वम्। अथ वा-- कत्र्तर्यात्मनेपदम्, अदादित्वाच्छब्दो लुक्, "आत्मनेपदेष्वनतः" ७।१।५ इत्यदादेशः, धातोरियङ यथायोगं पूर्ववत्॥
बाल-मनोरमा
लट् स्मे ६०२, ३।२।११८

लट् स्मे। "स्मे"त्यव्ययम्। तद्योगे लिड्विषये लट् स्यादित्यर्थः। यजति स्मेति। स्मशब्दो भूतकालद्योतकः।

तत्त्व-बोधिनी
लट् स्मे ४९५, ३।२।११८

लट् स्मे। "स्मे" इत्यव्ययं भूतकालद्योतकम्।