पूर्वम्: ३।२।१२०
अनन्तरम्: ३।२।१२२
 
सूत्रम्
नन्वोर्विभाषा॥ ३।२।१२१
काशिका-वृत्तिः
नन्वोर् विभाषा ३।२।१२१

भूते इत्येव। नशब्दे नुशब्दे च उपपदे पृष्टप्रतिवचने विभषा लट् प्रत्ययो भवति भूते। अकार्षीः कटं देवदत्त? न क्रोमि भोः, नाकार्षम्। अहं नु करोमि, अहं नु अकार्षम्।
बाल-मनोरमा
नन्वोर्विभाषा ६०५, ३।२।१२१

नन्वोर्विभाषा। न नु अनयोद्र्वन्द्वः। तदाह-- नशब्दे नुशब्दे चेति। लड्वा स्यादिति "भूते" इति शेषः। अकार्षीः किमिति प्रश्नः। न कोरमि, नाकार्षमित्युत्तरम्। अहं नु करोमि, अहं न्वकार्षमिति च। "तर्के नु स्या"दित्यमरः।

तत्त्व-बोधिनी
नन्वोर्विभाषा ४९७, ३।२।१२१

नन्वोः। भृत इत्येव। पक्षे लुङ्। अनद्यतने तु लङ्। पक्षे यथाप्राप्तमिति। लुङ्लटोरभावपक्षे लङ्, पारोक्ष्ये तु लिडित्यर्थः। भविष्यतीति। "भविष्यति गम्यादयः" इति सूत्रात्।