पूर्वम्: ३।२।१२२
अनन्तरम्: ३।२।१२४
 
प्रथमावृत्तिः

सूत्रम्॥ वर्त्तमाने लट्॥ ३।२।१२३

पदच्छेदः॥ वर्त्तमाने ७।१ ३।३।१ लट् १।१ धातोः ५।१ ३।१।९१ प्रत्ययः १।१ ३।१।१ परश्च १।१ ३।१।२

अर्थः॥

धातोः वर्त्तमाने (काले) लट् प्रत्ययः परश्च भवति।

उदाहरणम्॥

पचति, भवति, पठति।
काशिका-वृत्तिः
वर्तमाने लट् ३।२।१२३

आरब्धो ऽपरिसमाप्तश्च वर्तमानः। तस्मिन् वर्तमाने ऽर्थे वर्तमनाद् धातोः लट् प्रत्ययो भवति। पचति। पठति।
लघु-सिद्धान्त-कौमुदी
वर्तमाने लट् ३७६, ३।२।१२३

वर्तमान क्रिया वृत्तेर्धातोर्लट् स्यात्। अटावितौ। उच्चारण सामर्थ्याल्लस्य नेत्वम्। भू सत्तायाम्॥ १॥ कर्तृ विवक्षायां भू ल् इति स्थिते ---।
न्यासः
वत्र्तमाने लट्। , ३।२।१२३

"प्रारब्धोऽपरिसमाप्तश्च" इति। प्रारब्धो यः साधयितुं प्रस्तुतः, न च समाप्तिमुपगतः स वत्र्तमान इत्युच्यते। वत्र्तमानग्रहणं धात्वधिकारात् तदर्थस्यैव विशेषणं विज्ञायत इत्याह--- "वत्र्तमाने" इत्यादि। न ह्रधात्वर्थे धातोर्वृत्तिः सम्भवति। लटष्टकारः "टित आत्मनेपदानां टेरे" ३।४।७९ इति विशेषणार्थः। अकारः "विदो लटो वा " ३।४।८३ इति विशेषणार्थः; इकारे ह्रच्चारिते लिडादीनां ग्रहणं स्यात्॥
बाल-मनोरमा
वर्तमाने लट् २, ३।२।१२३

वर्तमाने लट्। "धातो"रिति सूत्रमा तृतीयाध्यायसमाप्तेरधिकृतम्। "वर्तमाने" इति तत्रान्वेति। वर्तमानेऽर्थे विद्यमानाद्धातोर्लडिति लभ्यते। फलितमाह-- वर्तमानक्रियावृत्तेरिति। धात्वर्थक्रियाया वर्तमानत्वं तु वर्तमानकालवृत्तित्वम्। कालस्य तु वर्तमानत्वम्--अतीतानागतभिन्नकालत्वम्। "भूतभविष्यतोः प्रतिद्वन्द्वी वर्तमानः काल" इति भाष्यम्। वर्तमानत्वं च न प्रत्ययार्थभूतकत्र्रादिविशेषणम्। अतीतपाकादिक्रिये कर्तरि वर्तमाने पचतीत्याद्यापत्तेः, किंतु धात्वर्थविशेषणमेव वर्तमानत्वम्। लट् तु तस्य द्योतक एव। अटाविताविति। न च अकार उच्चारणार्थ एवास्त्विति वाच्यं, लिडादि वैलक्षण्याय तस्यावश्यकत्वात्। तथा च तस्य इत्संज्ञां विना निवृत्त्युपायाऽभावादित्संज्ञैवादर्तव्येति भावः।

तत्त्व-बोधिनी
वत्र्तमाने लट् २, ३।२।१२३

वर्तमाने लट्। वर्तमान इत्येतत्प्रकृत्यर्थविशेषणमित्याह-- वर्तमानक्रियावृत्तेर्धातोरिति। धातोरिति सूत्रमा तृतीयाध्यायान्तमदिक्रियत इति भावः। लट् स्यादिति। तस्य वाच्यत्वमनुपदमेव स्फुटीभविष्यति। वर्तमानकालस्तु न तद्वाच्यः, किंतु द्योत्य एव। लङादिष्वपि भूतादिकालो यथायथं द्योत्य एवेत्यवगन्तव्यम्। वस्तुतस्तु वाच्यत्वाभ्युपगमोऽपि सुगम इति विध्यादिसूत्रे वक्ष्यामः॥ अटाविताविति। "अकार उच्चारणार्थ" इति तु नोक्तं, लिडादिवैलक्ष्ण्यसंपादनाय तस्यावश्यवक्तव्यत्वात्